51001: प्राक् क्रीताच्छः ======================== **Padacheda:** प्राक् | S | 0 | 0 | क्रीतात् | S | 5 | 1 | छः | S | 1 | 1 | Sutrartha --------- **प्राक्-क्रीतीय-अर्थेषु छ-प्रत्ययः औत्सर्गिकरूपेण भवति ।** तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थःमहोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः **तेन क्रीतम्** (5.1.37) इति यावत्सु सूत्रेषु आहत्य त्रयः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-क्रीतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण छ-प्रत्ययः भवति । अस्य छ-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । छ-प्रत्ययस्य कानिचन उदाहरणानि - अ) वत्सेभ्यः हितः = वत्स + छ = वत्सीय आ) अङ्गाराय इदम् = अङ्गार + छ = अङ्गारीय (काष्ठम्) इ) प्रासादः अस्याम् सा = प्रासाद + छ = प्रासादीय (भूमिः) प्रक्रिया इयम् - वत्स + छ वत्स + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः] वत्स् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → वत्सीय त्रयः प्राक्क्रीतीयाः अर्थाः एते - 1. **तस्मै हितम्** (5.1.5) 2. **तदर्थं विकृतेः प्रकृतौ** (5.1.12) 3. **तदस्य तदस्मिन् स्यादिति** (5.1.16) ज्ञातव्यम् - यद्यपि अस्मिन् सूत्रे 'प्राक्-क्रीतीय' इति उक्तमस्ति, तथापि वस्तुतः **तदस्य तदस्मिन् स्यादिति** (5.1.16) इत्यस्मात् अनन्तरम् **तेन क्रीतम्** (5.1.37) सूत्रपर्यन्तम् कोऽपि अर्थः न उच्यते । अतः अस्य सूत्रस्य अधिकारः **तदस्य तदस्मिन् स्यादिति** (5.1.16) इत्यस्य **परिखाया ढञ्** (5.1.17) इत्यनेन पाठितः यः अपवादः , तावदेव प्रचलति । तस्मात् अग्रे ठञ्-प्रत्ययस्य अधिकारः आरभते । Sutrartha (English) ------------------- The छ प्रत्यय is used as a default for the प्राक्-क्रीतीय meanings. Vasu English Summary -------------------- From this one forward to तेन कृतम् (6.1.37), the affix छ bears the rule. Vasu English Translation ------------------------ From this one forward to तेन कृतम् (6.1.37), the affix छ bears the rule. The affix छ has the various senses taught in these thirty-seven *sutras* (5.1.1) to (5.1.37). Thus in the *Sutra* तस्मैहितं 'suitable for that', (5.1.5). the word छ must be read to complete the sense. Thus वत्सेभ्योहितो = वत्सीयो गोधुक्, करभीय उष्ट्रः, अकरभीयः, अवत्सीयः ॥ The limitation of the jurisdiction of छ has been indicated in the *sutra* with regard to the meaning of the affix, and not with regard to the affix. As an affix, छ has no force beyond *Sutra* 17, the affix ठञ् being the ruling affix thereafter. Bhashya ------- प्राक् क्रीताच्छः (1883) (छप्रत्ययाधिकरणम्) (पदकृत्यभाष्यम्) प्राग्वचनं किमर्थम्? (5587 प्राक्पदप्रयोजनवार्तिकम्॥ 