44114: सगर्भसयूथसनुताद्यन् ========================== **Padacheda:** सगर्भ-सयूथ-सनुतात् | S | 5 | 1 | यन् | S | 1 | 1 | Sutrartha --------- **'भवः' अस्मिन् अर्थे सप्तमीसमर्थेभ्यः 'सगर्भ', 'सयूथ', 'सनुत' शब्देभ्यः वेदेषु संज्ञायाः विषये यन्-प्रत्ययः कृतः दृश्यते ।** 'सगर्भः' (= समानः गर्भः), 'सयूथ' (समानः समूहः), 'सनुत' (समाना देवता) - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः 'भवः' अस्मिन् अर्थे संज्ञायाः विषये वेदेषु 'यन्' प्रत्ययः कृतः दृश्यते । यथा - 1. सगर्भे भवः = सगर्भ + यन् → सगर्भ्य । अनुजः इत्यर्थः । यथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । 2. सयूथे भवः = सयूथ + यन् → सयूथ्य । सखा इत्यर्थः । यथा - यथा - यजुर्वेदे 4.20 - अनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । 3. सनुते भवः = सनुत + यन् → सनुत्य । समानदेवतायाः भक्तः इत्यर्थः । यथा - ऋग्वेदे 2.30.9 - यो न सनुत्य उत वा जिघत्नु रभिख्याय तं तिगितेन विध्य । ज्ञातव्यम् - वस्तुतः अत्र 'यत्' प्रत्ययस्य अधिकारः प्रचलति । परन्तु तम् बाधित्वा अत्र यन्-प्रत्ययविधानम् कृतमस्ति । द्वयोः प्रत्यययोः योजनेन रूपम् तु समानमेव जायते, परन्तु द्वयोः रुपयोः मध्ये स्वरभेदः अस्ति । 'यन्' प्रत्ययान्तशब्दः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन आद्युदात्तत्वं प्राप्नोति, परन्तु यत्-प्रत्ययान्तशब्दस्य विषये तु **तित्स्वरितम्** (6.1.185) इत्यनेन प्रत्ययस्वरस्य स्वरितत्वम् इष्यते (येन आदिस्वरः अनुदात्तः विधीयते) । Vasu English Summary -------------------- The affix यन् comes in the sense of 'what stays there' after the words 1. सगर्भ 2. सयूथ and 3. सनुत। Vasu English Translation ------------------------ The affix यन् comes in the sense of 'what stays there' after the words 1. सगर्भ 2. सयूथ and 3. सनुत। This debars यत् the difference being in accent (6.1.197). Thus अनुभ्राता सगर्भ्यः॑ 'a younger brother'. अनुसखासयू॑थ्यः 'a younger friend'. So also यो नः सनु॑त्यः उत वा जिघन्तु thief lit. 'who stays in a concealed place', *sanuta* meaning 'concealed' (see *Rig* *Veda* II.31.9). The word समान is always changed into स in the *Chhandas* (6.3.84). Kashika ------- सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं०४.२०)। अनु॒ सखा॒ सयू॑थ्यः (तै०सं०१.२.४.२)। यो नः॒ सनु॑त्यः (ऋ०२.३०.९)। सर्वत्र **समानस्य छन्दस्य०** (६.३.८४) इति सभावः॥ Siddhanta Kaumudi ----------------- अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः -(SK3090) । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि (SK1012) इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥ Padamanjari ----------- ठर्तिगृभ्यां भन्ऽ, गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्यूथम्,'तिथपृष्ठगूथयूथप्रोथाः' इति क्थन्प्रत्ययान्तो निपातितः । नुतिर्नुतम्,'नपुंसके भावे क्तः' । सगर्भादयस्त्रयोऽपि कर्मधारयाः ॥ Nyaas ----- समानो गर्भः, समानो यूथ इति कर्मधारयः। `णु स्तुतौ` (धातुपाठः-1035) , भावेक्तः, समानं नुतमस्येति बहुव्रीहिः। समानञ्च तन्नुतञ्चेति कर्मधारयो वा। `स्वरे विशेषः` इति। यति सति **तित्स्वरितम्** (6.1.185) इत्यन्तस्वरितत्वं स्यात्, यनिसति नित्स्वरेणाद्युदात्तत्वं स्यात्। `सर्वत्र समानस्य च्छन्दसि` इति। **समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु** (6.3.84) इत्यस्योपलक्षणपर एकदेश उपात्तः॥