44021: अपमित्ययाचिताभ्यां कक्कनौ ================================ **Padacheda:** अपमित्य-याचिताभ्याम् | S | 5 | 2 | कक्-कनौ | S | 1 | 2 | Sutrartha --------- **'निर्वृत्तम्' अस्मिन् अर्थे 'अपमित्य'शब्दात् कक्-प्रत्ययः, यथा 'याचित'शब्दात् कन्-प्रत्ययः भवति ।** 'अपमित्य' इति 'अप + माङ्' इत्यस्य ल्यप्-प्रत्ययान्तरूपम् । 'व्यतिहारं / विनिमयं कृत्वा' इति तस्य अर्थः । 'याचित' इति 'याच' धातोः क्त-प्रत्ययान्तरूपम् । 'याचनां कृत्वा प्राप्तम्' इति तस्य अर्थः । 'अपमित्य' तथा 'याचित' एताभ्याम् शब्दाभ्याम् 'निर्वृत्तम्' अस्मिन् अर्थे क्रमेण कक् तथा कन्-प्रत्ययौ भवतः । यथा - 1. अपमित्य निर्वृत्तम् तत् = अपमित्य + कक् → आपमित्यक । 2. याचितेन निर्वृत्तम् तत् = याचित + कन् → याचितक । ज्ञातव्यम् - 1. 'अपमित्य' इति अव्ययमस्ति, अतः तस्मात् विहितस्य तृतीयायाः प्रत्ययस्य **अव्ययादाप्सुपः** (2.4.82) इत्यनेन लुक् भवति । अतएव विग्रहवाक्ये 'अपमित्य निर्वृत्तम्' इत्येव उच्यते । 2. वस्तुतः 'याचित'शब्दात् कक्-प्रत्ययं कृत्वा अपि 'याचितक' इत्येव रूपं सिद्ध्यति । परन्तु स्वरविशेषं दर्शयितुम् 'कन्' इति नित्-प्रत्ययस्य विधानं क्रियते । **ञ्नित्यादिर्नित्यम्** (6.1.197) अनेन सूत्रेण 'नित्' प्रत्यये परे समुदायस्य आदिस्वरः उदात्तः जायते । यथा, कन्-प्रत्ययान्तस्य 'याचितक'शब्दस्य आदिस्वरः आकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । यदि अत्र 'कक्' प्रत्ययः अभविष्यत्, तर्हि **कितः**(6.1.165) इत्यनेन समुदायस्य अन्तिमस्य स्वरस्य उदात्तत्वे प्राप्ते समुदायस्य आदिस्वरः **अनुदात्तं पदमेकवर्ज्यम्** (6.1.158) इत्यनेन अनुदात्तः अभविष्यत् । तत् तथा मा भूत्, इति निर्देशयितुम् कन्-प्रत्ययः अत्र प्रोच्यते । Vasu English Summary -------------------- The affixes कक् and कन् come respectively after the words 1. अपमित्य and 2. याचित when the sense is that of completion. Vasu English Translation ------------------------ The affixes कक् and कन् come respectively after the words 1. अपमित्य and 2. याचित when the sense is that of completion. Thus आपमित्यकम् 'debt', and याचितकम् 'a thing begged for use'. The word अपमित्य is formed from the root मा with the prefix अप, and the suffix क्त्वा (3.4.19). The क्त्वा is changed to ल्यप्, and इ substituted for आ (6.4.70). The word is an Indeclinable, and therefore the *anuvritti* of तेन does not run here. Kashika ------- निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासंख्यं कक् कन् इत्येतौ प्रत्ययौ भवतो निर्वृत्त इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्॥ Siddhanta Kaumudi ----------------- अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥ Balamanorama ------------ **अपमित्ययाचिताभ्यां कक्कनौ** - अपमित्ययाचिताभ्याम् । ल्यबन्धमिति । 'मेङ् प्रणिदाने' इत्यस्यमादिंवनिमयार्थकात्उदीचां माहो व्यतिहारे॑ इति क्त्वाप्रत्यये गतिसमासे ल्यपिमयतेरिदन्यतरस्या॑मिति इत्त्वेह्रस्वस्य पिती॑ति तुगागमे अपमित्येत्यव्ययम्, 'क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते । Tattvabodhini ------------- **अपमित्ययाचिताभ्यां कक्कनौ** - अपमित्येति ।उदीचां माङः॑इति क्त्वाप्रत्यनेन सह गतिसमासः । क्त्वो ल्यप् ।मयतेरिदन्यतरस्या॑मिति इत्त्वम् ।ह्रस्वस्ये॑ति तुक् । ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किन्तु वचनात्प्रथमान्तादेव । Padamanjari ----------- अपमित्येति । ठुदीचां माङे व्यतिहारेऽ इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्,'मयतेरिदन्यतरस्याम्' इतीत्वम्,'क्त्वातोसुन्कसुनः' इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ॥ Nyaas ----- `अपमित्य` इति। **उदीचां माङो व्यतीहारे** (3.4.19) इति क्त्वा, तस्य ल्यबादेशे कृते,अपमित्येति भवति। तस्य च **क्त्वातोसुन्कसुनः** (1.1.40) इत्यव्ययसंज्ञा। तेन तृतीयासमर्थविभक्त्याधिकारेऽप्यविभक्तिकादेवास्मात् प्रत्ययविधिः॥ननु च **संस्कृतम्** (4.4.3) इत्येव संसृष्टे प्रत्यययो भविष्यति, यत् पुनर्येन संसृष्टं तत्तेन संस्कृतं भवति? नैतत्; सतो ह्रुत्कर्षाधानं संस्कारः,एकभावः संसर्गः। न च तत्रोत्कर्षेण भवितव्यम्, स्वशुचिद्रव्यसंसर्गे स्वप्रकर्ष एव भवति, नोत्कर्षः। संसर्गमात्रे प्रत्यय इष्यते; तस्मात् संसृष्ट इति वक्तव्यमेव; एतदेव क्रियताम्; किं **संस्कृतम्** (4.4.3) इत्यनेन? असत्यपि संसर्गे यत्र संस्कृतमस्ति तत्रापि प्रत्यय इष्यते - वैद्यिकः, न विद्यया संसर्ग उपपद्यते; संसर्गो द्रव्ययोरेव भवति, यथा -दण्डपुरुषयोः। मूर्तिमतस्तद्धर्मत्वात्, रन तु विद्या मूर्त्तिमती। कुलत्थकोलधादणो (4.4.4) विधानार्थं संस्कृतग्रहणं कर्तव्यम्। न हि संसृष्टमात्रे प्रत्यय इष्यते; किन्तु तत्कृतगुणाधाने॥ Prakriyasarvasvam ----------------- ककि-अपमित्य निवृत्तम् आपमित्यकम् । कनि-याचितकम् ॥