1 ॥) - प्राग्वचन उक्तम् - (भाष्यम्) किमुक्तम्? तत्र तावदुक्तम् - प्राग्वचनं सकृद्विधानार्थम्, अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः इति। इहापि प्राग्वचनं क्रियते सकृद्विधानार्थम्। सकृद्विहितः प्रत्ययो विहितो यथा स्यात्, योगे योगे तस्य ग्रहणं मा कार्षमिति॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्। अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते॥ (समाधानवार्तिकस्मारकभाष्यम्) अधिकारात्सिद्धमिति चेदपवादविषये छप्रसङ्गः अधिकारात् सिद्धमिति चेदपवादविषये छः प्राप्नोति। उगवादिभ्यो यत् (5.1.2) छश्च, इति छोऽपि प्राप्नोति। तस्मात् प्राग्वचनं कर्तव्यम्॥ (प्राक्पदार्थनिरूपकभाष्यम्) अथ क्रियमाणेऽपि प्राग्वचने कथमिदं विज्ञायते - प्राक् क्रीताद्याः प्रकृतयः, आहोस्वित्प्राक्क्रीताद्येऽर्था इति। किं चातः? यदि विज्ञायते - प्राक्क्रीताद्याः प्रकृतय इति, स एव दोषः - अपवादविषये छप्रसङ्ग इति। अथ विज्ञायते प्राक् क्रीताद्येऽर्था इति न दोषो भवति। समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यत् छं बाधिष्यते॥ यथा न दोषस्तथाऽस्तु। प्राक् क्रीताद्येऽर्था इति विज्ञायते। कुत एतत्? तथा ह्ययं प्राधान्येनार्थं प्रतिनिर्दिशति। इतरथा हि बह्व्यस्तत्र प्रकृतयः पठ्यन्ते, ततो यां कांचिदेव प्रकृतिमवधित्वेनोपाददीत। अथ वा पुनरस्तु - प्राक् क्रीताद्याः प्रकृतय इति। ननु चोक्तमपवादविषयेऽपि छप्रसङ्ग इति॥ (आक्षेपनिवारकवार्तिकस्मारकभाष्यम्) न वा क्वचिद्वावचनात् न वा एष दोषः। किं कारणम्? क्वचिद्वावचनात्। यदयं क्वचिद्वावचनं करोति - विभाषा हविरपूपादिभ्यः (5.1.4) इति, तज्ज्ञापयति - नापवादविषये छो भवतीति॥ (आक्षेपभाष्यम्) यद्येवम्, नार्थः प्राग्वचनेन, अधिकारात्सिद्धम्। ननु चोक्तमधिकारात्सिद्धमिति चेदपवादविषये छप्रसङ्ग इति। परिहृतमेतत् - न वा क्वचिद्वावचनात् इति। (सिद्धान्तभाष्यम्) अथ किमर्थमियानवधिर्गृह्यते, न प्राक् ठञ्ञ इत्येवोच्येत। एतज्ज्ञापयत्याचार्यः - अर्थेष्वयं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यत् छं बाधते॥ Kashika ------- **तेन क्रीतम्** (५.१.३७) इति वक्ष्यति। प्रागेतस्मात् क्रीतसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — **तस्मै हितम्** (५.१.५) इति। वत्सेभ्यो हितो वत्सीयो गोधुक्। करभीय उष्ट्रः। अकरभीयः। अवत्सीयः। अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः। तेन प्राक् ठञः छ इति नोक्तम्॥ Siddhanta Kaumudi ----------------- तेन क्रीतम् (SK1702) इत्यतः प्राक् छोऽधिक्रियते ॥ Laghu Siddhanta Kaumudi ----------------------- तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥ Balamanorama ------------ **प्राक् क्रीताच्छः** - अथ पञ्चमाध्यायः । प्राक्क्रीताच्छः । क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह — तेन क्रीतिमिति ।तेन क्रीत॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेशु 'छ' इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् । उश्च गवादयश्चेति द्वन्द्वात्पञ्चमी । उवर्णान्तादिति । प्रातिपदिकविशेषणत्वात्तदन्तविदिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्कीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषाऽनुपादाने उपतिष्ठते । नाभि नभं चेति । गवादिगणसूत्रम् । नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते तस्मै हितोऽक्षदण्डः । स हि अनुगुणत्वान्नाभये हितः । नभ्यमञ्जनमिति । अञ्जनं-तैलसेकः । नाभेरञ्जनेकृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्रते । भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह — रथनाभावेवेदममिति । शरीरावयवविशेष वाचिनाभिशब्दात्तुशरीरावयवाद्य॑दिति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः संप्रसारणमिति । गवादिगणसूत्रम् । आन्शब्दाद्यत्स्यात्प्रकृतेः संप्रसारणं, तस्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यं — शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ् चेति । इदमपि गणसूत्रम् । ऊधश्शब्दाद्यत्स्यात्प्रकृतेरनङादेशश्चेत्यर्थः । आदेशे ङकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । Tattvabodhini ------------- **प्राक् क्रीताच्छः** - प्राक् क्रीताच्छः । इत्यतः प्रागिति । इहार्थोऽवधित्वेन गृह्रते, न तु प्रत्ययः, प्रकृतिर्वा । तेनाऽर्थ एवावधिमान्त इति प्राक्कीताद्येऽर्था हितादयस्तेष्वस्योपस्थानम् । अवधिसजातीयो ह्रवधिमान् भवति । यथामासात्परः॑इति कालः प्रतीयते,ग्रामात्पूर्वः॑इति देशः,अलोऽन्त्यात्पूर्व॑इत्यलेव । एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते । अन्यथा छस्य यदादेश्च संनिधानाऽविशेषत्तव्यत्तव्यानीयरामिव पर्यायः स्यात् । अतोऽत्रार्थोऽवधित्वेन गृह्रते । ननु यदादिविषये छो न भविष्यतिविभाषा हविरपूपादिभ्यः॑इति विभाषागद्रहणाल्लिङ्गात् । तथा च प्रत्ययस्य प्रकृतोर्वा अवधित्वस्वीकारेऽपि न क्षतिः । उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत् । अत्राहुः — — एवं सतुछः॑इत्यावाधिकारोऽस्तु, नार्थोऽवधिनिर्देशेन । प्राग्वतेष्ठ॑ञित्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात् । स्पष्ठप्रतिपत्त्यर्थमवधिनिर्देशः, अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत् । तर्हिविभाषा हवि॑रित्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्थ एवावधित्वेन निर्देष्टुमुच#इत इति । उगवादिभ्यो । उवर्णादेर्गशब्दादेर्वशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात् । गवाद्यन्तर्गणसूत्राण्याह -नाभि नभं चेति । नाबिशब्दो यतं लभते, नभादेशं चेत्यर्थः । नभ्योऽक्ष इति । रथाङ्गं सच्छिद्रं -नाभिः । तदनुप्रविष्टः काष्ठविशेषोऽक्षः । स च तदनुगुणत्वात्तस्मै हितः । अञ्जनं =तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम् । रथमाभावेवेति । शरीरावयवे तु नाभ्यमित्येव, परेणशरीरावयवाद्य॑दित्यनेनाऽस्य बाधादिति भावः । शुनःसं । शून्यमितचि । चकारस्यानुक्तसमुच्चयार्थत्वात्नस्तद्धिते॑इति टिलोपोन भवति ।ये चाभावकर्मणोः॑इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पररूपे च कृते अन्रूपाऽभावात् । दीर्घपक्षे तु तद्विधान सामर्थ्यादपि टिलोपाऽभावः सुपरिहरः । नङ् चेति । चाद्यत् ।नश्चे॑ति सुवचमिति मनोरमा । अन्ये त्वाहुः — — ऊधन्यशब्दात्तत्करोति तदाचष्टे॑इति णिचिणाविष्ठव॑दिति टिलोपे णिजन्तात्कर्तरि क्विपि णिलोपयलोपयोः कृतयोःअनुनासिकस्य क्वी॑ति दीर्घे ततः क्विबन्तादाचारक्विपिऊधानते॑इत्यादावात्मने पदार्थ नङो ङित्करणमावश्यकमिति । ऊधन्य इति ।ये चे॑ति प्रकृति भावः । Padamanjari ----------- अतिदोहनाद्वत्सान्प्रति हितो न भवति गोधुगित्येवं प्रकृत्या नञा च युगपत्प्रत्ययार्थस्य सम्बन्धः, प्रधानभूतश्च प्रत्ययार्थः। भवति च प्रधानस्य सापेक्षस्यापि वृत्तिः, प्रधानत्वादेवानेकोपकार्यत्वस्याविरोधात्,'सामान्याप्रयोगः' इति लिङ्गाच्च। किञ्च - विशेषतोऽत्र ज्ञापकमस्ति यदयं नत्रो गुणप्रतिषेधे'सम्पाद्यर्हहितालमर्थास्तद्धिताः' इत्याह, तज्ज्ञापयति -'भवत्येवञ्जातीयके' पि विषये तद्धितःऽ इति, अन्यथा सम्पाद्यर्हहितालमर्था ये तद्धितास्तदन्तान्युतरपदानि नत्रो गुणप्रतिषेधे प्रवृत्तिनिमितप्रतिषेधे वर्तमानात्पराणि न सम्भवेयुः। तत्र पूर्वं प्रत्ययः, प्रश्चान्नञ्समासः। अत एव यत्नसाध्यत्वादवत्सीय इत्यादेरुपन्यासः। यस्तु वत्सादन्यस्मै हितः, यो वा वत्सीयादन्यः, न तत्र किञ्चिदयत्नसाध्यम् । अथ किमर्थमियानवधिरुपादीयते, यावता न ह्यस्य'प्राग्वतेष्ठञ्' इत्यारभ्य ये योगाः'तेन क्रीतम्' इत्येतस्मात्प्राक् पठिताः, तेषु व्यापारोऽस्ति, न हि तत्र कश्चिदर्थो निर्द्दिश्यते, ततश्च'प्राक्ठञः' इति वक्तव्यम्,'प्राग्वतेष्टञ्' इत्ययमेव च प्रत्यासन्नष्ठञग्रहीष्यते, न विप्रकृष्टः'लोकसर्वलोकाट्ठञ्' इत्यादिः? इत्यत आहार्थोऽवधित्वेन गृहीत इति। गृहीतो ग्रहीतुमिष्टः। अयमभिप्रायः - अवश्यमत्रार्थोऽवधित्वेन ग्राह्यः, अन्यथा'प्राक् ठञः' इत्युच्यमानेऽवधिना सजातीयस्यावधिमतोऽभावादर्थाः, प्रकृतयो वाऽवधिमत्वेन गृह्यएरन्-प्राक् ठञो येऽर्थाः, या वा प्रकृतय इति। तत्र प्रकृतिपक्षेऽधिकारस्य नदीस्रोतोरूपेण प्रतिप्रकृत्युपश्थानाद् ठुगवादिभ्यो यच्छश्चऽ इति यच्छयोः सन्निधानादविशेषादुत्सर्गापवादभावो न स्यात्, तव्यतव्यानीयरामिव विकल्प एव स्यात्। अर्थे त्ववधित्वेन गृहीते