44134: अद्भिः संस्कृतम् ======================= **Padacheda:** अद्भिः | S | 3 | 3 | संस्कृतम् | S | 1 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'अप्' शब्दात् 'संस्कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।** 'संस्कतम्' इत्युक्ते संस्करणम् कृतम् । तृतीयासमर्थात् 'अप्' (= जलम्) शब्दात् 'अनेन संस्करणम् कृतम्' अस्मिन् अर्थे वेदेषु यत्-प्रत्ययः कृतः दृश्यते । अद्भिः संस्कतृम् = अप् + यत् → अप्य । यथा - अप्यम् हविः । वेदेषु प्रयोगः - ऋग्वेदे 10.86.11 - यस्ये॒दं अप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः । ज्ञातव्यम् - 'अद्भिः' इति सूत्रे विद्यमानः यः प्रथमः शब्दः, तेनैव तृतीयासामर्थ्यम् निर्दिश्यते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'sanctified' after the word अपस् in the Instrumental -3rd case in construction, in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix यत् comes in the sense of 'sanctified' after the word अपस् in the Instrumental -3rd case in construction, in the छन्दस् (Vedas). Thus अप्यम् 'offering purified with water'. As यस्येदमप्यं हविः ॥ The case of construction is indicated in the *sutra* itself. Kashika ------- निर्देशादेव समर्थविभक्तिः। अप्शब्दात् तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। यस्ये॒दमप्यं॑ ह॒विः (ऋ०१०.८६.१२)। अद्भिः संस्कृतमिति॥ Siddhanta Kaumudi ----------------- यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे यत् । यस्येदमप्यं हविः ।