44096: बन्धने चर्षौ =================== **Padacheda:** बन्धने | S | 7 | 1 | च | S | 0 | 0 | ऋषौ | S | 7 | 1 | Sutrartha --------- **षष्ठीसमर्थात् 'हृदय' शब्दात् 'बन्धने' अस्मिन् अर्थे ऋषौ (वेदे) अभिधेये संज्ञायाम् यत्-प्रत्ययः भवति ।** आदौ सूत्रे प्रयुक्तानां शब्दानामर्थं पश्यामः - 1. बन्धनम् = बद्ध्यते (बाधनम् क्रियते) येन, तत् बन्धनम् । 2. ऋषिः = वेदमन्त्रः । अतः अस्य सूत्रस्य अर्थः अयम् - येन वेदमन्त्रेण हृदयस्य बन्धनम् क्रियते (इत्युक्ते, मनः वशीक्रियते), तस्य निर्देशार्थम् 'हृदय' शब्दात् यत्-प्रत्ययः भवति । हृदयस्य बन्धनम् करोति सः = हृदय + यत् → हृद् + य [**हृदयस्य हृल्लेखयदण्लासेषु** (6.3.50) इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः] → हृद्यः ऋषिः (वेदमन्त्रः) ज्ञातव्यम् - अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः अत्र 'ऋषि' इत्यस्य अर्थः केवलं 'वेदः' इत्येव स्वीक्रियते, न हि 'मुनिः' इति । Vasu English Summary -------------------- The affix यत् comes in the sense of 'a bond' after the word हृदय being in the Genitive -6th-Case construction, when the word denotes a 'hymn'. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'a bond' after the word हृदय being in the Genitive -6th-Case construction, when the word denotes a 'hymn'. The word हृदयस्य is understood in the *sutra*. The word बन्धन gives the sense of the affix and is qualified by the word ऋषि ॥ That by which a thing is bound is called बन्धनं ॥ The word ऋषि means here the *Veda* or the Vedic bymn. Thus हृदयस्य बन्धनमृषि = हृ꣡द्यः 'the *Mantra* by which the heart of another can be brought under one's control', i.e. a वशीकरण मन्त्रः ॥ Kashika ------- हृदयस्येत्येव। बन्धन इति प्रत्ययार्थः। तद्विशेषणमृषिग्रहणम्। बध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धन ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर्वेदो गृह्यते। हृदयस्य बन्धनमृषिर्हृद्यः। परहृदयं येन बध्यते वशीक्रियते, स वशीकरणमन्त्रो हृद्य इत्युच्यते॥ Siddhanta Kaumudi ----------------- हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः ॥ Balamanorama ------------ **बन्धने चर्षौ** - बन्धने चर्षौ । Tattvabodhini ------------- **बन्धने चर्षौ** - बन्धने । बध्यतेऽनेनेति बन्धनः । करणे ल्युट् । वशीकरणमन्त्र इति । ते नहि परह्मदयं वशीक्रियते । संज्ञाधिकारद्व सिष्ठादावृषौ नायं यत् । Padamanjari ----------- षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति ।'तदुक्तमृषिणा' इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ Nyaas ----- ऋषिशब्दोऽयमस्त्येव गुणवति पुरुषविशेषे, अस्ति च वेदे;इह संज्ञाधिकारादेव न मनुष्यग्रहणमिति दर्शयति - `ऋषिर्वेदो गृह्रते (इति)॥ Prakriyasarvasvam ----------------- ad_ref: ४. ४. ९६ sutra_text: बन्धने चर्षौ बन्धनं वशीकरणसाधनम्, ऋषिर्मन्त्रः, तस्मिन् वाच्ये हृदयाद् यत् । हृदयस्य बन्धनो मन्त्रो हृद्यः ॥