44047: तस्य धर्म्यम् ==================== **Padacheda:** तस्य | S | 6 | 1 | धर्म्यम् | S | 1 | 1 | Sutrartha --------- **'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति ।** 'धर्म्यः' इत्युक्ते 'आचरणयोग्यः' । 'धर्म'शब्दात् **धर्मपथ्यर्थन्यायादनपेते** (4.4.92) इत्यनेन यत्-प्रत्ययं कृत्वा 'धर्म्य' इति शब्दः सिद्ध्यति । यत् वर्तनमाचरणयोग्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - 1. आपणस्य धर्म्यम् = आपण + ठक् → आपणिकम् । आपणे आचरणयोग्यम् यत् कार्यम्, तत् 'आपणस्य धर्म्यम्' अस्ति इत्युच्यते, अतः तस्य निर्देशः 'आपणिकम्' इत्यनेन क्रियते । 2. शुल्कशालायाः धर्म्यम् = शुल्कशाला + ठक् → शौल्कशालिकम् । शुल्कशालायां आचरणयोग्यः व्यवहारः इत्यर्थः । 3. आकरस्य धर्म्यम् = आकर + ठक् → आकरिक । 'आकर' इत्युक्ते शुक्लशाला इत्येव । Vasu English Summary -------------------- The affix ठक् comes after a word in the Genitive -6th-Case in construction in the sense of 'its usage'. Vasu English Translation ------------------------ The affix ठक् comes after a word in the Genitive -6th-Case in construction in the sense of 'its usage'. The word धर्म्यं means 'usual,' 'relating to custom'. The word तस्य shows the case of the word. Thus शुल्कशालाया धर्म्यं = शौल्कशालिकः 'the custom-house laws or usages.' So also आकरिकम्, आपणिकम्, गौल्मिकम् ॥ Kashika ------- तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। धर्म्यं न्याय्यम्, आचारयुक्तमित्यर्थः। शुल्कशालाया धर्म्यं शौल्कशालिकम्। आकरिकम्। आपणिकम्। गौल्मिकम्॥ Siddhanta Kaumudi ----------------- आपणस्य धर्म्यमापणिकम् ॥ Balamanorama ------------ **तस्य धर्म्यम्** - तस्य धम्र्यम् । धर्मदनपेतं धम्र्यम्, आचरितुं योग्यमित्यर्थः । धम्र्यमित्यर्थे षष्ठन्ताट्ठगित्यर्थः । Tattvabodhini ------------- **तस्य धर्म्यम्** - धम्र्यमिति । धर्मादनपेतं धम्र्यम् ।धर्मपथ्यर्थन्यायादनपेते॑इति यत् । Padamanjari ----------- धर्मः उ अनुवृत आचारः, ततोऽनपेतं धर्म्यम्,'धर्मपथ्यर्थन्यायादनपेते' इति वचनात्। दौवारिकमिति ।'द्वारादीनां च' इति वृद्धिप्रतिषेधः, ऐजागमश्च ॥ Prakriyasarvasvam ----------------- तस्याचारप्राप्तमित्यर्थे ठक् । आपणस्य धर्म्यमापणिकम् मुनेर्धर्म्यं मौनिकम् ।।