43107: कठचरकाल्लुक् =================== **Padacheda:** कठ-चरकात् | S | 5 | 1 | लुक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix denoting 'enounced by him' is elided by लुक्-substitution after the words कठ and चरक। Vasu English Translation ------------------------ The affix denoting 'enounced by him' is elided by लुक्-substitution after the words कठ and चरक। The word कठ would have taken णिनि as it is a वैशम्पायनान्तेवासी word: and चरक would have taken the affix अण् ॥ Both are elided. Thus कठाः 'who study the *Chhandas* enounced by *Katha*'. चरकाः &c. The word '*Chhandas*' qualifies this *sutra*. Observe काठाः चारकाः श्लोकाः ॥ Kashika ------- कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशंपायनान्तेवासिभ्यः (४.३.१०४) इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तमधीयते कठाः। चरकाः। छन्दसीत्येव — काठाः। चारकाः॥ Siddhanta Kaumudi ----------------- कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥ Balamanorama ------------ **कठचरकाल्लुक्** - कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् । चराका इति । चरकेण प्रोक्तमधीयते । इत्यर्थः । प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक् । Tattvabodhini ------------- **कठचरकाल्लुक्** - कठचरकाल्लुक् । कठशब्दस्य वेशंपायनान्तेवासित्वा ण्णिनिः चरकादण् । तयोर्लुक् । छन्दसीत्येव । काठाः । चारकाः । श्र्लोकाः । Nyaas ----- `कठाः, चरकाः` इति। प्रोक्तप्रत्ययस्य लुकि कृते यो ह्रध्येतर्यण् भवति तस्यापि प्रोक्ताल्लुक् (4.2.63) । पूर्ववत् तद्विषयता॥ Prakriyasarvasvam ----------------- आभ्यां प्रोक्तप्रत्ययस्य लुक् । कठेन प्रोक्तमधीयानाः, कठाः । चरकाः । अच्छन्दस्त्वे तु तद्विषयत्वाभावाच्चरकेण प्रोक्तं चरकं शास्त्रमित्यपि माधवः । वृत्तौ तु छन्दसि वाच्य एव लुगुक्तः । काठञ्चारको वा श्लोकः ॥