51022: संख्याया अतिशदन्तायाः कन् ================================ **Padacheda:** संख्याया | S | 5 | 1 | अ-ति-शद्-अन्तायाः | S | 5 | 1 | कन् | S | 1 | 1 | Sutrartha --------- **यः सङ्ख्यावाची शब्दः 'ति' इत्यनेन उत 'शत्' इत्यनेन न समाप्यते, तस्मात् आर्हीय-प्रकरणे कन्-प्रत्ययः भवति ।** **प्राग्वतेष्ठञ्** (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** (5.1.19) इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** (5.1.19) इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः वर्तमानसूत्रेण विशिष्टानां सङ्ख्यावाचिशब्दानां विषये बाध्यते, तथा च तस्य स्थाने कन्-प्रत्ययः विधीयते । केषाम् विषये वर्तमानसूत्रेण कन्-प्रत्ययस्य विधानम् भवति? यस्य अन्ते 'ति' उत 'शत्' इति न विद्यते, तस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः भवति । यथा - पञ्चन्, सप्तन्, एकादशन् , शत, सहस्र - आदयः । उदाहरणम् - पञ्चभिः क्रीतम् = पञ्च + कन् → पञ्चक । सप्तभिः क्रीतम् = सप्त + कन् → सप्तक । स्मर्तव्यम् - 1. 'ति' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (सप्ततिः, अशीतिः, नवतिः आदयः) वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक । अस्मिन् विषये भाष्यकारः वदति - 'अर्थवतस्तिशब्दस्य ग्रहणम्' । इत्युक्ते, अनेन सूत्रेण केवलं तस्यैव 'ति'-शब्दान्तस्य ग्रहणम् भवति, यत्र विहितः 'ति' अयम् शब्दः स्वयमर्थपूर्णः अस्ति । कः अस्य अर्थः ? 'कति' शब्दम् स्वीकुर्मश्चेत् स्पष्टं भवेत् । 'कति' अयम् सङ्ख्यावाची शब्दः अस्ति, अस्य अन्ते अपि 'ति' इति विद्यते, अतः कति-शब्दात् वर्तमानसूत्रेण कन्-प्रत्ययः न जायेत - इति भासते । परन्तु 'कति' इत्यत्र उपस्थितः 'ति' शब्दः अर्थपूर्णः नास्ति (सः स्वयम् कमपि अर्थं न दर्शयति) अपितु 'डति' प्रत्ययस्य अंशः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण उक्तः 'अ-ति' इति प्रतिषेधः कति-सूत्रस्य विषये न विद्यते । अतः 'कति'शब्दस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । 'कतिभिः क्रीतम् कतिकम्' । 2. 'विंशति'शब्दस्य विषये वर्तमानसूत्रम् बाधित्वा **विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्** (5.1.24) इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये **विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्** (5.1.24) इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये एतत् स्मर्तव्यम् यत् 'विंशति'शब्दस्य अन्ते यद्यपि 'ति' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । किम् कारणमस्य? **विंशतिकात्खः** (5.1.32) इत्यत्र आचार्यः स्वयम् 'विंशतिक' इति कन्-प्रत्ययान्तशब्दस्य प्रयोगं करोति । एतदेव अस्य ज्ञापकम् यत् 'विंशति'शब्दस्य अन्ते 'ति' अस्ति तथापि तस्मात् कन्-प्रत्ययः एव करणीयः । 3. 'शत्' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (यथा, चत्वारिंशत्, पञ्चाशत् - आदयः) अपि वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । चत्वारिंशता क्रीतम् = चत्वारिंशत् + ठञ् → चात्वारिंशत्क । 4. त्रिंशत् शब्दस्य विषये अपि वर्तमानसूत्रम् बाधित्वा **विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्** (5.1.24) इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये **विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्** (5.1.24) इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये अपि एतत् स्मर्तव्यम् यत् 'त्रिंशत्'शब्दस्य अन्ते यद्यपि 'शत्' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । अस्य स्पष्टीकरणार्थम् **विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्** (5.1.24) इत्यत्र योगविभागं कृत्वा 'विंशतित्रिंशद्भ्याम्' इति भिन्नं सूत्रं परिकल्प्य तस्मिन् सूत्रे 'कन्' इत्यस्य