42112: इञश्च ============ **Padacheda:** इञः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After a family-name formed by इञ् the affix अण् is added in the remaining senses. Vasu English Translation ------------------------ After a family-name formed by इञ् the affix अण् is added in the remaining senses. This debars अण् ॥ Thus from दक्ष we have Patronymic दाक्षि, from which दाक्षाः "the pupils of *Dakshi*" ; प्लाक्षाः, माहकाः ॥ The final इ is elided before अण् by (6.4.148). Why do we say 'denoting a family-name'? Observe सौतङ्गमिः, a word formed by इञ् of (4.2.80), not denoting a family, but having the four-fold sense of (4.2.68) - (4.2.70). The further derivative from this will be सौतङ्गमीयम् by छ (4.2.114). Kashika ------- गोत्र इत्येव। गोत्रे य इञ् विहितः, तदन्तात् प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। छस्यापवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोत्र इत्येव — सौतङ्गमेरिदं सौतङ्गमीयम्॥ Siddhanta Kaumudi ----------------- गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥ Balamanorama ------------ **इञश्च** - इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ॑ । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः ।सुतङ्गमादिभ्य इञ् । सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते,यूनि लु॑गिति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा — पाणिनिः । तस्येदं पाणिनीयम् । वृद्धाच्छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः । Tattvabodhini ------------- **इञश्च** - सोतङ्गमेरिति । सुतङ्गमादिभ्यश्चातुरर्थिक इञ् । शास्त्रीयमिति । ननुअपत्याधिकारादन्यत्र लौकिकं गौत्रं गृह्रते॑इति चेत् । अत्राहुः -॒पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रभृति गोत्रं गृह्रते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः॑इति गोत्रप्रत्ययानुवादेन तत्राऽण्विधानात् । कण्वादयश्च गर्गाद्यन्तर्गताः ।गर्गादिभ्यो यऋ॑ञित्यत्र तुगोत्रे कुञ्जादिभ्यः॑इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्रते, अपत्याधिकारस्थत्वात्, तदेव हिइञश्चे॑ति सूत्रेऽनुवर्तते इथि । Padamanjari ----------- गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति - पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद् वुञ्च्छणादिसूत्रेण चातुर्थिक इञ् । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ॥ Nyaas ----- दाक्ष्यादिभ्यः `अत इञ्` (4.1.95) इतीञन्तेभ्योऽण्। `सौतङ्गमीयम्` इति। सुतङ्गमेन निर्वृत्तमिति **वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः** (4.2.80) इत्यादिना सुतङ्गमशब्दाच्चातुरर्थिक इञ्॥ Prakriyasarvasvam ----------------- इञन्तादपत्यवाचिनोऽण् दाक्षेरिदं दाक्षम् । ‘गोत्रप्रत्ययान्तात् समासेऽ- प्यसमस्तवत् प्रत्ययो वाच्यः ।’ आर्यदाक्षेरिदम् आर्यदाक्षमिति दाक्षिवदेवाण् । ‘आसुरेश्च्छो वाच्यः ।’ असुरस्यापत्यमासुरिः । तस्येदमासुरीयम् ॥