43002: तस्मिन्नणि च युष्माकास्माकौ ================================== **Padacheda:** तस्मिन् | S | 7 | 1 | अणि | S | 7 | 1 | च | S | 0 | 0 | युष्माक-अस्माकौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- When the affix खञ् is added and when अण् is added then 1. युष्माक and 2. अस्माक are the substitutes of युष्मद् and अस्मद्। Vasu English Translation ------------------------ When the affix खञ् is added and when अण् is added then 1. युष्माक and 2. अस्माक are the substitutes of युष्मद् and अस्मद्। The pronoun तस्मिन् refers to the visible affix खञ्, and not to the understood affix छ which was drawn into the last *sutra* by the word च ॥ Why does the rule of mutual correspondence (1.3.10) not apply here, there being two affixes, two words, and two substitutes? This, however, is not done, because the *sutra* can be divided into two separate aphorisms : as (1) तस्मिन् खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः (ऽ) ततोऽणि च ॥ i.e. (1). when खञ् is added, युष्माक and अस्माक are the substitutes of युष्मद् and अस्मद् respectively (2). So also when अण् follows. As for illustrations, see the preceding *Sutra*, e.g. यौष्माकीणः, आस्माकीनः with खञ्, and यौष्माकः and आस्माकः with अण् ॥ This substitution does not take place when छ is added, as युष्मदीयः and अस्मदीयः ॥ Bhashya ------- तस्मिन्नणि च युष्माकास्माकौ (1572) (आदेशाधिकरणम्) (5446 योगविभागे वार्तिकम्॥ 1 ॥) - आदेशवचने च - (भाष्यम्) किम्? योगविभागः कर्तव्यः। तस्मिन्नणि युष्माकास्माकौ भवतः। यौष्माकः, आस्माकः। ततः -खञ्ञि। खञ्ञि च युष्माकास्माकौ भवतः। यौष्माकीणः, आस्माकीनः। किमर्थो योगविभागः? समसंख्याप्रतिषेधार्थ इत्येव॥ (5447 योगविभागसाधने वार्तिकम्॥ 2 ॥) - तत्र पुनः खञ्ञ्ग्रहणम् - (भाष्यम्) तत्र पुनः खञ्ञ्ग्रहणं कर्तव्यम्। न ह्यन्तरेण खञ्ञ्ग्रहणं योगाङ्गमुपजायते॥ (योगविभागवाधनप्रत्याख्याने भाष्यम्) तत्तर्हि वक्तव्यम्। न वक्तव्यम्। एवं वक्ष्यामि -तस्मिन् खञ्ञि युष्माकास्माकौ भवतः। ततः -अणि च युष्माकास्माकौ भवत इति॥ 4-3-1- आ. 3 (763 विधिसूत्रम् Kashika ------- तस्मिन्निति साक्षाद् विहितः खञ् निर्दिश्यते, न चकारानुकृष्टश्छः। तस्मिन् खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासंख्यं कस्माद् न भवति ? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः। ततोऽणि चेति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिन्नणि चेति किम्? युष्मदीयः। अस्मदीयः॥ Siddhanta Kaumudi ----------------- युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥ Laghu Siddhanta Kaumudi ----------------------- युष्मदस्मदोरेतावादेशौ स्तः खञि अणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥ Balamanorama ------------ **तस्मिन् नणि च युष्माकास्माकौ** - अथ खञि अणि च विशेषमाह — तस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह — खञि अणि चेति । अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अयमिति विग्रहः । अणि उदाहरति — यौष्माकः आस्माक इति । Tattvabodhini ------------- **तस्मिन् नणि च युष्माकास्माकौ** - तस्मिन्नणि च । तस्मिन्निति साक्षाद्विहितः खञ्निर्दिश्यते, नतु चानुकष्टः । निमित्तयोरादेशौ प्रति यखासङ्ख्यं तु न भवति,खञणो॑रिति वक्तव्ये पृथग्विभक्तिनिर्देशसामर्थ्यात् । स्थान्यादेशयोस्तु इष्यत एव तत् । Padamanjari ----------- साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम् - यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्च्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र'गर्तोतरपदाच्छः' इति यावदन्वेषणे च्छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण च्छस्यानुकर्षणमिति न तस्य परामर्शशङ्का । निमितयोरित्यादि । द्वे हि निमिते - खञणौ, निमितिनावपि द्वावेव - आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति ।'खञणोर्युष्माकास्माकौ' इति वक्तव्ये'तस्मिन्नणि च' इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमिताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ॥ Nyaas ----- `तस्मिन्निति साक्षद्विहितः खञ् निर्दिश्यते` इति। तस्मिन्नित्युक्ते प्रागेव तत्रैव प्रतीत्युत्पत्तेः। तत्र पुनः कारणं साक्षाद्विहित्वम्ानन्तर्याच्च खञः, तस्यैव युक्तः। ननु च पूर्वसूत्रे?ञ्चेति चकारेण च्छोऽनुकृष्यते,वाचकदेशश्च वाच्य इति खञश्छ एवानन्तरो भवति। स्यादनन्तरो यदि चकारस्तस्य वाचकः स्यात्, न चासौ तस्य वाचकः। स हि समीपवर्तिनः पदार्थान्तरस्य सहायतामात्रमाचष्टे। खञः सहायतामाख्याय निवृत्ते चकारे सा सहायता प्रकरणाच्छेनैव विज्ञायते। तस्माच्चकारश्छस्य वाचको न भवतीति नासौ तादृशः।तत्कृतयोस्तस्यानन्तर्य `निमित्तयोः` इत्यादि। द्वे हि निमित्ते - खञणौ, निमित्तनावपि द्वावेवादेशौ, ततः समानत्वद्यथासंख्येनात्र भवितव्यमिति मन्यमानस् प्रश्नः। `योगविभागः इत्यादि` परिहारः।`युष्मदीयः, अस्मदीयः` इति। यदि `तस्मिन्नणि च` इति नोच्येत तो यथा पूर्वसूत्रविहितयोः खञणोरिमावादेशौ भवतस्तथा च्छेऽपि स्याताम्। तस्मस्तु सति न भवतः॥ Prakriyasarvasvam ----------------- खञ्यणि च परे युष्मदस्मदोरेतावादेशौ स्तः । यस्येति लोपः । खञि, यौष्माकीणम् । आस्माकीनम् । अणि, यौष्माकम् । आस्माकम् । छे आदेशाभावाद् युष्मदीयम् । अस्मदीयम् ॥ Sutra Prayogas -------------- * **आस्माक** (शिशुपालवधम्): `तस्मिन्नणि च युष्माकास्माकौ` इत्यस्माकादेशः। * **आस्माकी** (शिशुपालवधम्): `तस्मिन्नणि च युष्माकास्माकौ` इति प्रकृतेरस्माकादेशः।