42058: घञः साऽस्यां क्रियेति ञः =============================== **Padacheda:** घञः | S | 5 | 1 | सा | S | 1 | 1 | अस्याम् | S | 7 | 1 | क्रिया | S | 1 | 1 | इति | S | 0 | 0 | ञः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ञ added to a noun of action ending in the affix घञ् denotes an action occurring in that. Vasu English Translation ------------------------ The affix ञ added to a noun of action ending in the affix घञ् denotes an action occurring in that. These words are also feminine. The meaning of the words of the aphorism is:- घञः "after a word ending in the affix घञ्"; सा 'that', अस्यां 'in it', the feminine gender shows that the word is also feminine. क्रिया "action"; this qualifies the sense of the affix. To put it in other words, the *sutra* means "After a word ending in घञ्, expressing an action, being in the Ist case in construction, the affix ञ is added in the sense of a 7th case-affix, the resultant word being in the feminine gender". Thus श्येनपातोऽस्यां वर्तते - श्यैनंपाता, so also तैलंपाता ॥ The nasal is added by (6.3.71). Thus श्यैनंपाता मृगया 'a chase with hawks to bring down or fell the prey'. तैलंपाता स्वधा "an oblation to the ancestors in which sesamum is thrown". The repetition of सास्यां in this *sutra*, though its *anuvritti* could have been obtained from the last *sutra*, indicates that this is a general rule, and not one confined to "games" only. Thus दण्डपातोऽस्यां तिथौवर्तते = दाण्डपाता तिथिः; मौसलपाता तिथिः ॥ Kashika ------- सेति समर्थविभक्तिः। अस्यामिति प्रत्ययार्थः स्त्रीलिङ्गः। क्रियेति प्रकृत्यर्थविशेषणम्। घञ इति प्रकृतिनिर्देशः। इतिकरणो विवक्षार्थः। घञन्तात् क्रियावाचिनः प्रथमासमर्थादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रत्ययो भवति। घञ इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वमपि गृह्यते। श्येनपातोऽस्यां वर्तते श्यैनंपाता। तैलंपाता। घञ इति किम्? श्येनपतनमस्यां वर्तते। क्रियेति किम्? प्राकारोऽस्यां वर्तते। अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात् पुनरुपादीयते, यावता द्वयमपि प्रकृतमेव? क्रीडायामित्यनेन तत् संबद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि संभाव्येत। सामान्येन चेदं विधानम्। दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः। मौसलपाता तिथिः॥ Siddhanta Kaumudi ----------------- घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥ Balamanorama ------------ **घञः साऽस्यां क्रियेति ञः** - घञः सास्याम् । अस्यामित्यनन्तरंमृगयाया॑मित्यादि स्त्रीलिङ्गं विशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनो ञः स्यादित्यर्थः । फलितमाह — घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते । Tattvabodhini ------------- **घञः साऽस्यां क्रियेति ञः** - घञः । कृद्ग्रहणादिति । तेनश्यैनंपाते॑त्यत्रञ्णिती॑त्यङ्गस्य विधीयमाना वृद्धिः सिद्धा । श्येनपातस्यापि घञन्तत्वादिति भावः । घञः किम् । श्येनपतनमस्यां वर्तते । क्रिया किम् । प्राकारोऽस्यां वर्तते ।तदस्या॑मिति प्रकृते पुनःसास्या॑मित्युक्तिःक्रीडायां॑मित्यस्य निवृत्तिर्यथा स्यादिति । अतएवाह — । Padamanjari ----------- अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ् तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठयाः समासः, ततो ञः,'श्येनतिलस्य पाते ञः' इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात - दणाडपात इति ॥ Nyaas ----- `क्रियेति प्रकृतिविशेषणम्` इति। यत्र तद्घञन्तं क्रियावाचि चेद्भवतीति। तेन भावे यो घञ् तदन्तात् प्रत्ययो भवतीत्युक्तं भवति। ननु च भावे यो घञ् तेनैव तदन्तं क्रियावाचि? यस्माद्धात्वर्थस्य सिद्धता नाम यो धर्मस्तत्र घञादिभिर्भवितव्यमित्युक्तं प्राक्, धर्मधर्मिणोर्भेदस्याविवितत्वात् क्रियाधर्मोऽपि क्रियाशब्दनोक्त इत्यदोषः। `इतिकरणो विवक्षार्थः`इति। ननु च पर्वसूत्रादेवेतिकरणोऽनुवरितिष्यते,तत्क पुनरिह तस्योपादानम्? इतिकरणस्येह प्रकरणेऽनधिकारतां दर्शयितुं पुनरुपादानम्। तेन **तदधीते तद्वेद** (4.2.59) इत्यत्रास्येतिकरणस्याननुवृत्तौ विवक्षानियमाभावादध्येतृवेदितृमात्रे प्रत्ययः सिद्धो भवतीत्येके। वैचित्र्यार्थमितिकरणोपादानमित्यपरे। `श्यैनम्पाता` इति। `शल हुल पत्लृ गतौ` (धातुपाठः-843, 844,845) भावे घञ्, श्येनस्य पात इति षष्ठीसमासः। ञे विहिते **श्येनतिलस्य पाते ञे** (6.3.71) इत मुम्। `प्राकारः` इति। करोतेः प्रपूर्वात् **अकर्तरि च कारके संज्ञायाम्** (3.3.19) इति कर्मणि घञ्। **उपसर्गस्य घञ्यमनुष्ये बहुलम्** (6.3.122) इति प्रशब्दस्य दीर्घः। भवतीदं घञन्तम्; न तु क्रियावाचि; प्राकारस् द्रव्यत्वात्।`अथ`इत्यादि चोद्यम्। `क्रीडायामित्यनेन तत्सम्बद्धम्` इत्यादि परिहारः। स्यादेतत्नुवर्ततां क्रीडा, तस्याञ्चेदं प्रत्यविधानमिष्यत इत्यत आह - `सामान्येन च` इत्यादि॥ Prakriyasarvasvam ----------------- घञन्तात् सा क्रियास्यामस्तीत्यर्थे ञः स्यात् । अस्यामित्युक्त्या स्त्रीलिङ्गमेव विशेष्यम् । ध्वजपातः क्रियास्यामस्तीति, ध्वाजपाता तिथिः । मौसलपाता भूमिः ।।