51025: कंसाट्टिठन् ================== **Padacheda:** कंसात् | S | 5 | 1 | टिठन् | S | 1 | 1 | Sutrartha --------- **'कंस'शब्दात् आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति ।** **प्राग्वतेष्ठञ्** (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु अस्य अपवादरूपेण सर्वेषु आर्हीय-अर्थेषु 'कंस' (1 cup measure इत्यर्थः) अस्मात् शब्दात् टिठन्-प्रत्ययः भवति । यथा - कंसः परिमाणमस्य सः = कंस + टिठन् → कंस + इक [**ठस्येकः** (7.3.50) इति इक-आदेशः] → कंस् + इक [**यस्येति च** (6.4.148) इति अन्तिमवर्णलोपः] → कंसिक टित्वात् स्त्रीत्वे विवक्षिते **टिड्ढाणञ्..** (4.1.15) इति ङीप्-प्रत्ययः भवति - कंसः परिमाणमस्य सा कंसिकी । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. । अर्धशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ठञ्-प्रत्ययं बाधित्वा टिठन्-प्रत्यय भवति । अर्धेन क्रीतः अर्धिकः, अर्धेन क्रीता अर्धिकी । 2. । कार्षापणशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति, तस्य च विकल्पेन 'प्रति' आदेशः भवति । ('कार्षापण' इति मुद्रायाः कश्चन भेदः) । यथा - कार्षापणेन क्रीतः काषार्पणिकः , कार्षार्पणेन क्रीता कार्षार्पणिका । पक्षे - कार्षापणेन क्रीतः प्रतिकः, कार्षापणेन क्रीता प्रतिकी । Vasu English Summary -------------------- The affix टिठन् (-/- -इक) comes in the senses taught up to (5.1.63) after the word कंस। Vasu English Translation ------------------------ The affix टिठन् (-/- -इक) comes in the senses taught up to (5.1.63) after the word कंस। This debars ठञ्; the *anubandha* टि of टिठन् shows that the feminine of the word will be formed by ङीप् (4.1.15), the इ of टि is for the sake of pronunciation, the न् of टिठन् is for accent (6.1.197). Thus कंसिकः fem. कंसिकी ॥ Vart:- So also it must be stated after the word अर्ध; e. g. अर्द्धिकः, अर्धिकी ॥ Vart:- So also after the word कार्षापण, e. g. कार्षापणिकः fem. कार्षापणिकी ॥ Sometimes the word प्रति is substituted for कार्षापण before this affix, as, प्रतिकः fem. प्रतिकी ॥ Bhashya ------- कंसाटि्टठन् (1907) (टिठन्प्रत्ययाधिकरणम्) (5617 उपसंख्यानवार्तिकम्॥ 1 ॥) - टिठन्नर्धाच्च - (भाष्यम्) टिठन्नर्धाच्चेति वक्तव्यम्। अर्धिकः, अर्धिकी॥ (8618 उपसंख्यानवार्तिकम्॥ 2 ॥) - कार्षापणाद्वा प्रतिश्च - (भाष्यम्) कार्षापणाद्वा टिठन्वक्तव्यः, वा च प्रतिरादेशो वक्तव्यः। कार्षापणिकः, कार्षापणिकी। प्रतिकः, प्रतिकी॥ Kashika ------- कंसाट् टिठन् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । ठञोऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी॥ अर्धाच्चेति वक्तव्यम् ॥ अर्धिकः। अर्धिकी॥ कार्षापणाट् टिठन् वक्तव्यः॥ कार्षापणिकः। कार्षापणिकी॥ प्रतिशब्दश्चास्यादेशो वा वक्तव्यः॥ प्रतिकः। प्रतिकी॥ Siddhanta Kaumudi ----------------- टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी । (वार्तिकम्) ॥ अर्धिकः । अर्धिकी । (वार्तिकम्) । (वार्तिकम्) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥ Padamanjari ----------- कंसशब्दोऽयं कांस्यपात्रवाची परिमाणशब्दो गृह्यते, पूर्वोतरैः परिमाणशब्दैः साहचर्यात्, न लोहविशेषवचनः, नाप्युग्रसेनसुतवचन इति दर्शयति। ठञोऽपवागद इति। इकार उच्चारणार्थ इति। एवं च प्रक्रियालाघवाय टिकनेव वक्तव्यः ? तथा तु न कृतमित्येव। अधिकं इति। अर्धशब्दः कार्षापणस्यार्धे निरूढ इति भागवदपेक्षयार्धेऽसामर्थ्यं नाशङ्कनीयम्। अपर आह - प्रकरणादिवशेन भागवद्विशेषे निश्चिते सति नासामर्थ्यमिति ॥ Nyaas ----- `ठञोऽपवादः` इति। न ठकः, कंसशब्दस्य परिमाणवाचित्वात्॥ Prakriyasarvasvam ----------------- कंसपरिमितेन क्रीतं कंसिकम् । टित्त्वात् कंसिकी । ‘अर्धाच्च वाच्यम्’ (वा० ५-१-२५) अधिकम् । अर्धं रूपार्धम् । ‘कार्षापणाट्टिठन् प्रतिशब्दश्चास्या- देशो वा वाच्यः’ (वा० ५-१-२५) । कार्षापणेन क्रीतं कार्षापणिकम् । प्रतिकम् । Vartika ------- अर्थाच्चेति वक्तव्यम् ।