प्राक् क्रीताद्येऽर्थास्तेष्वस्योपस्थानं भवति। अवधिसजातीयो ह्यवधिमान् भवति, यथा -'मासात्परः' इति कालः प्रतीयते,'ग्रामात्पूर्वः' इति देशः, ठलोऽन्त्यात्पूर्वःऽ इत्यलेव, ततोऽतिप्रसङ्गो न भवति। कथम्? समानार्थे प्रकृतिविसेषा दुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छ्ंअ बाधते। यथा - तक्रंकौण्डिन्ये दधि, अतोऽर्थोऽवधित्वेन गृहीत इति। ननु च'प्राक ठञः' इत्युच्यमाने भवतु नामैघं प्राक्ठञो याः प्रकृतय इति, तथापि यदादिविषषये छाए न भविष्यति, ज्ञापकात्, यदयम्'विभाषा हविरपूपादिभ्यः' इति विभाषां शास्ति, तज्ज्ञापयति-नान्यविषये छाए भवतीति, एवं च कृत्वा च्छ इत्येवाधिकारोऽस्तु, नार्थोऽवधिनिर्देअसेन, ज्ञापकाच्च प्रतिसूत्रमुपस्थानेऽप्यन्यविषये न भविष्यति, प्राग्वतेष्ठञित्यादिके तु प्रकारणे नास्याधिकारः, अधिकारन्तरेणावष्टब्धत्वात् ? सत्यम्; प्रतिपतिगौरवपरिहारार्थस्त्ववधिनिर्देशः, स चावधिरर्थ एव निर्देश्यः, न प्रत्ययः, अन्यथा'लशुनं च भक्षितं व्याधिश्च न निवृतः' इत्येतदापद्येत ॥ उगवादिभ्यो यत् ॥ Nyaas ----- विधिः, अधिकारः, परिभाषा वेति त्रयमत्र सम्भाव्यते। यथा चैतत्? त्रितयमपि निर्दोषम्, तथा **प्राग्दीव्यतोऽण्** (4.1.83) इत्यत्र दर्शतम्। यद्येवम्, काशिकाकारेण कस्मान्न सूचितम्? एकदेशानुस्मरणेन सर्वस्य सूचितत्वादित्यभिप्रायः। अथ प्रागिति कोऽयं निर्देशः, यावता प्रपूर्वस्याञ्चतेः क्विनि नलोपादिके विहिते `उगिदचाम्? (7.1.70) ति नुमि, संयोगान्तलोपे च, **क्विन्प्रत्ययस्य कुः** (8.2.62) इति नकारस्य ङकारे प्राङिति भवितव्यम्? अथेदृशी व्युत्पत्तिराश्रीयेत, यावता `अञ्चतेश्चोपसंख्यानम्? (वा।336) इति कृते ङीपि प्राच्यां दिशि वसतीति `दिक्शब्देभ्यः सप्तमी` (5.3.27) इत्यादिना अस्तातिः, तस्य **अञ्चेर्लुक्** (5.3.30) इति लुक्, `लुक्तद्धितलुकि` (1.2.49) इति ङीपोऽपि `तसिलादिस्तद्धित एधाच्पर्यन्तः` इत्यव्ययत्वे `अव्ययात्` (2.4.82) इति सोर्लुकि **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्? सर्वनामस्थानाभावे नुमोऽप्यभावः, ततः कुत्वे सति प्रागिति सम्पद्यते? यस्तु मन्यते - `आद्येऽपि पक्षे क्रियाविशेषणत्वान्नपुंसकत्वम्, क्रियाविशेषणानां यथा नपुंसकत्वम्, कर्मभावश्च; तथा `करणे च स्तोकाल्पकृत्छ्र` (2.3.33) इत्यत्र प्रतिपादितम्, तत्र कर्मणि द्वितीयायाः `स्वमोर्नपुंसकात्` (7.1.23) इति लुकि कृते पूर्ववन्नुमभावः` इति, तन्मते द्वितीयैकवचनान्तं पदं सञ्जायते। तदेवमितरस्मिन्? पक्षे `षष्ठतसर्थप्रत्ययेन` (2.3.30) इति षष्ठआ भवितव्यम्, तत्कथं `क्रातात्` इति पञ्चमीनिर्देशः? नै तदस्ति; यावता `अन्यारादितरर्तेदिक्शब्दः` (2.3.29) इत्यत्रेदमुक्तम्दिक्शब्दत्वादेव सिद्धेऽञ्चूत्तरपदग्रहणं `षष्ठतसर्थ` इत्यनेन प्राप्तां षष्ठीमपि बाधित्वा पञ्चम्येव यथा स्यादिति कुतः षष्ठीप्रसङ्गः। अतो व्यवस्थितमिदम् - प्रक्? क्रीतादिति।