44015: हरत्युत्सङ्गादिभ्यः ========================== **Padacheda:** हरति | T | | | उत्सङ्गादिभ्यः | S | 5 | 3 | Sutrartha --------- **'हरति' अस्मिन् अर्थे उत्सङ्गादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः ठक्-प्रत्ययः भवति ।** उत्सङ्गादिगणे पाठितेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति (= अन्यत्र नयति, हरणं करोति)' अस्मिन् अर्थे ठक् प्रत्ययः कर्तव्यः । यथा - उत्सङ्गेन हरति सः = उत्सङ्ग + ठक् → उत्सङ्ग + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → औत्सङ्ग + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → औत्सङ्ग् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → औत्सङ्गिक उत्सङ्गादिगः अयम् - 1. उत्सङ्ग - उत्सङ्गेन हरति सः औत्सङ्गिकः । 2. उडुप - उडुपेन हरति सः औडुपिकः । 3. उत्पत - उत्पतेन हरति सः औत्पतिकः । 4. पिटक - पिटकेन हरति सः पैटकिकः । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'he conveys thereby' after the words उत्सङ्ग etc. being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'he conveys thereby' after the words उत्सङ्ग etc. being in the Instrumental -3rd case in construction. The word हरति means 'to take away to or cause to reach another place'. Thus औत्सङ्गिकः 'borne upon the hip'. औडुपिकः 'borne or transported on a raft'. 1 उत्सङ्ग 2 उडुप्, 3 उत्पुत (उत्पत), 4 उत्पन्न, 5 उत्पुट, 6 पिटक, 7 पिटाक, 8 उडप. Kashika ------- तेनेत्येव। उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर्देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः॥ उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः॥ Siddhanta Kaumudi ----------------- उत्सङ्गेन हरत्यौत्सङ्गिकः ॥ Balamanorama ------------ **हरत्युत्सङ्गादिभ्यः** - हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः । Tattvabodhini ------------- **हरत्युत्सङ्गादिभ्यः** - हरत्युत्सङ्गादिभ्यः । एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सङ्ग , उडुप, उत्थित, पिटक, पिटाक । Padamanjari ----------- हरति उ नयति, उपादते वा ॥ Prakriyasarvasvam ----------------- एभ्यस्तेन हरतीत्यर्थे ठक् । उत्सङ्गेन नयत्युपादत्ते वेत्यौत्सङ्गिकः । औडुपिकः ॥