43025: तत्र जातः ================ **Padacheda:** तत्र | S | 0 | 0 | जातः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes ordained above or hereafter come after a word in the Locative -7th case in construction in the sense of 'born or grown or originated there or then'. Vasu English Translation ------------------------ The affixes ordained above or hereafter come after a word in the Locative -7th case in construction in the sense of 'born or grown or originated there or then'. The affixes अण् &c. घ &c. have been taught, but no particular sense was assigned to them. See (4.2.92). This *sutra* gives one of the senses, and also declares the particular case in which the stem must be, to which the affix is to be added. Thus स्रुघ्नेजातः = स्रुघ्न + अण् = स्रौघ्नः 'born in *Srughna*'. So also माथुरः 'born in *Mathura*', औत्सः 'born in *Utsa*', औदपानः 'born in *Udapana*'. राष्ट्रियः (4.2.93), अवारपारीणः (4.2.93) शाकलिकः (4.2.117), ग्राम्यः (4.2.94), ग्रामीणः (4.2.94), कात्रेयकः (4.2.95) औम्भेयकः (4.2.95). Bhashya ------- तत्र जातः (1595) (जातार्थाधिकरणम्) (सूत्राक्षेपभाष्यम्) किमर्थं जातादयोऽर्था निर्दिश्यन्ते? (सूत्रप्रयोजनभाष्यम्) जातादिष्वर्थेषु घादयो यथा स्युः, स्वार्थे मा भूवन्निति॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। शेषे (4.2.92) इत्यनुवर्तते, तेन स्वार्थे न भविष्यन्ति॥ (वार्तिकावतरणभाष्यम्) अत उत्तरं पठति - (5465 सूत्रप्रयोजनवार्तिकम्॥ 1 ॥) - तत्र जातादिषु वचनं नियमार्थम् - (भाष्यम्) नियमार्थोऽयमारम्भः। जातादिष्वेव घादयो यथा स्युरिह मा भूवन् -तत्रास्ते, तत्र शेत इति॥ (नियमानर्थक्यबोधकभाष्यम्) यदि नियमः क्रियते, दार्षदाः सक्तवः, औलूखलो यावक इति न सिध्यति। संस्कृतमित्येवं भविष्यति। भवेत् सिद्धम् -दार्षदाः सक्तव इति। इदं तु न सिध्यति -औलूखलो यावक इति। संस्कृतं नाम तद्भवति यत्तत एवापकृष्याभ्यवह्रियते, न च यावक उलूखलादेवापकृष्याभ्यवह्रियते। अवश्यं रन्धनादीनि प्रतीक्ष्याणि। तस्मान्नार्थोऽनेन नियमेन॥ (नियमफलसाधकभाष्यम्) कस्मान्न भवति -तत्रास्ते, तत्र शेत इति। अनभिधानात्॥ तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेष्वपि ह्यर्थनिर्देशेषु यत्र जातादिषूत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं न भवति, न भवति तत्र प्रत्ययोत्पत्तिः। तद्यथा -अङ्गुल्या खनति, वृक्षमूलादागत इति॥ (सूत्रफलबोधकभाष्यम्) न तर्हीदानीं जातादयोऽर्था निर्देष्टव्याः। निर्देष्टव्याश्च। किं प्रयोजनम्? अपवादविधानार्थम्। प्रावृषष्ठप् (4.3.26) प्रावृषि जातः प्रावृषिकः। क्व मा भूत्? प्रावृषि भवाः प्रावृषेण्या बलाहकाः। यानि त्वेतानि निरपवादान्यर्थादेशनानि तानि शक्यान्यकर्तुम्। कृतलब्धक्रीतकुशलाः (4.3.38) स्रौघ्नो देवदत्त इति॥ Kashika ------- अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्ते। तत्रेति सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्ने जातः स्रौघ्नः। माथुरः। औत्सः। औदपानः। राष्ट्रियः। अवारपारीणः। शाकलिकः। माकलिकः। ग्राम्यः। ग्रामीणः। कात्रेयकः। औम्भेयकः॥ Siddhanta Kaumudi ----------------- सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि॥ Balamanorama ------------ **तत्र जातः** - अथ तेषां प्रत्ययानामर्थविशेषान्, प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते — तत्र जातः सप्तमीसमर्थादिति । सप्तम्यन्तात्कृतसन्धेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणादय इति । अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति ।राष्ट्रावारपारे॑त्यादिभिर्विशेषविहिता इत्यर्थः । Tattvabodhini ------------- **तत्र जातः** - तत्र जातः । ननु शेषे इत्यस्य लक्षमत्वोक्तेःचाक्षुषं रूपं, श्रावणः शब्दः॑इत्यादाविव जातादिष्वर्थेष्वणादयः सिद्धाः, अधिकाराञ्च घादयोऽपि । न चजातादिष्वेवाऽणादयः॑इति नियमार्थं जाताद्यर्थनिर्देश आवश्यकः । अन्यथातत्रास्ते, तत्र शेते॑इत्याद्यर्थेऽपि प्रत्ययः स्यादिति वाच्यम्,चाक्षुषु॑मित्यद्यसिद्द्यापत्तेः ।रुआउध्ने आस्ते, रुआउध्ने शेते॑इत्यादौ त्वनभाधानादेव तद्धितो न भविष्यति, अङ्गुल्या खनति, वृक्षमूलादागत इत्यादौ यथा । समर्थविभक्तयस्त्वाक्षेपादेव लप्स्यन्ते । चाक्षुषमित्यत्र तृतीया यथा, तस्मात्तत्र जातः॑इत्याद्यर्थनिर्देशो व्यर्थ इति चेत् । मैवम् ।प्रावृषष्ठ॑बित्याद्यपवादार्थं तदावश्यकत्वात् । ये तु निरपवादा अर्थनिर्देशाःकृतलब्धक्रीतकुशलाः॑इत्यादयः, ते तु व्यर्था एवेति दिक् । Padamanjari ----------- तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्त इति । तदिदमुभयमनिर्देश्यम्, कथम् ?'शेष इति लक्षणं चाधिकारश्च' इत्युक्तम्, तत्र लक्षणतया चाक्षुषं रूपमित्यादाविव जातादिष्वप्यर्थेष्वणादयः सिद्धाः, अधिकारतया च घादय इत्यर्थास्तावन्न निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देशोऽपि न कर्तव्य एव । नियमार्थमिति चेन्न; अनिष्टत्वात् । तत्रैतत्स्यात् - जातादिष्वेव तद्धिता यथा स्युः, तत्रास्ते तत्र शेत इत्यादौ मा भूवन्निति जातादयोऽर्था अनुक्रम्यन्त इति ? तच्च नैवम्; अनिष्टत्वात् । अन्यत्रापि हि तद्धिता इष्यन्ते - चाक्षुषं रूपम्, श्रावणः शब्दः, चातुर्दशं रक्षः, दार्षदाः सक्तव इति । यत्र तु नेष्यन्ते, तत्रास्त इत्यादौ - तत्रानभिधानान्न भविष्यन्ति, यथा - अङ्गुल्या खनतीत्यादौ । तस्मान्नार्थो जाताद्यनुक्रमणेन । अपवादविधानार्थं तु, प्रावृषष्ठबादीनपवादाÄस्तत्र तत्रासङ्करेण वक्ष्यामीति अवश्यानुक्रमितव्या अर्थाः, तेऽन्यार्थाः सन्तो योगविभागेनाणादीनामप्यर्था निर्दिश्यन्ते । विश्पष्टार्थम्, यानि पुनरनपवादान्यर्थादर्शनानि, यथा -'कृतलभ्धक्रीतकुशलाः' इति, तानि शक्यान्यवक्तुम् ॥ Nyaas ----- `अणादयो घादयश्च` इति। एकेनादिशब्देनाणादीनामिहोत्सर्गाणां ग्रहणम्, द्वितीयेन घादीनां शेषाधिकारविहितानाम्। रुआऔघ्नः,माथुरः` इति। `प्राग्दीदीव्यतोऽण्` (4.1.83) । `औत्सः, औदपानः` इति। **उत्सादिभ्योऽञ्** (4.1.86) । `राष्ट्रियः,अवारपारीणः` इति। **राष्ट्रावारपाराद्घखौ** (4.2.93) । `शाकलिकः, मालविकः` इति। **वाहीकग्रामेभ्यश्च** (4.2.117) इति ठञ्ञिठौ। `कात्त्रेयकः, औम्भेयकः` इति। **कत्र्यादिभ्यो ढकञ्** (4.2.95) ॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे प्राग्दीव्यतीया अणादयः शैषिका घादयश्च स्युः । मथुरायां जातो माथुरः । 'उत्सादिभ्योऽञ्' । औत्सः । स्त्रैणः शैषिके राष्ट्रीय इत्यादि । प्रोष्ठपदासु जात इत्यत्र नक्षत्रेभ्योऽण् ॥