51016: तदस्य तदस्मिन् स्यादिति ============================== **Padacheda:** तत् | S | 1 | 1 | अस्य | S | 6 | 1 | तत् | S | 1 | 1 | अस्मिन् | S | 7 | 1 | स्यात् | T | | | इति | S | 0 | 0 | Sutrartha --------- **प्रथमासमर्थात् 'अस्य स्यात्' तथा च 'अस्मिन् स्यात्' एतयोः अर्थयोः यथाविहितं प्रत्ययः भवति ।** 'अस्य स्यात्' तथा 'अस्मिन् स्यात्' एतयोः अर्थयोः प्रथमासमर्थात् औत्सर्गिकरूपेण छ-प्रत्ययः अनेन सूत्रेण उच्यते । कानिचन उदाहरणानि पश्यामः - 1. इष्टकाभिः (bricks) प्राकारस्य (wall) निर्माणं भवति । अतः काश्चन इष्टकाः प्राकारस्य निर्माणार्थम् पृथक् संस्थाप्य 'प्राकारः एतासाम् इष्टकानाम् स्यात्' इति वक्तुं शक्यते । अस्यां स्थितौ प्रथमासमर्थात् 'प्राकार'शब्दात् इष्टकानां निर्देशार्थम् वर्तमानसूत्रेण छ-प्रत्ययः भवति - प्राकारः यासाम् इष्टकानाम् स्यात् ताः इष्टकाः = प्राकार + छ → प्राकार + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईय-आदेशः] → प्राकार् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → प्राकारीय प्राकारः यासाम् इष्टकानाम् स्यात् ताः प्राकारीयाः इष्टकाः 2. 'प्राकारः अस्मिन् देशे स्यात्' अस्मिन् अर्थे प्रथमासमर्थात् 'प्राकार'शब्दात् 'देश'स्य निर्देशं कर्तुम् वर्तमानसूत्रेण छ-प्रत्ययः भवति । प्राकराः यस्मिन् देशे स्युः सः देशः = प्राकार + छ → प्राकार + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईय-आदेशः] → प्राकार् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → प्राकारीय प्राकराः यस्मिन् देशे स्युः सः प्राकारीयः देशः 3. प्रासादः (castle) दारुणः (woods) जायते । अतः 'प्रासादः अस्य दारुणः स्यात्' अस्मिन् अर्थे दारुणः निर्देशं कर्तुम् प्रासाद-शब्दात् वर्तमानसूत्रेण छ-प्रत्ययः विधीयते । प्रासादः यस्य दारुणः स्यात् तत् प्रासादीयम् दारू । तथैव, 'प्रासादः अस्मिन् नगरे स्यात्' अस्मिन् अर्थे नगरस्य निर्देशं कर्तुम् प्रासाद-शब्दात् छ-प्रत्ययः भवति । प्रासादः यस्मिन् नगरे स्यात् तत् प्रासादीयम् नगरम् । अस्य सूत्रस्य विषये केचन बिन्दवः विशेषरूपेण अत्र ज्ञेयाः । क्रमेण पश्यामः - 1. अस्मिन् सूत्रे 'स्यात्' इति प्रयोगः कृतः अस्ति । 'स्यात्' इति अस्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनम् । अत्र विधिलिङ्लकारः **सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे** (3.3.154) अनेन सूत्रेण प्रसज्यते । इत्युक्ते, अत्र 'सम्भावना / योग्यता / शक्तिः' अस्मिन् अर्थे विधिलिङ्लकारः प्रयुज्यते । यथा, 'प्राकारः यासाम् इष्टकानाम् स्यात् ताः प्राकारीयाः इष्टकाः ' इत्यत्र 'बह्व्यः इष्टकाः एकत्रीक्रियन्ते चेत् प्राकारस्य / प्रासादस्य निर्माणे आवश्यकीं शक्तिं/योग्यतां प्राप्नुवन्ति' - इति अत्र चिन्तनमस्ति । तथैव, 'प्राकारः यस्मिन् देशे स्यात् सः प्राकारीयः देशः' इत्यत्र 'देशः स्वस्य वातावरणेन (तथा च भिन्नैः गुणैः) प्राकारस्य निर्माणे आवश्यकीं योग्यतां प्राप्नोति' - इति मन्यते । एतादृशी योग्यता विद्यते चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, 'प्रासादः देवदत्तस्य स्यात्' अस्मिन् वाक्ये यद्यपि विधिलिङ्लकारः प्रयुज्यते, तथाप्यत्र 'शक्तिः / योग्यता' इति अर्थः नास्ति, अपितु 'विधिः / प्रार्थना' एतेषु अर्थेषु 'स्यात्' इत्यस्य प्रयोगः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः न विद्यते । 