44002: तेन दीव्यति खनति जयति जितम् ================================== **Padacheda:** तेन | S | 3 | 1 | दीव्यति | T | | | खनति | T | | | जयति | T | | | जितम् | S | 1 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'दीव्यति', 'खनति', 'जयति' तथा 'जितम्' एतेषु अर्थेषु ठक्-प्रत्ययः भवति ।** अस्मिन् सूत्रे चत्वारः शब्दाः दत्ताः सन्ति - दीव्यति ( इत्युक्ते द्युतक्रीडां करोति), खनति (इत्युक्ते छेदनम् / खननम् करोति), जयति (विजयं प्राप्नोति), तथा जितम् (विजयः प्राप्तः) । एतेषु सर्वेषु अर्थेषु तृतीयासमर्थात् 'ठक्' इति प्रत्ययः विधीयते ।एतेभ्यः आदीनि त्रीणि पदानि कर्तरि-प्रयोगे सन्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्तुः निर्देशं करोति । 'जितम्' अयम् चतुर्थः शब्दः कर्मणि प्रयोगे अस्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्मपदस्य निर्देशं करोति । उदाहरणानि एतानि - 1. अक्षैः दीव्यति सः आक्षिकः । यथा - आक्षिकः युधिष्ठिरः । 2. अभ्र्या खनति सः आभ्रिकः । यथा - आभ्रिकः घटकारः । 3. अक्षैः जयति सः आक्षिकः । यथा - आक्षिकः शकुनिः । 4. अक्षैः जीतम् तत् आक्षिकम् । यथा - आक्षिकम् राज्यम् । एतेषां सर्वेषां प्रक्रिया समाना एव अस्ति । यथा - अक्ष + ठक् → अक्ष + इक [ठक् प्रत्ययस्य **ठस्येकः** (7.3.50) इत्यनेन इक्-आदेशः] → आक्ष + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → अक्ष् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → आक्षिक ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'तेन' इति तृतीयासमर्थः शब्दः करणस्य (= साधनस्य) निर्देशं करोति । अतः 'देवदत्तेन जितम्' आदिषु वाक्येषु वर्तमानसूत्रस्य प्रयोगः न क्रियते । 2. यद्यपि अस्मिन् सूत्रे 'दीव्यति, खनति, जयति' इत्यत्र लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रयोगः कृतः अस्ति, तथाप्यत्र सङ्ख्यायाः उत कालस्य विवक्षा नास्ति । इत्युक्ते, 'अक्षैः दीव्यन्ति', 'अभ्रिभ्यामखनत्' 'अक्षेण जेष्यसि' एतादृशेषु वाक्येषु अपि वर्तमानसूत्रस्य प्रयोगं कर्तुं शक्यते । Sutrartha (English) ------------------- The ठक् प्रत्यय is attached to a तृतीयासमर्थ instrument to indicate (1) a person who gambles, (2) A person who digs, (3) A person who wins, (4) An entity that is won. Vasu English Summary -------------------- The affix ठक् comes after a word in the Instrumental -3rd case in construction in the sense of 'he plays', 'he digs', 'he conquers' or 'he is conquered'. Vasu English Translation ------------------------ The affix ठक् comes after a word in the Instrumental -3rd case in construction in the sense of 'he plays', 'he digs', 'he conquers' or 'he is conquered'. Thus अक्षैर्दीव्यति = आक्षिकः 'who plays with dice -- a dicer'. शालाकिकः ॥ अभ्र्या खनति = आभ्रिकः, कौद्दालिकः, अक्षैर्जयति = आक्षिकः, अक्षैर्जितं = आक्षिकम् ॥ शालाकिकम् ॥ Though the rule is couched in universal terms, yet the affix does not come after every instrumental case. Thus देवदत्तेन जितम् will not give rise to any affix, for the word दैवदक्तिकः is not found in usage having this sense. So also अंगुल्या खनति gives rise to no affix. Though the verbs '*divyati*' &c, are in the 3rd Person Present Tense, Singular number, the derivative is not limited by these conditions. Thus आक्षिकौ and आक्षिकाः what are also valid, and so also अक्षैरदीव्यत् will give also आक्षिकः; so also आक्षिकस्त्वम् आक्षकोहम् ॥ Though in a sentence the verb is generally the principal word (क्रियाप्रधान), here owing to the *Taddhita* affix, the instrument is taken as the principal. Kashika ------- तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक् प्रत्ययो भवति। अक्षैर्दीव्यति आक्षिकः। शालाकिक ः। अभ्र्या खनति आभ्रिकः। कौद्दालिकः। अक्षैर्जयति आक्षिकः। अक्षैर्जितम् आक्षिकम्। शालाकिकम्। सर्वत्र करणे तृतीया समर्थविभक्तिः। देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात्। अङ्गुल्या खनतीति च। प्रत्ययार्थे संख्याकालयोरविवक्षा। क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधानः॥ Siddhanta Kaumudi ----------------- अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥ Laghu Siddhanta Kaumudi ----------------------- अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥ Balamanorama ------------ **तेन दीव्यति खनति जयति जितम्** - तेन दीव्यति । तेन दीव्यति, तेन खनति, तेन जयति, तेन जितमिति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । पारदारिक इति परदारान्गच्छतीत्यर्थः । अभ्रिः=कुद्दालः ।देवदत्तेन जित॑मित्यत्र तु न ठक्, करणतृतीयान्तादेव तद्विधेः । Tattvabodhini ------------- **तेन दीव्यति खनति जयति जितम्** - तेन दीव्यति । इह कालपुरुषसङ्ख्या न विवक्षिताः, तेनाक्षैरदेवीत् देविष्यति वा आक्षिक इति भवति । एवमक्षैर्देविष्यसि देविष्यामि वा आक्षिकः, दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः । कारकं तु विवक्षितमेव,जयति, जित॑मिति कर्तृकर्मणोः पृथगुपादानात् । तेनाक्षैद्र्यूतः, अक्षैः खात इति कर्माद्यर्थे आक्षिक इति न भवति । अभ्र्येति ।अभ्रिः स्त्री काष्ठकुद्दालः॑इत्यमरः । Padamanjari ----------- सर्वत्र करणे तृतीयेति । दीव्यत्यादावभिहितत्वात्कर्तरि तृतीया नोपपद्यत इति तत्साहचर्याज्जितमित्यनेनापि योगे करण एव तृतीयेति सर्वशब्दार्थः । तेन देवदतेन न जितमित्यत्र न भवति । हेतुतृतीया तु नाशङ्किता; अनभिधानात् । न हि हेतुतृतीयान्तावुत्पद्यमानेन ठका विग्रहवाक्यार्थस्याभिधानमस्ति । प्रत्ययार्थ इति । निर्द्धारण एषा सप्तमी, सामान्यापेक्षमेकवचनम् । इह दीव्यतीत्यादौ तिपो बहवोऽर्थाः - एकत्वसङ्ख्या, वर्तमानकाले, युष्मदस्मद्व्यतिरेक इति, तेषु मध्य इत्यर्थः । तदेव दर्शितम् । सङ्ख्याकालयोरविवक्षेति । नान्तरीयकत्वात् । अवश्यं हि यया कयाचित्सङ्ख्य्या येन केनचित्कालेन निर्देश इति तयोरुपादानम्, न तु तयोर्विवक्षा । तत आक्षिकौ आक्षिका इति द्विबह्वोरपि भवति, अक्षैरदीव्यदित्यादौ कालान्तरे चाक्षिक इति भवति, न्यायस्य तुल्यत्वात् पुरुषस्याप्यविवक्षा, तेनाक्षिकस्त्वम्, आक्षैकोऽहमित्यत्रापि भवति । यथैव तर्हि सङ्ख्याकालपुरुषाणामविवक्षा तथा कर्तुरपि प्राप्नोति, एकप्रत्ययवाच्यत्वात् ? नैष दोषः; कर्तुरविवक्षायामाख्यातोपादानमकिञ्चित्करं स्यात् । विपर्ययस्तु न भवति - कर्तुरविवक्षा कालादीनां विवक्षेति; कर्तुः प्रधानत्वात् । सङ्ख्यादिविशिष्टो हि कर्ताऽऽख्यातानां प्रधानभूतोऽर्थः, तेन स तावद्विवक्ष्यते, इतरेषां नान्तरीयकत्वादविवक्षा । किञ्च, साधनस्याप्यविवक्षायां जितमित्यस्योपादानमनर्थं स्यात् । इहाख्यातेषु क्रिया प्रधानभूता, गुणभूतः कर्ता, अत एव किं करोति देवदत इति क्रियाप्रश्ने पचतीत्याख्यातेनोतरं दीयते, न तु कृदन्तेन पाचक इतिः तस्य सत्वप्रधानत्वात् । किञ्च, यदि कृदन्तेष्विवाख्यातेष्वपि कर्ता प्रधानभूतः स्याद्, यथा पाचकस्यापत्यमित्यपत्यादिभिर्योगो भवति, तथाऽऽख्यातवाच्यस्यापि स्यात् पचत्ययमिति, क्रियावेशः स्याद्, यथा - पाचकस्तिष्ठतीति । तस्मात्क्रियाप्रधानमाख्यातम् । ततश्च तद्रथे विधीयमानः प्रत्ययोऽपि क्रियाप्रधानः स्यादिति तदन्तस्यापत्यादिभिर्योगः क्रियावेशश्च न स्यात् - आक्षिकस्यापत्यमाक्षिकं पश्येति । तत्राह - क्रियाप्रधानत्वेऽपि चाख्यातस्येति । आख्यायतेऽनेन क्रिया प्रधानभूतेत्याख्यातस्तिङ्न्तः,'कृत्यल्युटो बहुलम्' इति करणे क्तः, स्वनिकायप्रसिद्धिरेषा । स्वभावादिति । यथा'तेनैकदिक्' ,'तसिश्च' इत्येतस्मिन्नर्थे विधीयमानयोरण्तयोस्सत्वभूतार्थाभिधायित्वम्, विपर्ययश्च - सौदामनी विद्यौत्सुदामतो विद्यौदिति, तथात्रापि । न हि स्वभावः पर्यनुयोगमर्हति ॥ Nyaas ----- `तेन` इति प्रत्येकमभिसम्बध्यते। `सर्वत्र करणे तृतीया` इति। दीव्यतीत्यादौ कर्तरि लकार इति तेनैव कर्त्तुरभिहितत्वात् कर्तरि तृतीया नोपपद्यते। तस्मात् करण एव तृतीया। अथ हेतौ तृतीया कस्मान्न भवति? अनभिधानात्। जितमित्यत्र कर्मणि निष्ठाविधानाद्यद्यपि कर्तर्यपि तृतीया सम्भवति, तथापि दीव्यतीत्यादिभिः साहचर्यात् करण एव तृतीया विज्ञायते। देवदत्तेन जितमित्यत्र कर्तरि तृतीया; तेन वाक्यमेव भवति; न प्रत्ययः।इह सूत्रे दीव्यतीत्यादिनैकवचनान्तेनैकसंख्यस्य प्रत्ययार्थस्य वर्तमानेन च कालेन निर्देशः। ततश्चैकस्मिन्नेव प्रत्ययार्थे प्रत्यय स्यात्, न द्विबह्वोः। तथा वर्तमान एव काले, न भूतभविष्यतोरिति यश्चोदयेत्, तं इत्याह - `प्रत्ययार्थे संख्याकालयोरविवक्षा` इति। अविवक्षातु तयोर्नान्तरीयकत्वात्। अवश्यं हि यया कयाचित् संख्यया येन केनचित् कालेन निर्देशः कर्तव्य इति। न तौ प्रधानम्, न च तयोर्विवक्षेति। यदि तर्हि संख्याकालयोरविवक्षेति साधनस्याप्यविवक्षा प्राप्नोति, एकप्रकरणत्वात्? नैष दोषः; यस्य हि विवक्षामन्तरेम द्वितीयस्य पदस्योच्चारणमनर्थकं भवति तन्नियोगतो विवक्षितव्यम्। दीव्यतीत्यादिष्वन्वर्थमात्रे विवक्ष्यमाणे द्वितीयस्य पदस्योच्चारणमनर्थकमापद्येतेति न युक्ता साधनस्याप्यविवक्षा।इह दीव्यतीत्येवमादौ `क्रियाप्रधानमाख्यातम्` इति क्रियैव पदेन प्राधान्येनाख्यायते, कर्ता तु गुणीभूतः, तद्धितस्तु -आक्षिक इति प्राधान्येन कर्तारमेवात्र वक्ति, क्रिया तु गुणभावेन, एतच्चायुक्तम्; आख्यातेषूत्पन्नैः प्रत्ययैर्यथाऽसौ तिङन्तेनाभिधीयते, तथैव प्रत्ययान्तेनापि युक्तोऽभिधातुमिति यश्चोदयेत्, इत्याह - `क्रियाप्रधानत्वेऽपि च` इत्यादि। अभिधानस्वभावश्चायम्, येन क्रियाप्राधान्यस्याप्यनुविधीयमानस्तद्धितः कर्त्तुप्रधानो भवति। तस्मात् कर्त्तृत्वभावोऽत्रापेक्षितव्यः। न हि स्वभावोऽपि न हि स्वाभावोऽपि पर्यनुयोगमर्हति॥ Prakriyasarvasvam ----------------- तेनेति करणार्थेभ्यो दीव्यतीत्याद्यर्थे ठक् स्यात् । अक्षैर्दीव्यन्नाक्षिकः । तर्कैर्दीव्यति व्यवहरतीति तार्किकः । एवं प्रामाणिकः । कुद्दालेन खनन् कौद्दालिकः । अस्त्रैर्जयन्नास्त्रिकः । अस्त्रैर्जितमप्यास्त्रिकं राज्यम् । शत्रुणा जितमित्यत्र करणार्थ- त्वाभावान्न । नञ्स्नञोर्भवनावधित्वादिहापि स्तः । स्त्रिया दीव्यन् स्त्रैणः । ‘तदाहेति माशब्दादिभ्यष्ठक् वाच्यः’ (वा० ४-४-१) । माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यशब्दिकः । स्वस्तीत्याह सौवस्तिकः । स्वर्गमनमाह सौवर्गमनिकः । द्वारादौ । ‘आहार्थे प्रभूतादिभ्यः’ (वा० ४-४-१) । क्रियाविशेषणा- देव प्रभूतादेरेतत् । प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । ‘पृच्छतौ सुस्नातादिभ्यः’ (वा० ४-४-१) । सुस्नातं पृच्छन् सौस्नातिकः । सौखरात्रिकः । अनुशतिकादित्वात् सौखशायनिकः । स्वागतिकः । अत्रैचि प्राप्ते ‘स्वगतादीनां च’ (७-३-७) इति न । ‘गच्छतौ परदारादिभ्यः’ (वा० ४-४-१) । परदारान् गच्छन् पारदारिकः । पारतल्पिकः । गौरुतल्पिकः । जान्ययात्रिकः ॥