42115: भवतष्ठक्छसौ ================== **Padacheda:** भवतः | S | 5 | 1 | ठक्-छसौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes ठक् and छस् come after वृद्ध word भवत् , in the remaining senses. Vasu English Translation ------------------------ The affixes ठक् and छस् come after वृद्ध word भवत् , in the remaining senses. The word भवत् is a *Vriddha* word because it belongs to *tyadadi* class (1.1.74). This rule debars छ of the last aphorism. In the affix, छस्, the final स् is indicatory, showing that the word भवत् before this affix gets the designation of *Pada* पद (1.4.16). Thus भवत् + ठक् = भावत्कः; भवत् + छस् = भवतीयः ॥ But when the word भवत् is not treated as *Vriddha*, then it takes the general affix अण्; as भावतः ॥ This is the case when भवत् is derived by affixing शतृ to भू ॥ Kashika ------- वृद्धादित्येव। भवच्छब्दाद् वृद्धात् ठक्छसित्येतौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः॥ Siddhanta Kaumudi ----------------- वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥ Padamanjari ----------- ठक्च्छस् इत्येताविति । सित्करणादवसीयते - च्छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । ठिसुसुक्तान्तात्कःऽ प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम् - भावत्की । अवृद्धातु भवतीति । शत्रन्तात् । क्वचितु भवतः शतुरित्येव पाठः ॥ Nyaas ----- `सकारः पदसंज्ञार्थः` इति। `सिति च` (1.4.16) इति पदसंज्ञा यथा स्यात्। तस्याञ्च सत्यां भवदीयमदित्यत्र **झलां जशोऽन्ते** (8.2.39) इति जश्त्वं भवति। `भावत्कः` इति। `इशुसुक्तान्तात् कः` (7.3.51) । `अवृद्धात्तु भवतः` इति। शत्रन्तादिति॥ Prakriyasarvasvam ----------------- त्यदादिगतस्य भवच्छब्दस्यैतौ स्तः । तान्तत्वाट्टस्य कः । भावत्कः । 'सिति च' (१-४-१६) इति पदत्वाज्जश् । भवदीयम् । 'अत्र स्त्रियां पुंवत्त्वं वाच्यम् ।' भवत्या इदं भावत्कम् । भवदीयम् ॥