अथ प्राग्वचनं किम्, न `क्रीताच्छः` इत्येवोच्येत? नैतदस्ति; एवं ह्रु च्यमाने क्रीतशब्द एव प्रकृतित्वेन ज्ञायेत, ततश्च क्रीतशब्दादेव प्रत्ययः स्यात्। तस्मात् क्रीतादित्यवधिद्योतनार्थं प्रागिति वक्तव्यम्। तह्र्रयमर्थः `प्राग्घितात्` (4.4.75) इत्यतः प्रकृतेन प्राग्ग्रहणेन हि सम्बध्यते। एवं तत्रैतत्? स्यात् - तद्धि `भवे च्छन्दसि` (4.4.109) इति, तेन च्छन्दोऽधिकारसय निवृत्तेः। तर्हि हि `प्राग्दीव्यतः` (4.1.83) इत्यतः प्रकृतत्वात्? तेनापि च वहतेरित्येवमादिकं सम्बध्येत, यथा - `स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्` (4.1.87) इति? नैतदस्ति; एवं हि **सोमाट्ट्यण्** (4.2.30) इत्यादौ यत्र पञ्चमी श्रूयते तत्र सर्वत्र प्राग्वचनेन सम्बन्धे न ज्ञायते - को विधिः, का च प्रकृतिरिति स्यात्। येषामवधित्वमिष्यते, तेषामेव प्राक्शब्दमधीतवानिति। इह तु प्रकृतेन प्राग्वचनेन सम्बध्यते। तननु च विपर्ययः कसमान्न भवति - भवनादिति प्रकृतिः स्त्रीपुंसाभ्यामित्यवधिनिर्देश इति? नैतदस्ति; अवदेरकत्वादेकवचनेन निर्देसो न्याय्यः प्रकृतिनिर्देशे तु द्वे एव प्रकृती परस्परापेक्षे इति द्विवचनमुपपद्यते। ननु च विशदमिदमुदितमप्यर्थज्ञानम्। स्वरित लिङ्गादधिकाराणामासङ्ग इत्येतद्भवता विस्मृतम्, तदेवम्? `सोमाट्टण्` (4.2.30) इत्यादौ कः प्राग्वचनसम्बन्धप्रसङ्ग इति नार्थः प्राग्ग्रहणेन? सत्यमेतत्; किन्तु स्वरितत्वास्वरितत्वख्यापनपरम्परया मन्दधियो मोहमासादयन्तीति तत्प्रतिपत्त्यर्थं प्राग्ग्रहणं कर्तव्यम्। `अवत्सीयः` इति। विकल्पनात्? त्रयमत्र सम्भवति - अनुत्पन्ने प्रत्यये नञास्य सम्बन्ध इति, उत्पन्ने वा संसर्गः, उत्पत्तिकाल एवेति। तत्राद्ये पक्षे वत्सदन्यस्मै हितमितौष्टाभिधानं न प्राप्नोति। न चापि चतुर्थी; हितार्थस्य प्रतिषिध्यमानत्वत्। तृतीये तु पक्षे यता दोषो न भवति तथा प्रतिविधीयते। तत्र वत्सहितशब्दयोः पदान्तरनिरपेक्षयोः क्रियापदेन भवतिनानुगम्मानत्वात्, न च ब्राआहृसम्बन्धोऽन्तरङ्गसम्बन्धं निवर्तयितुं शक्नोति। अत एव न देवदत्ताय गां ददातीति सम्प्रदाने चतुर्थी भवति; कर्मणाभिप्राप्तेरन्तरङ्गत्वादिति। तथानेन च क्रमेण यत्रापि प्राप्तिर्न विद्यते, केवलं त्विच्छामात्रमेव, अत्रापि कर्मसंज्ञा प्रवर्तते, तद्यथा-ग्रामं गन्तुमिच्छामि न कश्चित्? सहायोऽस्तीति। यदप्युच्यते-असामर्थ्यात्तद्धितेन न भवितव्यमिति, तदेतदप्यसारम्; यदयम्, **नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः** (6.2.155) इति तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानानि पराण्यन्तोदात्तानि भवन्तीति तद्धितग्रहणमनर्थकं स्यात्। अथ किमर्थमियानवधिरुपादीयते, न हि तत्र तावदस्य व्यापारोऽस्ति; प्रत्ययान्तरैर्बाधितत्वात्। लघुत्वात्? `प्राक्ठञश्छः` इति