42099: कापिश्याः ष्फक् ====================== **Padacheda:** कापिश्याः | S | 5 | 1 | ष्फक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the word कापिशी , the affix ष्फक् is added in the remaining senses (the feminine being formed by ङीष् -- षिद्गौरादिभ्यश्च (4.1.41)). Vasu English Translation ------------------------ After the word कापिशी , the affix ष्फक् is added in the remaining senses (the feminine being formed by ङीष् -- षिद्गौरादिभ्यश्च (4.1.41)). Thus कापिशायनं मधु, कापिशायनी द्राक्षा 'a liquor'. Vart:- So also after बाह्लि, उर्दि and पर्दि as, बाह्लायनी, और्दायनी, पार्दायनी ॥ This debars वुञ् of (4.2.125). Bhashya ------- कापिश्याः ष्फक् (1520) (ष्फक्प्रत्ययाधिकरणम्) बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् । बाह्लायनी, और्दायनी, पार्दायनी। Kashika ------- कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः। षकारो ङीषर्थः। कापिशायनं मधु। कापिशायनी द्राक्षा॥ बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम्॥ बाह्लायनी। और्दायनी। पार्दायनी॥ Siddhanta Kaumudi ----------------- कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥ Balamanorama ------------ **कापिश्याः ष्फक्** - कापिश्याष्ष्फक् । कापिष्याः ष्फक् इति छेधः । कापिशीशब्दात् ष्फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्त्वान्ङीष् । Tattvabodhini ------------- **कापिश्याः ष्फक्** - कापिश्याः ष्फक् । कापिशीशब्दात्ष्फक्त्स्यात् । षित्त्वान्ङीष् । तदाह -कापिशायनीति । Padamanjari ----------- बहल्युदिपर्दीति । ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् ॥ Nyaas ----- वृद्धा (4.2.113) दिति छे प्राप्ते कापिशीशब्दात् ष्फग्विधीयते।`बाह्लो` इत्यादि। बाह्लीत्यादिभ्यः ष्फग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रादिह चकारः सिंहावलोकितन्यायेनानुवर्तते, तस्यानुक्तसमुच्चयार्थत्वात् बाह्ल्यादिभ्योऽपि ष्फग्भवतीति॥ Prakriyasarvasvam ----------------- कापिशीदेशजातं कापिशायनं मधु । षित्त्वात्, कापिशायनी द्राक्षा । ‘बाह्ल्युर्दिपदिभ्यश्चेति वाच्यम् (वा०) । बाह्लायनः । औदयनः । पार्दायनः ॥ Vartika ------- बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् ।