44124: मायायामण् ================ **Padacheda:** मायायाम् | S | 7 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् 'असुर'शब्दात् 'आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते ।** 'असुरस्य आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये षष्ठीसमर्थात् असुर-शब्दात् अण्-प्रत्ययः कृतः दृश्यते । असुरस्य आत्मीया माया = असुर + अण् + ङीप् → आसुरी माया । यथा - (अथर्ववेदः 1.24) - 'तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्' । ज्ञातव्यम् - 'असुरस्य आत्मीया माया' अस्मिन् अर्थे **असूरस्य स्वम्** (4.4.123) इत्यनेन विहितं यत्-प्रत्ययं बाधितुम् तथा च स्पष्टरूपेण अण्-प्रत्ययविधानं कर्तुमस्य सूत्रस्य निर्माणं कृतमस्ति । परन्तु अस्मिन् सूत्रे 'अण्' इति वस्तुतः न आवश्यकम् । केवलम् 'मायायां न' इति उच्यते चेदपि 'असुरस्य आत्मीया माया' इत्यत्र **तस्येदम्** (4.3.120) इत्यनेन अण्-प्रत्ययः एव विधीयेत । अतः अस्मिन् सूत्रे निर्दिष्टः अण्-प्रत्ययः केवलं स्पष्टतायै कृतः अस्ति - इति पण्डिताः मन्यन्ते । न्यासकारः अस्मिन् विषये वदति - 'मायायां नेति वक्तव्ये अण्-ग्रहणं विस्पष्टार्थम्' । Vasu English Summary -------------------- The affix अण् comes in the sense of 'glamour' after the word असुर in the Genitive 6th-Case in construction, in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix अण् comes in the sense of 'glamour' after the word असुर in the Genitive 6th-Case in construction, in the छन्दस् (Vedas). This debars यत् ॥ असुरस्य माया = आसुरः feminine आसुरी꣡ ॥ As आसुरी माया स्वधया कृतासि ॥ Kashika ------- असुरशब्दात् षष्ठीसमर्थाद् मायायां स्वविशेषेऽण् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ (मा०सं०११.६९)॥ Siddhanta Kaumudi ----------------- आसुरी माया ॥ Padamanjari ----------- मीयतेऽनयेति माया उ असदर्थप्रकाशनशक्तिः । माङ् औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ॥ Nyaas ----- मायायां नेति वक्तव्येऽण्ग्रहणं विस्पष्टार्थम्॥ Prakriyasarvasvam ----------------- असुरस्य मायायां वाच्यायामण् स्यात् । आसुरी मायास्वधया कृतासि ।