44057: प्रहरणम् =============== **Padacheda:** प्रहरणम् | S | 1 | 1 | Sutrartha --------- **'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।** प्रहरणम् इत्युक्ते शस्त्रम् । प्रथमासमर्थात् प्रहरणवाचिशब्दात् 'अस्य अस्ति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. दण्डः प्रहरणमस्य सः दाण्डिकः । दण्ड + ठक् → दाण्डिक । 2. चक्रं प्रहरणमस्य च चाक्रिकः । 3. धनुः प्रहरणमस्य सः धानुष्कः । प्रक्रिया इयम् - धनुस् + ठक् [यद्यपि प्रातिपदिकस्य दृश्यरूपम् 'धनुष्' इति अस्ति, तथापि **आदेशप्रत्यययोः** (8.3.59) इत्यनेन विधीयमानं 'षत्वम्' त्रिपादीकार्यमस्ति , अतः अत्र असिद्धम् ज्ञातव्यम् ।] → धनुस् + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → धानुस् + क [**किति च** (7.2.118) इति आदिवृद्धिः] → धानुरुँ + क [**स्वादिष्वसर्वनामस्थाने** (1.4.17) इति अङ्गस्य पदसंज्ञा । **ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → धानुः + क [**खरवसानयोर्विसर्जनीयः** (8.3.14) इति विसर्गः] → धानुष् + क [**इणः षः** (8.3.39) इति विसर्गस्य षकारः] → धानुष्क ज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे **तदस्यां प्रहरणम् इति क्रीडायां णः** (4.2.57) इति कश्चन अर्थः विधीयते । अस्मिन् अर्थे प्रहरणवाचिशब्दात् क्रीडायाः निर्देशं कर्तुम् 'ण'-प्रत्ययः भवति । यथा - दण्डं प्रहरणमस्यां क्रीडायाम् सा दाण्डा क्रीडा । वर्तमानसूत्रे तु प्रहरणधारिणः निर्देशः क्रियते, न तु क्रीडायाः । यथा, दण्डं प्रहरणमस्य राज्ञः सः दाण्डिकः राजा । द्वावपि अर्थौ भिन्नौ स्तः एतत् स्मर्तव्यम् । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'this is whose weapon' after a word denoting 'a weapon' and being in the Nominative 1st-Case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'this is whose weapon' after a word denoting 'a weapon' and being in the Nominative 1st-Case in construction. Thus असिः प्रहरणमस्य = आसिकः 'a swordsman'. So प्रासिकः, चाक्रिकः, धानुष्कः ॥ Kashika ------- तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणमस्य आसिकः। प्रासिकः। चाक्रिकः। धानुष्कः॥ Siddhanta Kaumudi ----------------- तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ Laghu Siddhanta Kaumudi ----------------------- तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥ Balamanorama ------------ **प्रहरणम्** - प्रहरणम् ।तदस्ये॑त्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्यियतेऽनेनेति प्रहरणम्ायुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः । Tattvabodhini ------------- **प्रहरणम्** - प्रहरणम् । प्रह्यियते अनेनेति प्रहणमायुधम् । धानुष्क इति ।इसुसुक्तान्तात्कः॑ ।इणः षः॑इति विसर्गस्य षः । Padamanjari ----------- प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् ॥ Nyaas ----- `धानुष्कः` इति। कादेशः `इणः षः` (8.3.39) इति विसर्जनीयस्य षत्वम्॥ Prakriyasarvasvam ----------------- तदस्यायुधमित्यर्थे ठक् स्याच्चाक्रिक आसिकः । Sutra Prayogas -------------- * **धानुष्कस्य** (शिशुपालवधम्): `प्रहरणम्` इति ठक्। * **खाड्गकः** (भट्टिकाव्यम्): `प्रहरणं` इति ठक्।