2. 'प्राकारः यासाम् इष्टकानाम् स्यात् ताः इष्टकाः' इत्यत्र उत 'प्राकाराः यस्मिन् देशे स्यात् सः देशः' इत्यत्र प्राकार-इष्टकयोर्मध्ये / प्राकार-देशयोर्मध्ये 'हितम्' इति सम्बन्धः उत 'प्रकृति-विकृति' इत्यपि सम्बन्धः नास्तीति स्मर्तव्यम् । अतः अस्मिन् उदाहरणे **तस्मै हितम्** (5.1.5) उत **तदर्थं विकृतेः प्रकृतौ** (5.1.12) एतयोः प्रसक्तिः नास्ति । 3. अस्मिन् सूत्रे 'इति' अयम् शब्दः प्रयुक्तः अस्ति । अस्य कारणम् कौमुद्यामुच्यते - 'इति शब्दो लौकिकीं विवक्षामनुसारयति' । इत्युक्ते, लोके ये प्रयोगाः साधवः सन्ति, तेषां विषये एव अनेन सूत्रेण छ-प्रत्ययः कर्तव्यः, अन्येषां विषये न । यथा - 'प्रासादः देवदत्तस्य स्यात्' इत्यत्र यद्यपि 'देवदत्तः स्वस्य शक्त्या / योग्यतया प्रासारं क्रीणीयात्' इति अर्थं स्वीकृत्य 'योग्यता / शक्तिः' इति निर्दिश्यते, तथापि अस्य वाक्यस्य विषये वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः एतादृशाः प्रयोगाः लोके न दृश्यन्ते । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - 'इतिकरणः विवक्षार्थः' । 4. तद्धितप्रकरणे अग्रे **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इति किञ्चन सूत्रम् विद्यते, येन 'तत् अस्य अस्ति / तत् अस्मिन् अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययविधानम् भवति । यथा - वृक्षः अस्मिन् अस्ति सः वृक्षवान् पर्वतः । एतत् सूत्रम् वर्तमानसूत्रेण सह बहु साधर्म्यम् दर्शयति । परन्तु द्वे एते सूत्रे समाने न । **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यत्र 'अस्ति' इति लट्-लकारस्य प्रयोगः विद्यते, परन्तु वर्तमानसूत्रे 'स्यात्' इति विधिलिङ्लकारः प्रयुज्यते । अयम् क्रियापदस्य भेदः अर्थभेदमपि स्पष्टीकरोति - **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यस्य प्रयोगः 'वर्तते / सत्ता' अस्मिन् अर्थे भवति, तथा च वर्तमानसूत्रस्य प्रयोगः 'योग्यता / शक्तिः' अस्मिन् अर्थे । उदाहरम् एतादृशम् - 'प्राकाराः सन्ति अस्मिन् देशे' इति स्थिते **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यनेन मतुप्-प्रत्ययं कृत्वा 'प्राकारवान् अयम् देशः' इति जायते । परन्तु 'प्राकाराः स्युः अस्मिन् देशे' इत्यत्र तु वर्तमानसूत्रस्यैव प्रसक्तिः अस्ति, अतः अत्र 'छ'प्रत्ययं कृत्वा 'प्राकारीयः देशः' इति जायते । 