43150: द्व्यचश्छन्दसि ===================== **Padacheda:** द्वि-अचः | S | 5 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) after a disyllabic word the affix मयट् comes in the sense of 'product or part'. Vasu English Translation ------------------------ In the छन्दस् (Vedas) after a disyllabic word the affix मयट् comes in the sense of 'product or part'. This ordains मयट् in the sacred literature also, secular literature being dealt with in (4.3.143). Thus पर्णमयः, दर्भमयः, शरमयः in the following यस्य पर्णमयी जुहूर्भवति, दर्भमयम् वासो भवति, शरमयम् बर्हि र्भवति ॥ Kashika ------- द्व्यचः प्रातिपदिकाच् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य॑ पर्ण्ामयी॑ जु॒हूर्भव॑ति (तै० सं० ३.५.७.१)। दर्भ॒म॑यं॒ वा॑सो॒ भवति (मै०सं० १.११.८)। शरम॑यं बहि᐀्॑र्भवति (आ०श्रौ० ९.७.५)॥ Siddhanta Kaumudi ----------------- विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥ Nyaas ----- `मयडादीनामपवादः` इति। आदिशब्देनाञः।प्रकृतिभेदात् तयोर्बहुत्वस्य विवक्षित्वाद् द्वयोरपि बहुवचनम्। तत्र तालश्यामाकशब्दाभ्यां वृद्धलक्षणसय् मयटोऽपवादः। बर्हिणो विकारोऽवयवो वेति **प्राणिरजतादिभ्योऽञ्** (4.3.154) इत्यनेन बार्हिणशब्दोऽपि विकारावयवप्रत्यान्तः, तेन तस्मादञ् **ञितश्च तत्प्रत्ययात्** (4.3.155) इति प्राप्तस्याञोऽपवादः। शेषेभ्यस्त्विन्द्रालिशादिभ्योऽनुदात्तादिलक्षणस्याञः। लिशिदृशिभ्यामिन्द्र उपपदे `कप्रकरणे मूलविभुजादिब्य उपसंख्यानम्` (वा।232) इति कप्रत्ययः। **अन्येषामपि दृश्यते** (6.3.137) इति दीर्घत्वम्। **गतिकारकोपपदात् कृत्** (6.2.139) इति कृत्स्वरेणान्तोदात्तौ `इन्द्रालिशेन्द्रादृश` शब्दो। `इन्द्रा घु` शब्दः समासस्वरेणान्तोदात्तः। `चप सान्त्वने` (धातुपाठः-399) `पचाद्यच्` चपशब्दोऽन्तोदात्तः। पीयूक्षाशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्यादात्तः। यद्यप्यस्य टापि कृते `लघावन्ते` (फि।सू।2।42) नास्ति, प्राक्तु टापो विद्यत एव, तस्यामेवावस्थायां मध्योदात्तत्वं भवति।`तालाद्धनुषि` इति पठते। तालशब्दादण् प्रत्ययो भवति धनुष्यभिधेय इति। तालं धनुः, तालमयमन्यत्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; बार्हिशब्दाद्वृदिद्धिलक्षणो मयट् **ञितश्च तत्प्रत्ययात्** (4.3.155) इत्यणा बाधितः। तत्रारम्भसामर्थ्यादन्मयडेव स्यात्। `श्यामाक`-शब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः। तस्मात् **अनुदात्तादेरञ्** (4.2.44) । परत्वाद्वृद्धलक्षणेन मयटा बाधित इतिपुनरारम्भसामर्थ्यादञेव स्यात्। अण्ग्रहमादणेव भवति॥ Prakriyasarvasvam ----------------- द्व्यज्भ्यो विकारावयवयोरर्थयोर्मयट् स्यात् । यस्य पर्णमयी जुहूर्भवति ।