43093: सिन्धुतक्षशिलादिभ्योऽणञौ =============================== **Padacheda:** सिन्धु-तक्षशिला-आदिभ्यः | S | 5 | 3 | अण्-अञौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes अण् and अञ् come respectively after the words सिन्धु etc. and तक्षशिला etc. in the sense of 'this is his native land'. Vasu English Translation ------------------------ The affixes अण् and अञ् come respectively after the words सिन्धु etc. and तक्षशिला etc. in the sense of 'this is his native land'. Thus सैन्धवः, वार्णवः ॥ Many of the words occurring in *Sindhu*-class, are found in *Kachchhadi* class (4.2.133) also. Those words would have taken अण् by *sutra* (4.2.133). The present *sutra* prevents the affixing of वुञ् (4.2.134) to those words under circumstances mentioned in *sutra* (4.2.134), when the further significance of अभिजन is added to them. So also ताक्षशिलः, वात्सोद्धरणः &c. 1 सिन्धु, 2 वर्णु, 3 मधुमत्, 4 कम्बोज, 5 साल्व, 6 कश्मीर, 7 गन्धार, 8 किष्किन्धा, 9 उरसा (उरस), 10 दरद् (दरद), 11 गन्दिका (गब्दिका), 12 कुलून, 13 दिरसा ॥ 1 तक्षशिला, 2 वत्सोद्धरण, 3 कैर्मेदुर (कौमेदुर), 4 ग्रामणी, 5 छगल, 6 क्रोष्टुकर्ण (कर्णकोष्ठ), 7 सिंहकर्ण (सिंहकोष्ठ), 8 संकुचित, 9 किंनर, 10 काण्डधार (काण्डवारण), 11 पर्वत, 12 अवसान, 13 बर्बर, 14 कंस, 15 सरालक. Kashika ------- आदिशब्दः प्रत्येकमभिसंबध्यते। सिन्ध्वादिभ्यःप्रातिपदिकेभ्यस्तक्षशिलादिभ्यश्च यथासंख्यमणञौ प्रत्ययौ भवतः सोऽस्याभिजन इत्येतस्मिन् विषये। सैन्धवः। वार्णवः॥ सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। किष्किन्धा। गब्दिका। उरस। दरत्। ये तु कच्छादिषु (४.२.१३३) पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस्तत एवाणि सिद्धे मनुष्यवुञो (४.२.१३४) बाधनार्थं वचनम्। तक्षशिलादिभ्यः खल्वपि — ताक्षशिलः। वात्सोद्धरणः॥ तक्षशिला। वत्सोद्धरण। कौमेदुर। काण्डवारण। ग्रामणी। सरालक। कंस। किन्नर। संकुचित। सिंहकोष्ठ। कर्णकोष्ठ। बर्बर। अवसान॥ Siddhanta Kaumudi ----------------- सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥ Balamanorama ------------ **सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ** - सिन्धुतक्ष । सैन्धव इति । सिन्धुर्देशविशेषोऽभिजनोऽस्येति विग्रहः । Tattvabodhini ------------- **सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ** - सिन्धुतक्ष । सिन्धुः वर्णुः गन्धारःकम्बोजादयः सिन्ध्वादयः । ते तु प्रायेण कच्छादिष्वपि पटन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुञो बाधनार्थं वचनम् । तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः । Padamanjari ----------- सिन्धुवर्णुप्रभृतय इति । प्रभृतिशब्देन मधुमत, कम्बोज, साल्व, कश्मीर, गन्धार - इत्येते गृह्यन्ते । किष्किन्धादिभ्यश्चतुर्भ्यः ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् । तक्षशिलादिष्वपि वृद्धेभ्यश्च्छः प्राप्तः, शेषेभ्यः'प्राग्दीव्यतो' ण्ऽ ॥ Nyaas ----- `प्रभृतयः` इति। प्रभृतिशब्देन मधु, वसन्त, कम्बोज, साल्व,कश्मीर - इत्येते गृह्यन्ते। {गन्धार इति मु।पाठः गन्धारि इति प्राचीनमुद्रित पाठः।}किष्किन्धा, `{नास्ति गण पाठे}सारदि, `{उरस काशिका}उरस्, दरत् - इत्येतेषाम् **अवृद्धादपि बहुवचनविषयात्** (4.2.125) इत्यादिना वुञि प्राप्ते वचनम्। तक्षशिलादिष्वपि कौमेदुर, काण्डवारण, ग्रामणी - इत्येतेषां **वृद्धाच्छः** (4.2.114) इति छे प्राप्ते। शेषाणां **प्राग्दीव्यतोऽण्** (4.1.83) इत्यणि॥ Prakriyasarvasvam ----------------- अणि सैन्धवः । कौष्किन्ध इत्यादि । अञि ताक्षशिलः । पर्वताभिजना पार्वतीत्यादि ॥