43084: विदूराञ्ञ्यः =================== **Padacheda:** विदूरात् | S | 5 | 1 | ञ्यः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix य comes in the sense of 'what manifests itself there' after the word विदुर। Vasu English Translation ------------------------ The affix य comes in the sense of 'what manifests itself there' after the word विदुर। *Karika* वालवायो विदूरं च प्रकृत्यन्तरमे वा । न वै तत्रेति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् ॥ This debars अण् ॥ Thus विदूरात् प्रभवति = वैदूर्यः 'a kind of gem found at * Vidura*'. The gem as a matter of fact is not found at * Vidura*, but in a mountain called वालवाय ॥ *Vidura* is the city where the rough stone is worked upon. In other words, it may be said that the affix is really added to वालवाय, when the latter word is replaced by विदूर; such substitute being only shown in the *sutra*, the appropriate *sthani* (*valavaya*) being left to inference. Or the word *Vidura* may denote both the city as well as a mountain. If it be said that there is no mountain known as *Vidura*, then we say that the Grammarians call *Valavaya* by the name of *Vidura*, as the merchants call *Benares* by the name of *Jitvari*. Bhashya ------- विदूराञ्ञ्ञ्ञ्यः (1654) (ञ्ञ्याप्रत्ययाधिकरणम्) (सूत्रानुपपत्तिदर्शकभाष्यम्) अयुक्तोऽयं निर्देशः, न ह्यसौ विदूरात्प्रभवति। किं तर्हि? वालवायात्प्रभवति, विदूरे संस्क्रियते। एवं तर्हि - (सूत्रोपपत्तिप्रदर्शकं श्लोकभाष्यम्) वालवायो विदूरं च प्रकृत्यन्तरमेव वा। वालवायशब्दो विदूरशब्दमापद्यते ञ्ञश्चास्मात्प्रत्ययो वक्तव्यः॥ अथवा प्रकृत्यन्तरं विदूरशब्दोऽस्ति वालवायस्य। न वै तत्र वालवायं विदूर इत्युपाचरन्ति॥ न वै तत्रेति चेद्ब्रूया- ज्जित्वरीवदुपाचरेत्। तद्यथा -वणिजो वाराणसीं जित्वरीत्युपाचरन्ति। एवं वैयाकरणा वालवायं विदूर इत्युपाचरन्ति॥ वालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति चेयाद्ब्रू- ज्जित्वरीवदुपाचरेत्॥ Kashika ------- विदूरशब्दाद् ञ्यः प्रत्ययो भवति ततः प्रभवतीत्येतस्मिन् विषये। अणोऽपवादः। विदूरात् प्रभवति वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते? एवं तर्हि — वालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद् ब्रूयाज्जित्वरीवदुपाचरेत्॥ Siddhanta Kaumudi ----------------- विदूरात्प्रभवति वैदूर्यो मणिः ॥ Balamanorama ------------ **विदूराञ्ञ्यः** - विदूराञ्ञ्यः । ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः । वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् । Tattvabodhini ------------- **विदूराञ्ञ्यः** - वैदूर्य इति । दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः । नन्वत्रार्थाऽसङ्गतिः, बालावायपर्वताद्ध्यसौ प्रभवति, विदूरनगरे तु संस्क्रियते । सत्यम् । अतएव समाहितं बाष्ये -॒बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद्ब्राऊयाज्जिल्वरीवदुपाचरेत्इति । अस्यार्थः — -बालवायशब्दः प्रत्ययं लभते, विदूरादेशं च, सूत्रे पठितेनादेशेनानुरूपः स्थानीबालवायशब्द आक्षिप्यते, यथाल शिबादिषु पठिताभ्यां विश्रवणरवणादेशाभ्यामनुरूपः स्थानी विआवस्शब्द आक्षिप्यते, यथा वापद्दन्न॑इत्यादौ पदाद्यादेशानुरूपः स्थानी पाददन्तादिराक्षिप्यते तद्वत् । प्रकृत्यन्तरमेवेति । विदूरशब्दो नगरस्येव पर्तस्यापि वाचकोऽस्तीत्यर्थः । एवं चास्मिन्पक्षेबालवायात्प्रभवती॑ति विग्रहे विदूरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः । न वै इति ।वै॑ शब्दोऽक्षमां द्योतयति । तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति च्द्ब्राऊयाज्जित्वरीवव्द्यवहरेत् । नियतपुरषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एवाऽदिंर विदूर इति । Nyaas ----- `तत्र तु संस्क्रियते` इति। तुशब्दोऽवधारणे। संस्क्रियते एव च तत्र विदूरे नगरे, न ततः प्रभवति।`वालवायो विदूरञ्च` इति। वालवायशब्द एव प्रत्ययमुत्पादयति, न विदूरशब्दः। प्रभवतिशब्दस्य प्रथमत उपलभ्यत इत्यर्थः। प्रभवति च वालवाये पर्वते। तस्माद्यतः प्रभवति तद्वाची वालवायशब्दः प्रकृतित्वेनाक्षिप्यते। यथा विश्रवणरवणा इत्यादेशावेव शिवादिषु पठएते। अपत्याधिकारात्तु येन तयोरपत्यापत्यवत्ससम्बन्धः स एव प्रकृतित्वेनाक्षिप्यते विश्रवस्शब्दः। विश्रवसोऽपत्यं वैश्रवणः, रावणः।अथ वा प्रकृत्यन्तरमेव विदूरशब्दो वालवाये वर्तते। विदूरात् भवति वालवायात् पर्वतात् प्रभवतीत्यर्थः। एवं स्थिते यो ब्राऊयात् - नैव तत्र वालवाये प्रसिद्धो विदूरशब्द इति,तं प्रत्याह - `जित्वरीवदूपाचरेत्` इति। यथा वणिज एव वासाणसी नगरीं `जित्वरी` इत्युच्चारयन्ति मङ्गलार्थम्, न लोकाः, एवं वैयाकरणा एव वालवायं विदूरमित्युच्चारयन्ति। नियतदेशपुरुषविषया अपि रूढयो भवन्तीत्येतज्जित्वरीवदित्यनेन कथयति॥ Prakriyasarvasvam ----------------- वैडूर्यो मणिः ॥ Sutra Prayogas -------------- * **वैदूर्यकुड्येषु** (शिशुपालवधम्): `विदूराञ्ञ्यः` इति ञ्यप्रत्ययः।