5. **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) तथा वर्तमानसूत्रम् **तदस्य तदस्मिन् स्यादिति** (5.1.16) एतयोर्मध्ये अन्यः अपि एकः भेदः दृश्यते- **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यस्मिन् सूत्रे 'तद्' अयम् प्रथमासमर्थः एकवारम् एव प्रयुक्तः अस्ति । परन्तु **तदस्य तदस्मिन् स्यादिति** (5.1.16) इत्यस्मिन् वर्तमानसूत्रे 'तद्' अयम् शब्दः द्विवारम् निर्दिश्यते । अस्य प्रयोजनम् किमस्ति इत्यस्मिन् विषये पण्डितानाम् मताः भिद्यन्ते । भाष्यकारः कौमुदीकारश्च अस्मिन् विषये किमपि न भाषेते । तत्त्वबोधिनीकारः वदति - 'द्विस्तद्शब्दस्य ग्रहणम् स्पष्टप्रतिपत्यर्थम्' । इत्युक्ते, **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यत्र यथा एकवारम् एव 'तद्' शब्दः प्रयुज्यते, तथैव वर्तमानसूत्रे अपि भवितुमर्हति, परन्तु केवलं अधिक-स्पष्टतायै अत्र द्विवारम् 'तत्' इत्यस्य ग्रहणम् क्रियते । काशिकाकारस्तु अस्मिन् विषये विशेषं मतं प्रदर्शयति । सः वदति - 'अनेकसमर्थविभक्तिः न्यायप्रदर्शनार्थम्' इति । इत्युक्ते, अस्मिन् सूत्रे 'तत्' इत्यस्य द्विवारम् ग्रहणमाचार्येण पाणिनिना 'ज्ञापकरूपेण' स्थापितमस्ति (न्याय = ज्ञापकम्) । कस्य इदम् ज्ञापकम्? - यथा वर्तमानसूत्रे द्वौ प्रत्ययार्थौ उच्येते ('अस्य अस्ति' तथा 'अस्मिन् अस्ति'), तथैव सूत्रपाठे अन्यत्र यत्र कुत्रापि द्वौ वा अधिकाः अर्थाः एकस्मिन् एव सूत्रे उच्यन्ते, तत्र समर्थविभक्तिः यद्यपि एकवारम् एव दीयते, तथापि सा तावन्ति वारमावर्तते - इत्यस्य इदम् ज्ञापकम् । यथा, **तेन दीव्यति खनति जयति जितम्** (4.4.2) इत्यत्र चत्वारः अर्थाः पाठ्यन्ते, परन्तु समर्थविभक्तिः 'तेन' इति तु एकवारम् एव विद्यते । अस्यां स्थितौ अनेन ज्ञापकेन एतत् स्पष्टीभवति, यत् चतुर्षु अपि विद्यमानेषु अर्थेषु 'तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम्' एतादृशम् चतुर्वारम् 'तेन' इति ग्रहीतव्यम् । अनेन आवर्तनेन प्रत्येकः प्रत्ययार्थः अन्यस्य अपेक्षया स्वतन्त्ररूपेण विधीयते । यथा - 'अक्षैः दीव्यति' इत्यत्र यद्यपि केवलं 'दीव्यति' इत्यैव अर्थः अस्ति, तथाप्यत्र **तेन दीव्यति खनति जयति जितम्** (4.4.2) इत्यस्य प्रयोगः भवितुमर्हति - इति अनेन स्पष्टीभवति । पदमञ्जरीकारः एतदेव स्पष्टीकर्तुमन्यदेकमुदाहरणम् ददाति - 'यदि पुनरयं न्यायोऽत्र न प्रदर्श्येत, तदा तदस्यास्त्यस्मिन्निति मतुप् इत्यत्र समुदायेन समर्थविभक्तिसम्बन्धो विज्ञायेत' । इत्युक्ते, यदि वर्तमानसूत्रे द्विवारम् 'तत्' इति ग्रहणम् न अभविष्यत्, तर्हि उपरिनिर्दिष्टं ज्ञापकं अपि न अवर्तिष्यत, तर्हि च **तद् अस्य अस्ति अस्मिन् इति मतुप्** (5.2.94) इत्यत्र 'तत् अस्य अस्मिन् च' इति अर्थनिष्पत्तिः अभविष्यत्, तथा च केवलम् 'तत् अस्य' उत केवलं 'तत् अस्मिन्' इत्यत्र इष्टं मतुप्-प्रत्ययविधानम् न अभविष्यत् । परन्तु वर्तमानसूत्रे निर्दिष्टेन ज्ञापकेन अयं दोषः न जायते, येन 'गौः अस्ति अस्य देवदत्तस्य' इत्यत्र, तथा च 'वृक्षाः सन्ति अस्मिन् पर्वते' इत्यत्रापि मतुप्-प्रत्ययविधानं कृत्वा 'गोमान् देवदत्तः' / 'वृक्षवान् पर्वतः' एतादृशाः प्रयोगाः सिद्ध्यन्ति । Vasu English Summary -------------------- The above mentioned affixes come after a word in the first case in construction, with the force of a genitive or locative, when the word in the first case is agent of the verb स्यत् ; in other words - the above-mentioned