44080: शकटादण् ============== **Padacheda:** शकटात् | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् शकटशब्दात् अण्-प्रत्ययः भवति ।** 'शकटम् वहति सः' अस्मिन् अर्थे शकटशब्दात् अण्-प्रत्ययः विधीयते । शकटम् वहति सः = शकट + अण् → शाकटः गौः । ज्ञातव्यम् - 'शकटम् वहति सः = शकटस्य वाहकः' इति प्राप्ते **तस्येदम्** (4.3.120) इत्यनेन अण्-प्रत्ययः पूर्वमेव प्राप्तः अस्ति । अतः अत्र अण्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् तत्वबोधिन्यामुच्यते - 'आरम्भसामर्थ्यात् अत्र तदन्तविधिः। तेन द्वे शकटे वहति इत्यत्र **द्विगोर्लुगनपत्ये** (4.1.88) इति प्राग्दीव्यतीयो लुक् न भवति, **तस्येदम्** (4.3.120) इति अणि तु स्यादेव लुगिति' । इत्युक्ते, अस्मिन् सूत्रे 'अण्' प्रत्ययस्य पुनर्विधानम् तदन्तविधिम् दर्शयति । अतः 'द्वे शकटे वहति' इत्यत्र 'द्विशकट' इत्यस्मात् अपि अनेन सूत्रेण अण्-प्रत्ययः क्रियते, येन 'द्वैशकट' इति रूपं सिद्ध्यति । एवं न क्रियते चेत् किम् भवेत्? यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि 'द्वे शकटे वहति' = 'द्वयोः शकटयोः वोढा' इत्यत्र 'द्विशकट' इत्यस्मात् **तस्येदम्** (4.3.120) अस्मिन् अर्थे **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन अण्-प्रत्ययः भवेत्, यस्य अग्रे **द्विगोर्लुगनपत्ये** (4.1.88) इत्यनेन च लुक् प्राप्नुयात् । लुकि कृते च अन्तिमम् रूपम् 'द्विशकट' इत्येव स्यात् । परन्तु अण्-प्रत्यये कृते 'द्वैशकट' इति शब्दः अपि प्रयुज्यते, यत्र अण्-प्रत्ययस्य लुक् न क्रियते । अस्य रूपस्य सिद्ध्यर्थम् एव वर्तमानसूत्रम् विशिष्टरूपेण पाठितमस्ति । अतः यद्यपि 'शकटम् वहति' इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि 'द्वे शकटे वहति' इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव । 'द्विशकटस्य वाहकः' इत्यत्र तु **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन अण्-प्रत्ययविधानम् कृत्वा **द्विगोर्लुगनपत्ये** (4.1.88) इति लुकि कृते 'द्विशकट' इत्येव रूपम् सिद्ध्यतीति स्मर्तव्यम् । इत्युक्ते, द्विशकटं वहति सः द्वैशकटः, परन्तु द्विशकटस्य वोढा सः द्विशकटः । अनेन प्रकारेण एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति । अतः अस्य सूत्रस्य निर्माणम् 'पाणिनिना सूत्रनिर्माणे कियता विस्तारेण चिन्तनम् कृतम्' अस्यैव ज्ञापकम् । Vasu English Summary -------------------- The affix अण् comes in the sense of 'what bears it' after the word शकट being in Accusative -2nd case construction. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'what bears it' after the word शकट being in Accusative -2nd case construction. Thus शकटं वहति = शाकटः 'an ox' i. e. what bears a car. This could be evolved by तस्येदम् अण् as शाकटस्य वोढ = शाकटः ॥ The specification indicates that *tadanta*-*vidhi* applies here, as द्वे शकटे वहति = द्वैशकटः, and the affix is not elided (4.1.88). Kashika ------- तद् वहतीत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति। शकटं वहति शाकटो गौः॥ Siddhanta Kaumudi ----------------- शकटं वहति शाकटो गौः ॥ Balamanorama ------------ **शकटादण्** - अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह — देवगारिक इति । Tattvabodhini ------------- **शकटादण्** - शाकटो गौरिति । ननुतस्येद ॑मित्यणा सिद्धम् । यौ हि शकटं वहति शकटस्यासौ भवति । अत्राहुः -आरम्भसामर्थ्यादत्र तदन्तविधिः । तेन द्वे शकटे वहति द्वैशकट इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयो लुङ् न भवति,तस्येद॑मित्यणि तु स्यादेव लुगिति । Padamanjari ----------- शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ?'तस्येदम्' इत्यण् भविष्यति, यो हि शकट्ंअ वहति शकटस्यासौ वोढा भवति ? तत्राहुः - आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ॥ Nyaas ----- रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्, **तस्येदम्** (4.3.120) इत्यनेनैव सिद्धत्वात्। शब्दभेदाद्विधानमिति चेदन्यो हि शब्दो रथं वहतीति, अन्यो हि रथस्य वोढेति। तदाऽर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात् सिद्धम्। न हि कश्चिद्रव्यमित्युक्ते रथस्यायमित्येवावैति, वहत्यर्थः प्रतीयते। तस्मात् स्यादेव रथाद्यत्॥बाल-मनोरमाशकटादण 1612, 4.4.80 शकटादण्। द्वितीयान्ताच्छकटशब्दाद्वहतीत्यर्थे अण् स्यादित्यर्थः। यतोऽपवादः। बाल-मनोरमाअगारान्ताट्ठन् 1601, 4.4.80 अगारान्ताट्ठन्। तत्र नियुक्त इत्येव। नित्त्वान्नादिवृद्धिः। तदाह -देवगारिक इति। Prakriyasarvasvam ----------------- शकटं वहन् शाकटः ॥