44039: पदोत्तरपदं गृह्णाति ========================== **Padacheda:** पद-उत्तरपदम् | S | 2 | 1 | गृह्णाति | T | | | Sutrartha --------- **'पद' यस्य उत्तरपदमस्ति, तादृशात् द्वितीयासमर्थात् 'गृह्णाति' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।** यस्य शब्दस्य उत्तरपदं 'पद' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'गृह्णाति' (= स्वीकरोति) अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. पूर्वपदं गृह्णाति तत् पौर्वपदिकम् सूत्रम् । 2. उत्तरपदं गृह्णाति सः औत्तरपदिकः सिद्धान्तः । एतयोः उदाहरणयोः 'पूर्वपद' तथा 'उत्तरपद' एतौ शब्दौ पदस्य विभागद्वयं निर्दिशतः । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'who takes' after a word having पद as its second member, the word being in the Accusative -2nd case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'who takes' after a word having पद as its second member, the word being in the Accusative -2nd case in construction. Thus पूर्वपदं गृह्णाति = पौर्वपदिकः, so also औत्तरपदिकः ॥ The word उत्तरपद is used in order to prevent the application of the rule when पद is preceded by the affix बहु ॥ Kashika ------- पदशब्द उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदान्तादिति नोक्तम् — बहुच्पूर्वान् मा भूदिति॥ Siddhanta Kaumudi ----------------- पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥ Balamanorama ------------ **पदोत्तरपदं गृह्णाति** - पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः । Padamanjari ----------- पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह - पदशब्द उतरपदं यस्येति ॥ Nyaas ----- पदग्रहणेन स्वरूपमेव गृह्रते, न सुप्तिङन्तं पदम्। अत एवाह - `पदशब्द उत्तरपदं यस्य` इति। एतच्च द्वितीयायां लौकिकरवाक्यप्रदर्शनार्थत्वाद्द्वितीयानिर्देशाल्लभ्यते। पदोत्तरपदं गृह्णातीत्येतल्लौकिकं वाक्यम्। अस्य प्रदर्शनेनैतत् सूचितम् - लौकिकस्य हि पदस्य ग्रहणम्, न पारिभाषिकस्येति।अथ पदान्तादित्येव कस्मान्नोक्तम्? इत्याह - `पदान्तादिति नोक्तम्` इत्यादि। गतार्थम्। पदमेवोत्तरपदं यस्य तस्माद्यथा स्यात्। इह तु श्लोकपादपदं गृह्णातीति भवतीति केचित्॥ Prakriyasarvasvam ----------------- पदोत्तरपदात् तद् गृह्णातीत्यर्थे ठक् । सन्दिग्धपदं गृह्णन् सान्दिग्धपदिकः ॥