affixes have also the senses of 'very well sufficient there to' and 'very well sufficient to be made therein'. Vasu English Translation ------------------------ The above mentioned affixes come after a word in the first case in construction, with the force of a genitive or locative, when the word in the first case is agent of the verb स्यत् ; in other words - the above-mentioned affixes have also the senses of 'very well sufficient there to' and 'very well sufficient to be made therein'. The word तद् shows that the word in construction must be in the Ist case, the words अस्य 'of it' and अस्मिन् 'in it' show the senses of the affix, the word स्यात् 'it can be' qualifies the primitive, the word इति is for the sake of distinctness. Thus प्राकार आसाम् इष्टकानां स्यात् = प्राकारीया इष्टकाः 'the bricks sufficient to raise a wall'. So also प्रासादीयं दारु ॥ Similarly प्राकारोऽस्मिन्देशे स्यात् = प्राकारीयो देशः 'a place sufficient to make a wall therein'. प्रासादीया भूमिः ॥ The word स्यात् being in the Potential Mood (विधि लिङ्) of अस् 'to be,' has the force of संभावन 'potentiality, sufficiency' as given in *Sutras* (3.3.154) &c. Such as when the large number of bricks makes it possible to raise a wall, we say प्राकार यासामिष्टकानां स्यात् ॥ Similarly when the quality (गुण) of a land, such as its area, situation &c, makes it possible to erect a palace therein, we say, प्रासादो स्मिन्देशे स्यात् ॥ In the examples under this *sutra*, there is no modification (विकार) of the primitive (प्रकृति) into a product, as was the case under *sutra* (5.1.12). The examples under this *sutra* show merely the 'adequacy, fitness or sufficiency' of a thing for a certain purpose. Herein lies the difference between this *sutra* and the previous ones. The repetition of the word तद् twice in this *sutra* shows the existence of this Grammatical maxim: अनेकस्मिन् प्रत्ययार्थे प्रत्येकं समर्थ विभक्तिः संबन्धनीयः 'when the sense of an affix is more than one, the case in construction to which the affix must be added must be shown in each case.' Why there is no affixing in this case: प्रासादो देवदत्तस्य स्यात् ? The use of इति in the *Sutra* would prevent this, the force of इति being that the secular usage must be looked to in forming these derivatives. Bhashya ------- तदस्य तदस्मिन्त्स्यादिति (1898) (पदकृत्यभाष्यम्) (षष्ठी सप्तम्यर्थे प्रत्ययाधिकरणम्) स्याद्ग्रहणं किमर्थम्? इह मा भूत् - प्रासादो देवदत्तस्य, प्राकारो नगरस्येति। (स्याद्ग्रहणाक्षेपभाष्यम्) अथ क्रियमाणेऽपि स्याद्ग्रहण इह कस्मान्न भवति - प्रासादो देवदत्तस्य स्यात्, प्राकारो नगरस्य स्यादिति। शक्यार्थे लिङिति वक्तव्यम्। नैवं