अनुवृत्तिं कृत्वा 'विंशति-त्रिंशद्भ्याम् संज्ञायाम् कन्' इति सूत्रनिर्माणम् कर्तव्यम्, येन संज्ञाविषये 'विंशति'शब्दात् 'त्रिंशत्'शब्दात् च कन्-प्रत्ययः भवेत् - इति भाष्ये स्पष्टीकृतमस्ति । Vasu English Summary -------------------- The affix (-/- -क) comes after a Numeral, when it does not end with ति or शत् , in the sense of the affix being that taught hereafter up to (5.1.63) Vasu English Translation ------------------------ The affix (-/- -क) comes after a Numeral, when it does not end with ति or शत् , in the sense of the affix being that taught hereafter up to (5.1.63) The word आर्हात् is to be read into this *sutra* also. The word संख्या is defined in (l. 1.23). This कन् debars ठञ् ॥ Thus पंचभिः क्रीतः = पंचकः, बहुकः, गणकः ॥ Why do we say 'when it does not end in ति or शत्'? Observe सा꣡प्ततिकः चा꣡त्वारिशतकः formed by ठञ् ॥ But why कतिकः is formed by कन् and not by ठञ् or ठक्, as the word कति also ends in ति? The word कति is formed by adding the affix डति, while the rule applies to the numerals which in their primitive state end with ति such as सप्ततिः, अशीतिः, विंशति &c. Here apply the two maxims अर्थवद्ग्रहणे नानर्थकस्य 'a combination of letters capable of expressing a meaning denotes whenever it is employed in Grammar, that combination of letters in so far as it possesses that meaning, but it does not denote the same combination of letters void of a meaning;' and निरनुबन्धक ग्रहणे न सानुबन्धकस्य 'when a term void of *Anubandhas* is employed in Grammar, it does not denote that which has an *Anubandha* attached to it'. Therefore when ति is taken, it does not mean डति॥ Bhashya ------- संख्याया अतिशदन्तायाः कन् (1904) (कनोऽधिकरणम्) (उपसंख्यानभाष्यम्) डतेश्चेति वक्तव्यम्। इहापि यथा स्यात् - कतिभिः क्रीतं कतिकम्। किं पुनः कारणं न सिध्यति? त्यन्ताया नेति प्रतिषेधः प्राप्नोति॥ (5616 उपसंख्यानानर्थक्यबोधकं वार्तिकम्॥ 1 ॥) - तिप्रतिषेधाड्डुतिग्रहणमिति चेदर्थवद्ग्रहणात्सिद्धम् - (भाष्यम्) अर्थवतस्तिशब्दस्य ग्रहणम्, न च डतेस्तिशब्दोऽर्थवान्॥ (सिद्धान्तभाष्यम्) नैषा परिभाषा इह शक्या विज्ञातुम्, न हि केवलेन प्रत्ययेनार्थो गम्यते। किं तर्हि? सप्रकृतिकेन। क्व तर्ह्येषा परिभाषा कर्तव्या भवति? यान्येतानि शब्दसंघातग्रहणानि॥ तत्तर्हि वक्तव्यम्? न वक्तव्यम्, अर्थवद्ग्रहणात्सिद्धम्। ननु चोक्तम् - नैषा परिभाषेह शक्या विज्ञातुं न हि केवलेन प्रत्ययेनार्थो गम्यते केन तर्हि सप्रकृतिकेन - इति। केवलेनापि प्रत्ययेनार्थो गम्यते। कथम्। उक्तम् - अन्वयव्यतिरेकाभ्याम्॥ Kashika ------- आर्हादित्येव। संख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्ताया इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाद् डतेः पर्युदासो न भवति। कतिकः॥ Siddhanta Kaumudi ----------------- संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥ Balamanorama ------------ **संख्याया अतिशदन्तायाः कन्** - सह्ख्यायाः । तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता । द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञष्ठस्य तकारात्परत्वात्कः । Tattvabodhini ------------- **संख्याया अतिशदन्तायाः कन्** - त्यन्तशदन्ताया इति । त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः ।थ पञ्चक इति । लौकिक्याः सङ्ख्याया उदाहरणम् । बहुक इति । पारिभाषिक्याः । साप्ततिक इति । ठञो ञित्त्वादादिवृद्धिः । ठस्येकादेशेयस्येति चे॑तीकारलोपः । अर्थवतस्तिशब्दस्य ग्रहणाड्डत्यवयवस्य तिशब्दस्य पर्युदासो न भवतिष । कतिकः । चात्वारिंशत्क इति ।