43073: अणृगयनादिभ्यः ==================== **Padacheda:** अण् | S | 1 | 1 | ऋगयन-आदिभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the senses of 'occurring therein' and 'commentary thereon' after the words ऋगयन etc. Vasu English Translation ------------------------ The affix अण् comes in the senses of 'occurring therein' and 'commentary thereon' after the words ऋगयन etc. This debars ठञ्, ठक् and छ॥ आर्गयनः, पादव्याख्यानः ॥ The repetition of अण् in the *sutra*, though the *anuvritti* of this affix was coming from before, is for the sake of preventing the application of any subsequent *apavada* rule to the words in this list. Thus वास्तुविद्यः ॥ 1 ऋगयन, 2 पदव्याख्यान, 3 छन्दोमान, 4 छन्दोभाषा, 5 छन्दोविचिति, 6 न्याय, 7 पुनरुक्त, 8 निरुक्त, 9 व्याकारण, 10 निगम, 11 वास्तुविद्या, 12 क्षत्रविद्या, 13 अङ्गविद्या, 14 विद्या, 15 उत्पात, 16 उत्पाद, 17 उद्याव, 18 संवत्सर, 19 मुहूर्त, 20 उपनिषद् 21 निमित्त, 22 शिक्षा, 23 भिक्षा, 24 छन्दोविछिती 25 व्याय ॥ Kashika ------- ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण् प्रत्ययो भवति। ठञादेरपवादः। आर्गयनः। पादव्याख्यानः। अण्ग्रहणं बाधकबाधनार्थम्। वास्तुविद्यः॥ ऋगयन। पदव्याख्यान। छन्दोमान। छन्दोभाषा। छन्दोविचिति। न्याय। पुनरुक्त। निरुक्त। व्याकरण। निगम। वास्तुविद्या। अङ्गविद्या। क्षत्रविद्या। उत्पात। उत्पाद। संवत्सर। मुहूर्त। निमित्त। उपनिषत्। शिक्षा। ऋगयनादिः॥ Siddhanta Kaumudi ----------------- ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥ Balamanorama ------------ **अणृगयनादिभ्यः** - अणृगयनादिभ्यः ।तस्य व्याख्याने तत्र भवे चे॑ति शेषः । आर्गयनैति । ऋगयनम् — ऋक्संहिता, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः ।बह्वचोऽन्तोदात्ता॑दिति ठञि प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः ।न य्वाभ्या॑मित्यैच् । अण्ग्रहणं तु छबाधनार्थम्, अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः । Tattvabodhini ------------- **अणृगयनादिभ्यः** - अणृगय । ऋगयनादिभ्योभवव्याख्यानयोरर्थयोरण्स्यात् । ठञादेरिति । आदिशब्दाट्ठक्छयोः । आर्गयन इति ।अयन॑शब्दो भावसाधनः, तेन समासेअनो भावकर्मवचनः॑इत्यन्तोदात्तः । अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते । इहबह्वचोऽन्तोदात्ता॑दिति ठञ्प्राप्तः । औपनिषद इत्यत्राप्येवम् । विद्यान्यायशिक्षाशब्देभ्योव्द्यजृद्ब्राआहृणे॑ति ठक्प्राप्तः । व्याकरणशब्दात्तु -॒वृद्धाच्छः॑ । Padamanjari ----------- ठञादेरिति । आदिशब्देन ठकः च्छस्य च ग्रहणम् । तत्र विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षणस्य ठकोऽपवादः, व्याकरणशब्दाद् वृद्धाच्छस्य, शेषा बह्वचोऽन्तोदाताः, तेष्वञः । अथाण्ग्रहणं किमर्थम्, न ऋगयनादिभ्यो यथाविहितमेवोच्येत, वचनप्रामाण्याद्यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह -अण्ग्रहणमिति । असत्यण्ग्रहणे यद् वृद्धमन्तोदातं बह्वच, यथा - बास्तुविद्येति, तस्माद् वृद्धाच्छे ठञा बाधिते पुनर्वचनाच्छ एव स्याद्, अण्ग्रहणात्वणेव भवति । ऋगयनमिति ।'