43112: तेनैकदिक् ================ **Padacheda:** तेन | S | 3 | 1 | एकदिक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An affix -- प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Instrumental -3rd case in construction in the sense of 'in the same direction with that'. Vasu English Translation ------------------------ An affix -- प्राग्दीव्यतोऽण् (4.1.83) etc. comes after a word in the Instrumental -3rd case in construction in the sense of 'in the same direction with that'. The word एक दिक means तुल्य दिक i.e. a common direction. Thus सुदाम्ना एकदिक = सौदामनी विद्युत् "a lightening, literally that which is in the same direction as the hill called the *Sudaman*." So हैमवती, त्त्रैककुदी, पैलुमूली ॥ The repetition of तेन, though it could have been supplied by *anuvritti* from (4.3.101), is for the sake of indicating that the *anuvritti* of the छन्दस् which regulated all the preceding ten *sutras*, does not extend to this aphorism, and therefore the तद्विषयता of (4.2.66) which was applied in those *sutras* does not apply here. Kashika ------- तेनेति तृतीयासमर्थादेकदिगित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक्, समानदिगित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदी। पैलुमूली। तेनेति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दोऽधिकारात् तद्विषयता साध्यते॥ Siddhanta Kaumudi ----------------- सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥ Balamanorama ------------ **तेनैकदिक्** - तेनैकदिक् । सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणिअ॑निति प्रकृतिभावान्न टिलोपः । Tattvabodhini ------------- **तेनैकदिक्** - तेनैकदिक् । तृतीयान्तादेकदिगित्यर्थे अमादयः स्युः । एकदिक् । समाना दिगित्यर्थः । पुनस्तेनेत्युक्तिश्छन्दोऽदिकारनिवृत्त्यर्था । सौदामनीति ।अन्इति प्रकृतिभावान्न टिलोपः ।तडित्सौदामिनी विद्युदि॑त्यमरः । Padamanjari ----------- सौदामनीति । ठन्ऽ इति प्रकृतिभावः । सुदामादयःउपर्वतविशेषाः ॥ Nyaas ----- `तेन`इति। `तुल्यार्थैरतुलोपमाभ्याम्` (2.3.72) इति तृतीया। `सौदामनी` इति। `अन्` (6.4.167) इति प्रकृतिभावाट्टिलोपाद्यभावः।ननु च तेनेति प्रकृतमेव,तत्किमर्थं पुनरिह तृतीया समर्थविभक्तिरुपादीयते? इत्याह - `तेनेति प्रकृते` इत्यादि। पूर्वत्र हि तेनेति छन्दोऽधिकारसम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माच्छन्दोऽधिकारनिवृत्तयेपुनरिह तृतीया समर्थविभक्तिरुपादीयते। किमर्थः पुनश्छन्दोऽधिकारः पूर्वत्र क्रियते? इत्याह - `पूर्वत्र` इत्यादि। पूर्वेषु योगेषु च्छन्दोऽधिकारात् तद्विषयता साध्यते। तस्मात् तत्र च्छन्दोऽधिकारः कर्तव्यः। तस्मस्तु क्रियमाणे तन्निवृत्त्यर्थं इह च यत्न आस्थेयः छन्दस्येव प्रत्ययः स्यात्॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थेऽणादिः । सुदाम्ना तुल्यदिग्भवा, सौदामनी विद्युत् । 'सुदामा श्वेतद्वीपः' इति टीकासर्वस्वे । 'कश्चिद्रद्रिः' इति स्वामी । तस्य स्फटिकात्मकत्वात् तद्दिशि बहु प्रकाशत इत्यर्थः ।