वक्तव्यम्? इत्यत आह-`अर्थोऽवधित्वेन` इत्यादि। कः पुनरर्थमवधित्वेनाङ्गीकुर्वतो गुण इति चेत्? अयमभिप्रायः-`प्राक्ठञश्छः` इत्युच्यमाने प्राक्? ठञो याः प्रकृतयस्ताभ्यश्छो भवतीत्यर्थः स्यात्। ततश्चाधिकारस्य प्रतियोगोपस्थानादपवादविषये छप्रत्ययः प्रसज्येत। अर्थे त्ववधित्वेनोपादीयमाने प्राक्? क्रीताद्येऽर्थास्तेषु च्छो भवतीत्ययमर्थः सम्पद्यते, ततोऽतिप्रसङ्गो न भवति। तेन समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादश्छं बाधते। ननु च `प्राक्? ठञः` इत्युच्यमानेऽपवादविषयेऽपि च्छो न भविष्यत्येव; ज्ञापकात्, यदयं **विभाषा हविरपूपादिभ्यः** (5.1.4) इति विभाषाग्रहणं शास्ति; इतरथा ह्रधिकाराच्छोऽपि लभ्ध एवेति विभाषाग्रहणमनर्थकं स्यात्? सत्यमेतत्; किन्तु ज्ञापकद्वारेणार्थप्रतिपत्तौ सत्यां प्रतिपत्तिगौरवं स्यात्। तस्मात्? सुखप्रतिपत्त्यर्थमर्थोऽवधित्वेनोक्तः। अन्ये पुनराहुः - गृहीत इति `आशंसायां भूतवच्य` (3.3.132) इत्यनेन भविष्यति निष्ठाप्रत्यय इति। तेनायमर्थः सम्पद्यते-वत्सीयादिरूपसिद्ध्यर्थमर्थमवधिं ग्रहीष्यामीति। अतः शालातुरीयेण `प्राक्? ठञश्छः` इति नोक्तम्; अन्यथा हि प्रत्ययावधित्वे प्रतिपदोक्ता अन्तरङ्गा इत्युपात्ताभ्यः प्रकृतिभ्य एव प्रत्ययः स्यादित्याशंक्येत। अन्ये पुनरन्यथा वर्णयन्ति-`परिखया ढञ्` (5.1.17) इत्यत्र `छयतोः पूर्णोऽवधिः` इत्यभिधास्यति; ततश्च तेन क्रीतमिति वक्ष्यतीत्युच्यते, ततश्चेदं विरुद्धमित्याह-`अर्थोऽवधित्वेन` इत्यादि। गतार्थम्। नैयायिक इत्याह-`क्वचिदथोऽवधित्वेन गृह्रते, यता-`आर्हात्` (5.1.19) `भवनात्` (4.1.87) । इति, क्वचित्? प्रत्ययः प्राग्वहतेः - **आ च त्वात्** (5.1.120) इति, क्वचित्? प्रकृतिः - `आकडारात्` (1.4.1) `प्राक्कडारात्` (2.1.3) इति, क्वचिदेकदेशः - **प्राग्दीव्यतोऽण्** (4.1.83) इति, क्वचिन्निरवधिः प्रत्ययः - `ङ्याप्प्रातिपदिकात्` (4.1.1) इति; तेनायमात्मनो वैचित्र्यमाचार्यो दर्शयतीत्यवसीयते` इति। अथ क्रीतशब्दादेव पूर्वेण च्छप्रत्ययो भवतीत्येवं कस्मान्न विज्ञायते, यथा-`विभाषा सुपो बहुच्? पुरस्तात्तु` (5.3.68) इति? अनभिधानात्। न हि क्रीतशब्दात्? पुरस्तादुत्पद्यमानेन प्रत्ययेन कस्यचिदर्थस्याभिधानमस्ति। न चापि **तेन क्रीतम्** (5.1.37) इति निर्देश उपपद्यते। तत्रैवमपि प्राक्? क्रीतशब्दादेव प्रत्ययो भवतीत्येव कस्मान्न विकल्प्यते? अनभिधानादेव। न हि तत उत्पन्नेन प्रत्ययेन विवक्षितोऽर्थोऽवगम्यते। अर्थान्तरं भवादिकम्, तत्र च वृद्धलक्षणश्छ एव सिद्ध इत्यनर्थकमिदं स्यात्। तस्मात्? प्रागुदितमेव प्रयोजनं न्याय्यम्॥ Prakriyasarvasvam ----------------- तेन क्रीतमित्यतः प्राक् चतुष्वर्थेषु च्छोऽधिकृतः ॥ Sutra Prayogas -------------- * **कांस्यम्** (शिशुपालवधम्): `प्राक्क्रीताच्छः` इति छप्रत्ययः।