पूर्वपदात्संज्ञायामगः' इति णत्वं न भवति, ठगःऽ इति प्रतिषेधात् । अयनशब्दश्च भावसाधनोऽभेदोपचाराद् ग्रन्थे वर्तते, ठनो भाव कर्मवचनेऽ इत्यन्तोदातः । पदव्याख्यानशब्दः'मन्क्तिन्व्याख्यान' इत्यन्तोदातः । च्छन्दोमानशब्द ऋगयनशब्देन व्याख्यातः । च्छन्दो भावेति कृत्स्वरेणान्तोदातः । छन्दोविचितिशब्दो मन्क्तिन्नित्यन्तोदातः । पुनरुक्तशब्दस्थाथादिस्वरेण । निरुक्तशब्दः'संज्ञायामनाचितादीनाम्' इति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितोऽन्तोदातः । वास्तुविद्या, क्षत्रविद्या, अङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरन्, वसेः सम्पूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदातः । मुहूर्तनिमितशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः क्विप्, उपनिषच्छब्दः कृत्स्वरेणान्तोदातः ॥ Nyaas ----- `ठञोरपवादःर` इति। आदिशब्देन ठकश्छस्य च। तत्र ये बह्वचोऽन्तोदात्तस्तेभ्यष्ठञः। विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षमस्य ठकः। व्याकरणशब्दाद्वृद्धाच्छस्य। अण्ग्रहणं किमर्थम्? न ऋययनादिभ्यो ता विहितमेवोच्येत, न चैवं सत्यपवादाः ष्ठनादयः स्युरिति सम्भाव्यते; अपवादविधानस्य हि वैयथ्र्यं स्यात्। तस्माद्वचनप्रामाण्यद्यो विहितो न च प्राप्नोत्यन्येन बाधितत्वात् स एव भविष्यति, स चाणेव? इत्यत आह - `अण्ग्रहणम्` इत्यादि। तत्र यद्यण्ग्रहणं न क्रियेत्, तदा यदत्र वृद्धमन्तोदात्तं ठञा बाधिते पुर्वचनाच्छ एव भविष्यति। तस्माच्छस्य बाधकसय् बाधनार्थमण्ग्रहणम्। तेन वास्तुविद्य इति सिद्धं भवति। वास्तुविद्याशब्दो वृद्धः,समासस्वेरमाअन्तोदात्तश्च।`ऋगयन` इत्यादि। ऋगयनमिति। ऋगयनशब्दो भावसाधन ऋचामयनम्,यद्यपि भावे ल्युट्, तथाप्यभदोपचारात् तद्वति ग्रन्थे व्याख्यातव्ये वर्तते, स च **अनो भावकर्मवचनः** (6.2.150) इत्यन्तोदात्तः। यैस्तु करणे ल्युटं कृत्वाऋगयनशब्दो व्युत्पाद्यते, तेषां स कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तो न गणे पाठं प्रयोजयति ततः **प्राग्दीव्यतोऽण्** (4.1.83) इत्येव सिद्धः। पदव्याख्यानशब्दः **मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः** (6.2.151) इत्यन्तोदात्तः। `{नास्ति - काशिकायां पदमञ्जर्यां च।} मान` इति। मनोर्धातोर्यदा घञ् तदा **थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्यन्तोदात्तः। अथ मिनातेर्ल्युट्,तदा **अनो भावकर्मवचनः** (6.2.150) इत्यन्तोदात्तः। `छन्दोभावः` इति। `गतिकारकोपपदात्` कृत्` (6.2.138) इति कृत्स्वरेणान्तोदात्तः। भाषाशब्द **गुरोश्च हलः** (3.3.103) इत्यकारप्रत्ययान्तो व्युत्पादितः। `छन्दोविचिति` इति। **मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः** (6.2.151) इत्यादिनान्तोदात्तः। पुनरुक्तशब्दः **थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्यन्तोदात्तः। `{ नास्ति -काशिकायाम्` } निरुक्तः` **संज्ञायामनाचितादीनाम्** (6.2.146) इत्यन्तोदात्तः, व्याकरणशब्दो ल्युडन्तो मध्योदात्तः। निगमशब्दः `गोचरसञ्चर` (3.3.119) इत्यादिसूत्रे घप्रत्ययान्तो निपातितः प्रत्यस्वरेणान्तोदात्तः। वास्तुविद्याशब्दोऽङ्गविद्या {क्षत्त्रविद्या -काशिका पदमञ्जरी च।} क्षत्त्रियविद्येत्येते च समासस्वरेणान्तोदात्ताः। उत्पात्, `{उत्पाद -काशिका` } उदपाद -इत्येतौ थाथादि (6.2.143) सूत्रेणान्तोदात्तौ। संवत्सर इति। `अशेः सर` (द।उ।8।50) इत्यनुवृत्तौ `वसेः संपूर्वाच्चित्` (द।उ।8।51,52) इत्येवं व्युत्पादतित्वात् संवत्सरशब्दोऽन्तोदात्तः। मृह्रतेर्धातोः क्तः, क्ते ऊरागमः, तेन `मुहूर्त` इत्यन्तोदात्तः। `निमित्त` शब्दोऽपि प्रातिपदिकस्वरेण। `उपनिषत्` इति। उपनिपूर्वात् सदेः क्विप्। कृत्स्वरेणान्तोदात्तः॥ Prakriyasarvasvam ----------------- ऋगयनो नाम ग्रन्थः । तद्व्याख्यानं तत्र भवं वा आर्गयनम् । गकारव्यव- धानात् 'पूर्वपदात् संज्ञायाम—' (८-४-३) इति णत्वं न । एवं नैरूक्तं, नैयायं वैयाकरणमित्यादि । 'बह्वचो—' (४-३-६७) इत्यादेरपवादोऽयम् ॥