44087: पदमस्मिन् दृश्यम् ======================== **Padacheda:** पदम् | S | 1 | 1 | अस्मिन् | S | 7 | 1 | दृश्यम् | S | 1 | 1 | Sutrartha --------- **'अस्मिन् पदम् दृश्यम्' अस्मिन् अर्थे प्रथमासमर्थात् पद-शब्दात् यत् प्रत्ययः भवति ।** 'दृश्यम्' इति दृश्-धातोः 'क्यप्' प्रत्ययान्तरूपम् । द्रष्टुम् अर्ह्यम् / शक्यम् तत् दृश्यम् । 'दृश्यम्' अस्मिन् अर्थे पदशब्दात् वर्तमानसूत्रेण यत् प्रत्यविधानम् भवति । यस्मिन् पदार्थे पदं स्थापयामश्चेत् पदस्य चिह्नम् द्रष्टुं शक्यते, तस्य पदार्थस्य निर्देशार्थमयम् प्रत्ययविधानम् कृतमस्ति । उदाहरणद्वयं पश्यामश्चेत् स्पष्टं भवेत् - 1. या मृत्तिका सम्पूर्णरूपेण शुष्का नास्ति, सम्पूर्णरूपेण आर्द्रा अपि नास्ति, तस्याः नाम 'कर्दम' इति दीयते (mud इत्यर्थः) । एतादृशि कर्दमे पदम् स्थापयामश्चेत् पदः चिह्नम् (foot-prints) मृत्तिकायां मुद्रितानि भवन्ति । एतादृशम् कर्दमम्, यस्मिन् पदचिह्नम् मुद्रितमस्ति, ज्ञापयितुम् पद-शब्दात् यत्-प्रत्ययः क्रियते । अस्मिन् कर्दमे पदम् दृश्यम् सः = पद + यत् → पद्यः कर्दमः । 2. 'पांसु' इति गोमयस्य (cow dung) अपरम् नाम । पांसौ पदम् स्थाप्यते चेत् तत्रापि पदचिह्नम् मुद्रितम् भवति । अतः अत्रापि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति - अस्मिन् पांसौ पदम् दृश्यम् सः = पद + यत् → पद्यः पांसुः । स्मर्तव्यम् - अस्मिन् सूत्रे पूर्वसूत्रात् 'तत्' इति न अनुवर्तते । अतः अत्र समर्थेषु प्रथमः शब्दः 'पदम्' इति प्रथमान्तः अस्ति । अतएव अत्र 'प्रथमासमर्थात्' इति अर्थविधानम् क्रियते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'in it is visible' after the word पद being in the Nominative 1st-Case in construction. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'in it is visible' after the word पद being in the Nominative 1st-Case in construction. Thus पद दृश्यमस्मिन् = पद्यः कर्दम 'mud' lit. soft mud in which foot-mark can be seen at every step. It describes mud which is neither very hard nor very fluid, but having sufficient consistency to take the impression of the foot. So पद्याः पांसवः 'dust' for in it also the impression of the foot can be seen. It also means 'the foot-path.' The word दृश्यम् means शक्यते द्रष्टुम् this being the force of the *kritya* affix 'ya' in दृश ॥ Kashika ------- निर्देशादेव प्रथमा समर्थविभिक्तिः। पदशब्दात् प्रथमासमर्थाद् दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत् प्रत्ययो भवति। पदं दृश्यमस्मिन् पद्यः कर्दमः। पद्याः पांसवः। शक्यार्थे कृत्यप्रत्ययः। शक्यते। यस्मिन् पदं द्रष्टुं प्रतिमुद्रोत्पादनेन, स पद्यः कर्दमः। कर्दमस्यावस्थोच्यते नातिद्रवो नातिशुष्क इति॥ Siddhanta Kaumudi ----------------- पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥ Balamanorama ------------ **पदमस्मिन् दृश्यम्** - पदमस्मिन्दृश्यं । प्रथमान्तात्पदशब्दाद्दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते । Padamanjari ----------- निर्देशादेव प्रथमा समर्थविभक्तिरिति । द्वितीया तु न भवति; दृश्यमिति क्यपा कर्मणोऽभिहितत्वात् । शक्यार्थे कृत्यप्रत्यय इति । तेन योग्यत्वे सति पदस्पर्शनाभावेऽपि पद्यः कर्दम इति प्रयोग उपपद्यत इति भावः । मुद्राउ सन्निवेशः, प्रतिरूपा मुद्रा प्रतिमुद्रा । नातिद्रवो नातिशुष्क इति । पांसवोऽति नात्यल्पा नातिबहुलाः पद्याः ॥ Nyaas ----- कर्मणः कृतैवाभिहितत्वाद्द्वितीया न सम्भवति। न च द्वितीयाप्रथमाभ्यामन्यत्र विभक्तौ पदमिति रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतदिति निश्चित्याह - `निर्देशादेव` इत्यादि॥ Prakriyasarvasvam ----------------- पदमस्मिन् द्रष्टुं शक्यमिति पद्यः कर्दमः ॥