शक्यम्, इदानीमेव ह्युक्तम् - न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणमिति। एवं तर्हि - इतिकरणः क्रियते। ततश्चेद्विवक्षा भवति। विवक्षा च द्वयी। अस्त्येव प्रायोक्त्री विवक्षा, अस्ति लौकिकी। प्रायोक्त्री विवक्षा - प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते। लौकिकी विवक्षा - यत्र प्रायस्य संप्रत्ययः, प्राय इति लोको व्यपदिश्यते। न च प्रासादो देवदत्तस्य स्यात् प्राकारो नगरस्य स्यादित्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात्॥ (सिद्धान्तभाष्यम्) यद्येवम्, नार्थः स्याद्ग्रहणेन। न हि प्रासादो देवदत्तस्य प्राकारो नगरस्येत्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात्॥ Kashika ------- तदिति प्रथमा समर्थविभक्तिः, अस्येति प्रत्ययार्थः, स्यादिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। एवं द्वितीयेऽपि वाक्ये। सप्तम्यर्थे तु प्रत्यय इत्येतावान् विशेषः। प्रथमासमर्थात् षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं स्यात् चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः। प्रासादीयं दारु। सप्तम्यर्थे खल्वपि — प्राकारोऽस्मिन् देशे स्यात् प्राकारीयो देशः। प्रासादीया भूमिः। स्यादिति संभावनायां लिङ् ‘संभावनेऽलमिति चेद्० ‘ (३.३.१५४) इत्यादिना । इष्टकानां बहुत्वेन तत् संभाव्यते — प्राकार आसामिष्टकानां स्यादिति। देशस्य च गुणेन संभाव्यते — प्रासादोऽस्मिन् देशे स्यादिति। प्रकृतिविकारभावस्तादर्थ्यं चेह न विवक्षितम्। किं तर्हि ? योग्यतामात्रम्। तेन पूर्वस्यायमविषयः। द्विस्तद्ग्रहणं न्यायप्रदर्शनार्थम् — अनेकस्मिन् प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः संबन्धनीयेति। अथेह कस्माद् न भवति — प्रासादो देवदत्तस्य स्यादिति, गुणवानयम्, संभाव्यते प्रासादलाभोऽस्येति ? इतिकरणो विवक्षार्थ इत्युक्तम्॥ Siddhanta Kaumudi ----------------- प्राकार आसामिष्टकानां स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥ Balamanorama ------------ **तदस्य तदस्मिन् स्यादिति** - तदस्य तदस्मिन् स्यादिति ।तदर्थं विकृतेः प्रकृतौ॑ इति निवृत्तमिति कैयटः ।तदस्य स्या॑दिति,तदस्मिन्स्या॑दिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः ।स्या॑दित्यत्रसम्भावनेऽलमिती॑ति सम्भावने लिङ् । प्राकार आसामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्ठी । आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रतमान्ताच्छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्तां इष्टका इति यावत् । प्रासादीयं दार्विति । प्रासादोऽस्य स्यादिति विग्रहः । प्रासादपर्याप्तमिति यावत् । प्राकारीयो देश इति । प्राये प्राकारोऽस्मिन्देशे सम्भाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहुलत्वादिति भावः । अनेन तदर्थं विकृते॑ रित्यनुवृत्ताविह न स्यादिति सूचितम् । ननुप्रासादो देवदत्तस्य स्या॑दित्यत्रातिप्रसङ्गः स्यादित्यत आह — इतिशब्दो लौकिकीं विवक्षामिति । शिष्टव्यवहारमित्यर्थः । Tattvabodhini ------------- **तदस्य