44140: वसोः समूहे च =================== **Padacheda:** वसोः | S | 5 | 1 | समूहे | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **मयट्-प्रत्ययस्य अर्थेषु तथा च 'तस्य समूहः' अस्मिन् अर्थे 'वसु' (= द्रव्यम्) शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।** 'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते - 1. **मयट् च** (4.3.82) इत्यनेन **ततः आगतः** (4.3.74) अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति । 2. **मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः** (4.3.143) इत्यनेन **तस्य विकारः** (4.3.134) तथा च **अवयवे च प्राण्योषधिवृक्षेभ्यः** (4.3.135) इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति । 3. **तत्प्रकृतवचने मयट्** (5.4.21) इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते । एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु, तथा च 'तस्य समूहः' अस्मिन् अर्थे वेदेषु 'वसु'(=द्रव्यम्) शब्दात् 'यत् 'प्रत्ययः कृतः दृश्यते । वसोः आगतः / वसोः विकारः / वसोः अवयवः / वसुः प्रकृतम् / वसूनां समूहः = वसु + यत् → वसो + य [**ओर्गुणः** (6.4.146) इति गुणः] → वसव् + य [**वान्तो यि प्रत्यये** (6.1.79) इति अवादेशः] → वसव्य वेदेषु प्रयोगः - (ऋग्वेदः 2.13.13, 'समूहः' अस्मिन् अर्थे) - अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । अत्र द्वे वार्त्तिके ज्ञात्वये - 1. । इत्युक्ते, कोऽपि वेदमन्त्रः 'अक्षरसमूहः' अस्तीति मत्वा 'छन्दस्' (= वेदमन्त्रः) अस्मात् शब्दात् स्वार्थे एव यत्-प्रत्ययं कृत्वा तस्य मन्त्रस्य निर्देशः वेदेषु कृतः दृश्यते । यथा, प्रजापतिना निर्मितः सप्तदश-अक्षराणाम् मन्त्रः - 'ओ श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट्' - अयम् 'छन्दस्य' नाम्ना ज्ञायते । अयम् सप्तदश-अक्षराणाम् छन्दः (= वेदमन्त्रः) अस्ति, अस्यैव विधानम् 'अक्षरसमूहम्' इति चिन्तयित्वा 'छन्दस्य' इत्यनेन अपि भवति ।अत्र 'छन्दस्'शब्दात् स्वार्थे यत्-प्रत्ययः कृतः दृश्यते । 2. । इत्युक्ते, वसु-शब्दात् स्वार्थे अपि यत्-प्रत्ययः कृतः दृश्यते । यथा, तैत्तिरीयसंहितायाम् 'हस्तौ पृणस्व बहुभिर्वसव्यैः' इति प्रयोगः दृश्यते । अत्र 'वसव्य' शब्दस्य 'वसु' (= द्रव्यम्) इत्येव अर्थः अस्ति, केवलं स्वार्थे यत्-प्रत्ययः कृतः दृश्यते । ज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति । तथा च, 'समूहः' इत्यस्मिन् अर्थे षष्ठीसमर्थात् प्रत्ययः विधीयते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'a collection' after the word वसु , as well as with the force of मतुप् , in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix यत् comes in the sense of 'a collection' after the word वसु , as well as with the force of मतुप् , in the छन्दस् (Vedas). Thus वसव्यः = समूहः 'a collection'. Vart:- The affix '*yat*' comes without changing the sense, after the word छन्दस् when reference is made to the collection of letters. Thus the word छन्दस्यः in the following sentence: "सप्तादशाक्षरश्छन्दस्यः प्रजापतियज्ञो मन्त्रे विहिता". The 17 letters here referred to being ओ श्रावय, four; अस्तु श्रौषट्, four; यज, two; ये यजामहे five; and वषट् two ॥ Vart:- The affix यत् comes after वसु without changing the sense. As हस्तौ गृहीतस्य बहुभिर्वसव्यैः ॥ Here वसव्यैः is equal to वसुभिः ॥ Similarly अग्निरीशे वसव्यस्य = वसोः ॥ Bhashya ------- 1878 वसोः समूहे च (5583 पूरकवार्तिकम्॥ 1 ॥) - अक्षरसमूहे छन्दस उपसंख्यानम् - (भाष्यम्) अक्षरसमूहे छन्दस उपसंख्यानं कर्तव्यम्। ओ श्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्, ये यजामह इति पञ्ञ्चाक्षरम्, यजेति द्व्यक्षरम्, द्व्यक्षरो वषट्कारः। एष वै सप्तदशाक्षरः -छन्दस्यः प्रजापतिर्यज्ञमनुविहितः॥ (5584 एकदेशिवार्तिकम्॥ 2 ॥) - छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् - (भाष्यम्) छन्दसि बहुभिर्वसव्यैरुपसंख्यानं कर्तव्यम्। हस्तौ पृणस्व बहुभिर्वसव्यैः॥ (5585 एकदेशिवार्तिकम्॥ 3 ॥) - अग्निरीशे वसव्यस्य - (भाष्यम्) अग्निरीशे वसव्यस्येत्युपसंख्यानं कर्तव्यम्। तत्तर्हि उपसंख्यानं कर्तव्यम्? न कर्तव्यम्॥ (5586 सिद्धान्तवार्तिकम्॥ 4 ॥) - स्वार्थविज्ञानात्सिद्धम् - (भाष्यम्) स्वार्थविज्ञानात् सिद्धमेतत्। वसव एव वसव्याः पान्तु॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम्॥ पादोऽध्यायश्च चतुर्थः समाप्तः॥ Kashika ------- वसुशब्दात् समूहे वाच्ये यत् प्रत्ययो भवति चकाराद् मयडर्थे च। यथायोगं समर्थविभक्तिः। वसव्यः समूहः। मयडर्थो वा॥ अक्षरसमूहे छन्दसः स्वार्थ उपसंख्यानम्॥ ओ॑श्रा॒वय इ॑ति॒ च॑तु॒रक्षरम्। अ॑स्तु॒ श्रौ॑ष॒डि॑ति॒ च॑तु॒रक्षरम्। य॑ज इ॑ति द्व्य॒क्षरम्। ये॑ य॑जा॒महे॑ इ॑ति॒ प॑ञ्चा॒क्ष्ारम्। द्व्य॒क्षरो॑ व॒षट्का॒रः॑। ए॒ष॑ व॑ै सप्तदशाक्षरश्छन्दस्यः प्र॒जा॑प॒तिर्यज्ञो मन्त्रे विहितः (मै०सं०१.४.११)। सप्तदशाक्षराण्येव छन्दस्य इत्यर्थः। छन्दः शब्दादक्षरसमूहे वर्तमानात् स्वार्थे यत् प्रत्ययः॥ वसुशब्दादपि यद् वक्तव्यः॥ हस्तौ॑ पृणस्व ब॒हुभि॑र्व॒सव्य॑ैः (शौ०सं०७.२६.८)। वसुभिरित्यर्थः। अ॒ग्निरी॑शे वस॒व्य॑स्य (ऋ०४.५५.८)। वसोरित्यर्थः॥ Siddhanta Kaumudi ----------------- चान्मयडर्थे यत् । वसव्यः । । (वार्तिकम्) ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥ Padamanjari ----------- ओश्रावयेत्यादिकस्याक्षराणि गण्यन्ते, सप्तदशात्मकश्च्छन्दस्योऽक्षरसमूहः । प्रजापतिः प्रजापतिना दृष्टः । हस्तौ पृणस्वेति पृणातिः पूरणकर्मा ॥ Prakriyasarvasvam ----------------- अस्मात्समूहे मयडर्थे च यत् स्यात् । वसु ते वसव्यम् । मयडर्थेऽप्यूह्यम् । (वा.) अग्नीरीशे वसव्यस्य । अक्षरसमूहार्थाच्छन्दसः स्वार्थे यद्वाच्यः' (वा.) । एष व सप्तदशाक्षरः छन्दस्यः । Vartika ------- अक्षरसमूहे छन्दस उपसंख्यानम् ।