44112: वेशन्तहिमवद्भ्यामण् ========================== **Padacheda:** वेशन्त-हिमवद्भ्याम् | S | 5 | 2 | अण् | S | 1 | 1 | Sutrartha --------- **सप्तमीसमर्थात् 'वेशन्त'शब्दात् तथा 'हिमवत्'शब्दात् वेदेषु संज्ञायाः विषये 'भवः' अस्मिन् अर्थे अण्-प्रत्ययः कृतः दृश्यते ।** 'वेशन्त' इत्युक्ते सरः । 'हिमवत्' इत्युक्ते हिमालयः । एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'अण्' प्रत्ययः कृतः दृश्यते । 1. वेशन्ते भवः = वेशन्त + अण् → वैशन्त + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → वैशन्त् + अ [**यस्येति च** (6.4.148) इतो अकारलोपः] → वैशन्त यथा - तैत्तिरीयसंहिता 7.4.13 इत्यत्र - वैशन्तीभ्यः स्वाहा, पल्वल्याभ्यः स्वाहा, वर्ष्याभ्यः स्वाहा । 2. हिमवति भवः = हिमवत् + अण् → हैमवत् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → हैमवत ज्ञातव्यम् - 'तत्र भवः' अस्मिन् अर्थे छन्दसि **भवे छन्दसि**(4.4.110) इत्यनेन यत्-प्रत्यये प्राप्ते वेशन्तशब्दस्य विषये हिमवत्-शब्दस्य विषये च तं बाधित्वा अनेन सूत्रेण अण्-प्रत्ययविधानम् क्रियते । Vasu English Summary -------------------- The affix अण् comes in the sense of 'what stays there' after the words 1. वेशन्त and 2. हिमवत् , in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix अण् comes in the sense of 'what stays there' after the words 1. वेशन्त and 2. हिमवत् , in the छन्दस् (Vedas). This debars यत् ॥ Thus वैशन्तीभ्यः स्वाहा, हैमवतीभ्यः स्वाहा ॥ Kashika ------- वेशन्तशब्दाद् हिमवच्छब्दात् चाण् प्रत्ययो भवति, तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। वैश॒न्तीभ्यः॒ स्वाहा॑ (तै०सं० ७.४.१३.९)। हैमव॒तीभ्यः॒ स्वाहा॑ (तु० — शौ०सं० १९.२.१)॥ Siddhanta Kaumudi ----------------- भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥ Padamanjari ----------- वेशन्तः उ पल्वलम्,'विशेर्झ च' , तत्र भव आपः वैशान्त्यः ॥ Prakriyasarvasvam ----------------- नमा नाद्याय च वैशन्ताय च । हैमवतीभ्यः स्वाहा ।