इसुसुक्तान्तात्कः॑ । Padamanjari ----------- पञ्चकः पट इति। लौकिक्याः संख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। चात्वारिशंत्क इति। ठिसुसुक्तान्तात्कःऽ। अर्थवतस्तिशब्दस्य ग्रहणादिति। अर्थवद्रग्रहणपरिभषया। डतेरिति। इत्यवयवस्य तिशब्दस्येत्यर्थः। पर्युदासो न भवतीति। न ह्यसावर्थवलान्। कतिक इति। का संख्या परिमाणं येषामिति'किमः संख्यापरिमाणे इति च' इतीतिः। सप्ततिशब्दे तु सप्तदशदर्थाभिधायिनः सप्तशब्दात्परिमाणोपाधिकादस्येति षष्ठयर्थे तिप्रत्ययो बवतीति तिशब्दोऽर्थवान्। एवं नवतिशब्दे। अशीतिशब्दे तु यद्यप्यशीशब्दस्याष्टस्वन्यत्र न दृष्टः प्रयोगः। शास्त्रो त्वेषा व्यवस्था - अष्टानामशीभावस्तिश्च प्रत्यय इति। विशतिशब्दे तु द्वयोर्दशतोर्विन्बावः शतीश्च प्रत्यय इति तिशब्दोऽनर्थक एव, ततश्च ततः कन् भवत्येव-विंशतिकः। एवं च कृत्वा'विशतिकात्खः शतमानविशतिकः' इति निर्द्देश उपपद्ते; किन्तु'विशतित्रिंशद्भयां ड्वुनसंज्ञायाम्' इत्यसंज्ञायां डुवुन्विधानात्संज्ञायामेव कन् भवति। ठतिशदन्तायाःऽ इत्यत्रान्तग्रहणमेकसप्तत्या क्रीतमित्यत्रापि पर्युदासार्थम्, अन्यथा प्रत्ययग्रहणपरिभाषया न स्यात् ॥ Nyaas ----- `पञ्चकः पटः` इति। लौकिक्याः संख्याया उदाहरणम्। `बहुकः` इत्यादि। परिभाषितायाः। `चत्वारिंशत्कः` इति। `इसुसुक्तान्तात्? कः` (7.3.51) । `अर्थवर्तास्तशब्दस्य ग्रहणात्` इति। अर्थवद्ग्रहणपरिभाषया (व्या।प।1।)। `डतेः पर्युदासो न भवति` इति। शब्दापेक्षयाऽवयवषष्ठीति। प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्युदासो न भवति, न ह्रयमर्थवान्। `कतिकः` इति। किं परिमाणमेषामिति **किमः संख्यापरिमाणे डति च** (5.2.41) इति डतिः, `टेः` (6.4.143) इति टिलोपः। कतिभिः क्रीतमिति विगृह्र कन्। यद्यर्थवतस्तिशब्दस्य ग्रहणम्, नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति; नवतिशब्द एव हि समुदायः संख्याविशेषेणार्थवान्, न तदेकदेशस्तिशब्दः? नैष दोषः; नवतिशब्दे यो नवशब्दः सोऽनेकार्थः। तथा च संख्याविशेषावगतमतो नवशब्दात्? परो यस्तिशब्दस्तत एत विज्ञायते; तद्भावे भावात्। अशीतिशब्दस्य तर्हि तिशब्दस्य पर्युदासो न प्राप्नोति, नासावर्थवान्? नापि ततः पूर्वो योऽशीशब्दस्तस्य कश्चिदर्थोऽस्ति, समुदाय एव तु संक्याविशेषेणार्थवान्? नैतदस्ति; यद्यप्यशी-इतिशब्दस्य न कश्चनार्थः प्रकाशते, तथापि प्रतिज्ञायते। अशीतिशब्दो ह्रेवं व्युत्पाद्यते - अष्टानां दशानामशीभावः, तिशब्दश्च प्रत्ययः। य एवाष्टानां दशानामार्थः सोऽशीशब्दस्य, यस्तु संखघ्याविशेषः सोऽयं तिशब्दस्यैवेति, ततस्तस्य नानर्थक्यम्। एवमपि विशतेः प्रतिषेधो न सिध्यति? स ह्रेवं व्युत्पाद्यते - द्वयोर्दशतोर्विन्भावः, शतिंश्च प्रत्यः। तत्र शतिप्रत्ययात्? पूर्वस्य भागस्य द्वयोर्दशतोर्योऽर्थः स एव प्रतिज्ञायते शतिप्रत्ययस्य, संखायविशेषः, तिशब्दस्य न कश्चित्। इष्टमेव तत्। संग्राहितः कन्? विंशतेः - `तदिंवशतिकम्` इति। अथ `अतिशदन्तायाः` इत्यत्रान्तग्रहणं किमर्थम्, अतिशच्छब्दस्य न प्राग्वतीयत्वात्? प्रत्ययग्रहणपरिभाषयैव (पु।प।ल।वृ।44) तदन्तविधिर्भविष्यति/ एवदेव तर्हि प्रयोजनम् - अनयचा परिभाषया तदन्तविधिर्मा भूदिति। किञ्च स्यात्? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्; एकसप्तदशतस्तिप्रत्ययस्याविधानात्। अन्तग्रहणे तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रुयत इत्यत्रापि प्रतिषेधः सिद्धो भवति॥ Prakriyasarvasvam ----------------- त्यन्तशदन्तवर्जितायाः सङ्ख्याया आर्हात् कन् स्यात् । पञ्चभिः क्रीतः पञ्चकः । ‘बहुगणवतुडति सङ्ख्या’ । बहुभिः क्रीतो बहुकः । गणकः । डत्यन्तात् कतिकः ।। अर्धपूर्वः पूरणान्तः सङ्ख्याख्यः कन्समासयोः । पणैरर्धचतुर्थैर्हि क्रीतमर्धचतुर्थकम् ।। २९५ ।। अर्ध चतुर्थमेषामित्यर्धचतुर्थाः सार्धास्त्रयः ।