44079: एकधुराल्लुक् च ===================== **Padacheda:** एकधुरात् | S | 5 | 1 | लुक् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् एकधुरा-शब्दात् ख-प्रत्ययः भवति, तस्य च पक्षे लुक् भवति ।** 'एकधुरा' (= एकः भारः) अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति, तस्य च लुक् भवति । अस्मिन् सूत्रे 'च' इति उच्यते अतः 'ख-प्रत्ययः अपि भवति, पक्षे च लुक् अपि भवति' इति अर्थः अत्र स्वीक्रियते । 'यदि अत्र नित्यम् लुक् अभविष्यत्, तर्हि चकारस्य प्रयोजनम् नास्ति' एतत् मत्वा लुग्विधानम् विकल्पेन क्रियते । यथा - एकधुरां वहति सः = एकधुरा + ख → एकधुरीण । पक्षे लुक् - एकधुरां वहति सः एकधुरः (**लुक्तद्धितलुकि** (1.2.49) इति स्त्रीप्रत्ययस्य अपि लुक् भवति।) Vasu English Summary -------------------- The affix ख comes in the sense of 'what bears it' after the word एकधुरा being in Accusative -2nd case construction, the affix is optionally elided too. Vasu English Translation ------------------------ The affix ख comes in the sense of 'what bears it' after the word एकधुरा being in Accusative -2nd case construction, the affix is optionally elided too. The elision is optional. Thus एकधुरां वहति = एकधुरीणः or एकधुरः ॥ The compounding is *taddhitartha* (एकां धुरं वहति) to which is added the *samasanta* अ, and then the affix ख ॥ Kashika ------- तद् वहतीत्येव। एकधुराशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति। वचनसामर्थ्यात् पक्षे लुग् विधीयते। एकधुरां वहति एकधुरीणः। एकधुरः॥ Siddhanta Kaumudi ----------------- एकधुरां वहति एकधुरीणः । एकधुरः ॥ Balamanorama ------------ **एकधुराल्लुक् च** - एकधुराल्लुक् च । एकधुराशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः । एकधुर इति । एकधुरां वहतीत्यर्थः । Tattvabodhini ------------- **एकधुराल्लुक् च** - एकधुराल्लुक् च । चात्खः । एवं च प्राकरणिकस्य यतो लुक्, खस्य तु विधानसामर्थ्याच्छ्रवणमिति फलितं, तदाह -एकधुरीण इत्यादि । Padamanjari ----------- एकधुरादिति निर्देशः सर्वधुरादित्यनेन व्याख्यातः । चकारेण खोऽनुकृष्यते, तेन स तावद्विधेयः, प्रत्ययादर्शनस्य च लुक् संज्ञा । न चान्योऽत्र प्रत्ययः, तेन खस्यैव लुग्विज्ञायते, तस्य यदि लुक् स्याच्चकारेणानुकृष्य विधानमनर्थकं स्यात् । एकधुराल्लुगिति वक्तव्यम्, लुक् स्वभावादनन्तरस्व खस्य प्राकरणिकस्य यतो वा विधिरनुमास्यते, तदाह - तस्य च तुग्भवतीति एकधुरीण इति । एकां धुरं वहतीति तद्धितार्थे समासः, तत्रोक्तोऽकारः समासान्तः, ततः खः ॥ Nyaas ----- `एकधुरात्` इत्ययमपि शब्दरूपापेक्षया निर्देशः। अर्थापेक्षया हि परवल्लिङ्गता भवति। अत्रापि पूर्ववत् समाससमासान्तौ वेदितव्यौ। वचनसामर्थ्यात्पक्षे लुग्विधीयते। यदि हि नित्यो लुक् स्यात्, खस्य विधानमनर्थकं स्यात्, यत एव हि लुकं विदध्यात्।ननु चैकधुरशब्दात् केनचिद्विहितो न स्यात्, तस्य कथं लुक् शक्यते विज्ञातुम्? लुग्वचनादेव यतोऽपि विधिरनुगम्यत इत्यदोषः॥ Prakriyasarvasvam ----------------- अस्मात् खो लुक् च । एकधुरीणः । एकधुरः ॥