44130: ओजसोऽहनि यत्खौ ===================== **Padacheda:** ओजसः | S | 5 | 1 | अहनि | S | 7 | 1 | यत्-खौ | S | 1 | 2 | Sutrartha --------- **प्रथमासमर्थात् ओजस्-शब्दात् मत्वर्थे अहनि अभिधेये वेदेषु संज्ञायाः विषये यत्-प्रत्ययः तथा ख-प्रत्ययः कृतः दृश्यते ।** 'मतुप्' इति कश्चन तद्धितप्रत्ययः । **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । अस्मिन् अर्थे ओजस्-शब्दात् अहन् (= दिवसः) अस्य निर्देशार्थम् संज्ञायाः विषये 'यत्' तथा 'ख' प्रत्ययौ भवतः । 1. ओजः अस्मिन् अहनि वर्तते सः ओजस्यम् अहः । ओजस् + यत् → ओजस्य । 2. ओजः अस्मिन् अहनि वर्तते सः ओजसीनम् अहः । प्रक्रिया इयम् - ओजस् + ख → ओजस् +ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति खकारस्य ईन्-आदेशः] → ओजसीन उदाहरणम् - (तैत्तिरीयसंहिता 4.4.12.1) - 'उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना' । ज्ञातव्यम् - अस्मिन् सूत्रे आचार्यः 'यत्' प्रत्ययस्य स्पष्टरूपेण निर्देशं करोति । अत्र अयं प्रश्नः उपतिष्ठते यत् 'ओजसोऽहनि ख च' इति उच्यते चेदपि औत्सर्गिकरूपेण यत्-प्रत्ययः भवेदेव किल? अस्य प्रश्नस्य समाधानम् न्यासकारेण उच्यते - 'नैवं शक्यम्; चकारेण हि सन्देहः स्यात् -किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते, अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्' । इत्युक्ते, यदि केवलं 'च' इति उच्येत, तर्हि पूर्वसूत्रात् 'ञ' इति अनुवर्तनीयः उत 'यत्' इति स्वीकर्तव्यः इति सन्देहः जायेत । अतएव अत्र आचार्यः स्पष्टरूपेण 'यत्' इति निर्देशयति । Vasu English Summary -------------------- The affixes यत् and ख come with the force of मतुप् after the word ओजस् when 'a day' is meant. Vasu English Translation ------------------------ The affixes यत् and ख come with the force of मतुप् after the word ओजस् when 'a day' is meant. Thus ओजस्य॑म् or ओजसी॒नं = अहः 'the day' lit. full of heat. Kashika ------- मत्वर्थ इत्येव। ओजःशब्दाद् मत्वर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये। ओजस्यमहः। ओजसीनमहः॥ Siddhanta Kaumudi ----------------- ओजस्यमहः । ओजसीनं वा ॥ Padamanjari ----------- यद्ग्रहणमनर्थकम्,'खश्च' इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्;'खश्च' इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ॥ Nyaas ----- असन्तत्वात् **अस्मायामेधास्रजो विनिः** (5.2.121) इति विनिप्रत्यये प्राप्ते मतुपोऽपवादैः सह समावेशात् मतुपि यत्खौ विधीयेते। अथ यद्ग्रहणं किमर्थम्, ननु `ओजसोऽहनि ख च` इत्येवोच्येत, चकारेण यथाविहिते प्रत्यये विज्ञायमाने यदिति च भविष्यति? नैवं शक्यम्; चकारेण हि सन्देहः स्यात् - किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते? अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- अस्मान्मत्वर्थेऽहनि वाच्ये यत्खौ स्तः । ओजस्यमहः । ओजसीनमहः ।