43143: मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ========================================= **Padacheda:** मयट् | S | 1 | 1 | वा | S | 0 | 0 | एतयोः | S | 7 | 2 | भाषायाम् | S | 7 | 1 | अ-भक्ष्य-आच्छादनयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix मयट् comes optionally after any base, in these two meanings of 'product' and 'part' in secular language when neither food nor clothing is spoken of. Vasu English Translation ------------------------ The affix मयट् comes optionally after any base, in these two meanings of 'product' and 'part' in secular language when neither food nor clothing is spoken of. Thus आश्ममयम् or आश्मनम् '(4.3.134)' or मूर्वामयं or मौर्वम् (4.3.135). Why do we say भाषायाम् 'in secular language'? Witness बैल्वः खादिरो वा यूपः स्यात् ॥ Why do we say 'when neither food nor clothing is spoken of '? Observe मौद्गः सूपः 'a soup made of kidney beans'. कार्पासम् आच्छादनम् ॥ Why the word एतयोः 'in those two meanings' is used in the *sutra*, when by context, the words विकार and अवयव were to be read into the *sutras* ? Its use indicates that the special affixes, such as taught in (4.3.135), (4.3.136) &c are replaced also by मयट् ॥ Thus कपोतमयम् or कापोतम् (4.3.135), लोहमयम् or लौहम् ॥ Bhashya ------- मयड्वैतयोर्भाषायामभक्षाच्छादनयोः (1712) (मयटोऽधिकरणम्) (आक्षेपभाष्यम्) किमर्थं मयड्वैतयोरित्युच्यते? (5537 समाधानवार्तिकम्॥ 1 ॥) - मयड्वैतयोर्वचनमपवादविषयेऽनिवृत्त्यर्थम् - (भाष्यम्) मयड्वैतयोरित्युच्यते, अपवादविषयेऽनिवृत्तिर्यथा स्यादिति। बिल्वमयम्, बैल्वम्॥ (5538 सिद्धान्तवार्तिकम्॥ 2 ॥) - एतयोरित्यर्थनिर्देशः - (भाष्यम्) एतयोरित्यर्थनिर्देशो द्रष्टव्यः। द्वेष्यं विजानीयात् -योगयोर्वा प्रत्यययोर्वेति। तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टे -एतयोरित्यर्थनिर्देश इति॥ Kashika ------- प्रकृतिमात्राद् वा मयट् प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोर्विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु। अश्ममयम्, आश्मनम्। मूर्वामयम्, मौर्वम्। भाषायामिति किम्? बैल्वः खादिरो वा यूपः (आप०श्रौ० १८.१.८) स्यात्। अभक्ष्याच्छादनयोरिति किम्? मौद्गः सूपः। कार्पासमाच्छादनम्। एतयोरित्यनेन किम्, यावता विकारावयवौ प्रकृतावेव ? ये विशेषप्रत्ययाः **प्राणिरजतादिभ्योऽञ्** (४.३.१५४) इत्येवमादयस्तद्विषयेऽपि यथा स्यात् — कपोतमयम् कापोतम्। लोहमयम्, लौहमिति॥ Siddhanta Kaumudi ----------------- प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥ Laghu Siddhanta Kaumudi ----------------------- प्रकृतिमात्रान्मयड् वा स्याद् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम्? मौद्गः सूपः। कार्पासमाच्छादनम्॥ Balamanorama ------------ **मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः** - मयड्वैतयोः । अधिकारादेवविकारावयवयोट॑रिति सिद्धेरेतयोरिति वचनमुक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थमिति भाष्ये स्पष्टम् । तेन विल्वमयं वैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह — प्रकृतिमात्रादिति । सर्वस्याः प्रकृतेरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम् । नलोपः । आश्मनमिति । कल्माषाङ्घ्रिर्नाम कस्चिद्राजा तत्पत्न्यां वसिष्ठेनोत्पदितोऽश्मक इति । अश्मन्शब्दात्स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः ।