51030: द्वित्रिपूर्वान्निष्कात् =============================== **Padacheda:** द्वि-त्रि-पूर्वात् | S | 5 | 1 | निष्कात् | S | 5 | 1 | Sutrartha --------- **यस्य तद्धितार्थद्विगुसमासस्य पूर्वपदे 'द्वि' तथा 'त्रि' शब्दः, तथा उत्तरपदे 'निष्क' शब्दः विद्यते, तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति ।** 'द्वे निष्के', तथा 'त्रीणि निष्कानि' एतयोर्विषये तद्धितार्थद्विगुसमासेन निर्मितात् शब्दात् आर्हीय-अर्थेषु विहितस्य प्रत्ययस्य विकल्पेन लुक् भवति, इति अस्य सूत्रस्य आशयः । यथा - 1. द्वाभ्यां निष्काभ्यां क्रीतम् द्विनिष्कम् द्विनैष्किकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावे **परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इत्यनेन उत्तरपदवृद्धिः भवति । 2. तथैव - त्रिभिः निष्कैः क्रीतम् त्रिनिष्कम्, त्रिनैष्किकम् वा । अत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते' बहूनि निष्कानि' इत्यस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । बहूभिः निष्कैः क्रीतम् बहुनिष्कम् बहुनैष्किकम् वा । अत्रापि लुकः अभावे औत्सर्गिकः ठञ्-प्रत्ययः तथा च **परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इत्यनेन उत्तरपदवृद्धिः भवति । Vasu English Summary -------------------- The आर्हीय affix (5.1.63) is optionally elided after a द्विगु occasioning compound, of the word निष्क preceded by द्वि and त्रि। Vasu English Translation ------------------------ The आर्हीय affix (5.1.63) is optionally elided after a द्विगु occasioning compound, of the word निष्क preceded by द्वि and त्रि। The word द्विगोः 'a *taddhita* occasioning a *Dvigu* compound' of (5.1.28) is to be read into this *sutra*. Thus द्विनिष्कम् or द्विनैष्किकम्, त्रिनिष्कम् or त्रिनैष्किकम् (7.3.17). Vart:- So also when *nishka* is preceded by बहु e.g. बहुनिष्कम् or बहुनैष्किकम् ॥ The irregular *Vriddhi* of the second term is caused by (7.3.17). Bhashya ------- द्वित्रिपूर्वान्निष्कात् (1912) (5623 सूत्रविषयनिर्धारकवार्तिकम्॥ 1 ॥) - द्वित्रिभ्यां द्वैयोग्यम् - (भाष्यम्) द्वित्रिभ्यामिति यदुच्यते द्वैयोग्यमेतद्द्रष्टव्यम्। किमिदं द्वैयोग्यमिति? द्वयोर्योगयोर्भवं - द्वियोगम्, द्वियोगस्य भावो द्वैयोग्यमिति॥ (वार्तिकप्रत्याख्याने भाष्यम्) द्वेष्यं विजानीयादविशेषेणेत उत्तरं द्वित्रिभ्यामिति। तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे द्वित्रिभ्यां द्वैयोग्यमिति॥ (5624 संग्रहवार्तिकम्॥ 2 ॥) - तत्र च बहुग्रहणम् - (भाष्यम्) तत्र च बहुग्रहणं कर्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। बहुबिस्तम्, बहुबैस्तिकम्॥ Kashika ------- द्विगोरित्येव। द्वित्रिपूर्वाद द्विगोर्निष्कान्तादार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विनिष्कम्, द्विनैष्किकम्। त्रिनिष्कम्, त्रिनैष्किकम्॥ बहुपूर्वाच्चेति वक्तव्यम्॥ बहुनिष्कम्, बहुनैष्किकम्। **परिमाणान्तस्या०** (७.३.१७) इत्युत्तरपदवृद्धिः॥ Siddhanta Kaumudi ----------------- लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् । (वार्तिकम्) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥ Balamanorama ------------ **द्वित्रिपूर्वान्निष्कात्** - द्वित्रिपूर्वान्निष्कात् । लुग्वा स्यादिति ।आर्हीयस्ये॑ति शेषः । द्विनिष्कमिति । ठञो लुक्, समासाट्ठकोऽसंभवात् । Padamanjari ----------- अध्यर्द्धपूर्वग्रहणमुतरार्थमनुवर्तते, इह तु न सम्बध्यते। द्विगुग्रहणं तु सम्बध्यते, द्वयोर्निष्कं त्रयाणां निष्कमिति षष्ठीसमासे मा भूत्। अत्र च व्याख्यानमेव शरणम्; अन्यथा ठद्यर्धपूर्वाद् द्वित्रिपूर्वाच्च निष्कात्ऽ इति समुच्ययो विज्ञायेत। द्विनैष्किकमिति।'ग्राग्वतेष्ठञ्' ,'परिमाणान्तस्य' इत्युतरपदवृद्धिः। द्वित्रिभ्यां निष्कादित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनम् ॥ Nyaas ----- अध्यर्धपूर्वग्रहणमस्वरितत्वान्नोपतिष्ठते। `द्विनिष्कम्` इति। द्वाभ्यां निष्काभ्यां क्रीतमिति असमाने ठको विधानादत्र ठञ्, तस्य लुक्। `द्विनैष्किकम्` इति। `परिमाणान्तस्य` (7.3.17) इत्यादिनोत्तरपदवृद्धिः। `बहुपूर्वाच्च` इति। बहुपूर्वद्द्विगोर्निष्कशब्दान्तादार्हीयस्य प्रत्ययस्य विभाषा लुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `द्वित्रिभ्यां निष्कात्` इत्येव सिद्धे पूर्वग्रहणमधिकं कुर्वतै तत्? सूचितम् - `अन्यदप्यधिकं किञ्चिदस्ति` इति। तेन बहुपूर्वादपि भवति॥ Prakriyasarvasvam ----------------- लुग् वा स्यात् । द्विनिष्कं, द्विनैष्किकम् । त्रिनिष्कं, त्रिनैष्किकम् । (वा० ५-१-३०) । बहुनिष्कं, बहुनैष्किकम् ॥ Vartika ------- बहुपूर्वाच्चेति वक्तव्यम् ।