तदस्मिन् स्यादिति** - तदस्य । प्रथमा समर्थात्प्रातिपदिकात्षष्ठर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति । स्यादिति । संभावनेऽलमिति चे॑दित्यादिना संभावनेलिङ् । इष्टकानां बहुत्वेन प्राकार आसां स्यादित्येतत्सम्भाव्यते । देशस्य हि गुणेन प्राकारोऽस्मिन्स्यादिति सम्भाव्यते । इह प्रकृतिविकारभावस्तादथ्र्यं च न विवक्षितं, कुं तु योग्यतामात्रम् । तेन पूर्वस्याऽयमविषयः । द्विस्तच्छब्दस्य ग्रहणं स्पष्टप्रतिपत्त्यर्थम्,तदस्यास्त्यस्मि॑न्नितिवत्सकृत्तच्छब्दग्रहणेनैवेष्टसिद्धेः ।इति तत्वबोधिन्यां छयतोः पूर्णोऽवधिः । Padamanjari ----------- सम्भावने लिङिति।'सभ्यावने' लमिति चऽ इत्यादिना। इष्टकानां बहुत्वेनेत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति। प्रकृतिविकारभाव इत्यादिना'तदर्थ विकृतेः' इत्यादिना सिद्धं दर्शयन्सूत्रारम्बं समर्थयते। योग्यतामात्रामिति। तथा चान्यार्थास्वपीष्टकासु वक्तारो भवन्ति - प्राकारीया इष्टका इति। द्विस्तद्ग्रहणमित्यादि। ननु विपरीतमिदम्, प्रत्येकं सम्बन्धे ह्यत्र द्विस्तद्ग्रहणमनर्थकम्, अतोऽत्र द्विस्तद्ग्रहणादन्यत्र समुदायेन सम्बन्धो युक्त इति ? सत्यम्; अयमपि तु प्रकारः सम्भवतीति न्यायप्राप्तं प्रत्येकं सम्बन्धमस्मिन्सूत्रे स्थित्वा उदाहरणरूपेण दर्शयतीति तदिदमुक्तम्। न्यायप्रदर्शनार्थमिति। प्रदर्शनं दिगुदाहरणमित्यर्थ। यदि पुनरयं न्यायोऽत्र न प्रदर्श्येत, तदा'तदस्यास्त्यस्मिन्नति मतुप्' इत्यत्र समुदायेन समर्थविभ्क्तिसम्बन्धो विज्ञायेत, ततश्च शाकावान्वृक्ष इत्यादौ यत्र द्वाभप्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति, तत्रैव स्यात्; यत्र त्वन्यतरेण सम्बन्धः - गोमान्देवदतो वृक्ष्वान्पर्वत इति, तत्र न स्यात्। अथेहेति। यदा ब्राह्मणार्थं निर्मितं प्रासादं गुणवन्तं च देवदतं पश्यन्सम्भावयति तदा तस्य प्रसङ्गः ॥ Nyaas ----- द्वितीयाशङ्कामपनिनीषुराह - `तत्` इत्यादि। अस्तेरकर्मकत्वादित्यभिप्रायः। अवयवार्थपूर्वत्वादवयव्यर्थस्येत्याह - `अस्य` इत्यादि। करोतीति करणः। कर्तरि बहुलवचनाल्लयुट्। इतिश्चासौ करणश्चेति कर्मधारयः। `सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे` (3.3.154) । ननु च प्राकारीया इष्टकाः, प्रासादीयं दार्विति च पूर्वेणैव सिद्धम्, तथा हि - यासामिष्टकानां यस्य च दारुणो बहुत्वेन प्राकारः प्रासादश्च सम्भाव्यते, तासामिष्टकानां तस्य च दारुणो यथासंख्येन प्राकारप्रासादौ विकारौ भवतः, तादथ्र्याच्चेष्टकानां दारूणाञ्चास्तीवेत्यत आह - `प्रकृतिविकार` इत्यादि। गतार्थम्। `द्विस्तद्ग्रहणम्` इत्यादि। इत्येष न्यायोऽनेन प्रदश्र्यते। **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यादौ नैकः प्रत्ययार्थः। तत्र तत्समुदायेन समर्थविभक्तेः सम्बन्धो विज्ञायते। ततश्च यत्र द्वाभ्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति - शाखावान्? वृक्ष इत्यादौ, तत्रैव तत्? स्यात्। यत्र त्वन्यतरेणैव सम्बन्धः - गोमान् देवदत्तः, वृक्षवान्? पर्वत इत्यादौ, तत्र न स्यात्। अस्मस्तु न्याये प्रदर्शिशते सर्वत्र भवति॥