अ॑न्निति प्रकृतिभावान्न टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे' इति टिलोपः शङ्क्यः, तत्र पाषाणवाचनत्वेन प्रसिद्धस्याऽश्मन्शब्दस्यैव ग्रहणादिति भावः । Tattvabodhini ------------- **मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः** - मयड्वैतयोः । भाषायां किम् । खादिरो यूप इति वृत्तिकारः । ननु मयटो वैकल्पिकत्वात्सिद्धमिदमिति चेत् । अत्राहुः -वेदे बह्वचः परस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् ।द्व्यचश्छन्दसी॑ति सूत्रस्यद्व्यच एवे॑ति नियमार्थत्वे यद्यपीदं गतार्थं तथापिद्व्यचश्छन्दस्येवे॑ति विपरीतनियमशङ्कानिवृत्त्यर्थं भाषाग्रहणं कृतमिति । अधिकारादेव विकारावयवयोर्लाभे एतयोरिति वचनं ये विशेषप्रत्ययाःप्राणिरजतादिभ्यो॑ऽञित्येवमादयस्तद्विषयेऽपि यथा स्यादित्येवमर्थम् । कपोतमयं । लोहमयम् । इह । विकाररावयवाभ्यां सह प्रत्येकम्अभक्ष्याच्छदनयो॑रिति सम्बध्यते समासनिर्देसादतो यथासङ्ख्यं न । आश्मनमिति ।विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः॑इति वचनादस्मभेदशब्दे भेदशब्दस्य लोपे आश्मन्निति नान्तमवशिष्यते । तथा कल्मषाह्घ्रे राज्ञो भार्यायां मदयन्त्यां वसिष्ठेनोत्पादितः सुतोऽश्मको नाम, तत्र संज्ञात्वद्योतकस्य कप्रत्ययस्याऽभावे अश्मन्निति नाम भवति, तस्यावयवे आश्मनं, विकारेऽप्याश्मनमित्येव भवति । न चअश्मनो विकारे॑इति टिलोपः स्यादिति वाच्यं, प्रसिद्धतरत्वेन पाषाणवाचकस्यैव तत्र ग्रहीतुमुचितत्वात् । वस्तुतस्तुतस्येद॑मिति सामान्यविवक्षायां पाषाणवाचकस्याप्यश्मन्शब्दस्याऽऽश्मनमिति भविष्यति, पैष्टी सुरेतिवत् । मौद्गः सूपः । कार्पासमिति । मुद्गशब्दो घृतादित्वादन्तोदात्तः ।॒कृञः पासः॑ इति पासप्रत्यये गुणे रपरे च कर्पसीशब्दो जातिलक्षणङीषन्तः । ताभ्यांअनुदात्तादेश्च॑इत्यञं बाधित्वा बिल्वादिचादण् । Padamanjari ----------- मौद्गः सूपः, कार्पासमाच्छादनमिति । उभयत्र बिल्वाद्यण्, विकारावयवयोरभक्ष्याच्छादनयोश्च यथासंख्यं न भवति; विकारावयवयोरसमासनिर्देशेन प्रत्येकमभिसम्बन्धात् । तद्विषयेऽपि यथा स्यादिति । यद्येतयोरिति नोच्येत, उतरैर्विशेषप्रत्ययैरञादिभिः सम्प्रधारणायां परत्वात एव स्युः, पूर्वेषां विशेषप्रत्ययानां मयडभावपक्षे सावकाशत्वान्मयट्पक्षे परत्वान्मयडेव लभ्यत इति प्राणिरजतादिभ्योऽञादय एत्युक्तम् । ठेतयोःऽ इति वचनं पुनर्विधानार्थं सम्पद्यत इति परेषामपि विषये मयड् भवति ॥ Nyaas ----- `गव्यम्` इति। गोरिदमित्यर्थविवक्षायां `सर्वत्र गोरजादिप्रसङ्गे यत्` (वा।383) इति यत्, **वान्तो यि प्रत्यये** (6.1.79) इत्यवादेशः। `पुरीषं न विकारो नाप्यवयवः`इति। प्रकृतत्वाद्गोरिति गम्यते। ततर्विकारस्तावन्न भवति ; प्रकृतेरवस्थान्तरं पुरीषम्; {गोधर्मानन्वयादोदनवस्तूपकास्य -प्रांउ।पाठः} गोधर्मानन्वयात्। वस्तूपकारस्य समुदायस्यैकदेशो ह्रारम्भकोऽवयवो भवति, यथा -हस्तादि शरीरस्य; न चैवं गोः पुरीषम्। क्व तर्हीदं विधानमित्याह -`तस्येदं विषये` इति। गवा भावितत्वात् पुरी स्य, तत् तस्याः कार्यमिति तस्येदनर्थो भवति। तस्मात् तत्रैवेदं मयटो विधानम्। विकारावयवयोस्तर्हि केन भवितव्यम्? इत्याह - `विकारावयवोस्तु` इत्यादि॥ Prakriyasarvasvam ----------------- भक्ष्याच्छादनवर्जितयोर्विकारावयवयोर्वाच्ययोरपवादस्थलेऽपि भाषायां मयट् वा स्यात् । अश्ममयं आश्मं वा पात्रम् । दाण्डिनाद्युक्त्या यलोपेन हिरण्मयं हैरण्यं वा । भक्ष्याच्छादनयोस्तु न मयट् । व्रीह्याः सक्तवः । क्षौमं वासः ॥ Sutra Prayogas -------------- * **हेम-रत्न-मयो** (भट्टिकाव्यम्): `मयद्वैतयोर्भापायाम्` इति विकारे मयट्।