42057: तदस्यां प्रहरणमिति क्रीडायाम् णः ======================================= **Padacheda:** तत् | S | 1 | 1 | अस्याम् | S | 7 | 1 | प्रहरणम् | S | 1 | 1 | इति | S | 0 | 0 | क्रीडायाम् | S | 7 | 1 | णः | S | 1 | 1 | Sutrartha --------- **प्रथमासमर्थात् प्रहरणवाचिनः शब्दात् क्रीडां द्योतयितुम् ण-प्रत्ययः भवति ।** यदि कस्याश्चन क्रीडायाः वर्णनम् तस्याम् क्रीडायाम् प्रयुज्यमाणेन प्रहारस्य साधनेन करणीयमस्ति, तर्हि तस्मात् प्रथमासमर्थात् प्रहारसाधनवाचिनः शब्दात् 'ण' प्रत्ययः भवति । यथा - 1. दण्डः प्रहरणमस्यां क्रीडायाम् सा = दाण्डा क्रीडा । 2. मुष्टिः प्रहरणमस्यां क्रीडायाम् सा = मौष्टा क्रीडा । अत्र तद्धितान्तशब्दः 'क्रीडा' इत्यस्य विशेषणरूपेण आगच्छति, अतः तस्य टाप्-प्रत्ययान्तम् स्त्रीलिङ्गरूपम् प्रयुज्यते । यथा - दण्ड + ण + टाप् → दाण्डा । मुष्टि + ण + टाप् → मौष्टा । ज्ञातव्यम् - 1. अस्मिन् सूत्रे निर्दिष्टे अर्थे 'ण' इति प्रत्ययः उक्तः अस्ति । अतः अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययविधानम् न भवति, ण-प्रत्ययविधानम् एव भवति । वस्तुतः अण् ( = अ + ण्) तथा ण (= ण् + अ) द्वयोः प्रक्रिया समाना एव, परन्तु अण्-प्रत्ययान्तशब्दानां विषये स्त्रीत्वे विवक्षिते **टिड्ढाण्...** (4.1.5) इत्यनेन ङीप्-प्रत्ययः भवति । अत्र वस्तुतः 'टाप्' प्रत्ययः कर्तव्यः । अतः आचार्यः अत्र 'ण' प्रत्ययविधानम् करोति । ण-प्रत्यये अपि तौ एव वर्णौ स्तः यौ अण्-प्रत्यये स्तः, अतः ण-प्रत्ययस्य अङ्गकार्यमन्तिमरूपम् च अण्-प्रत्ययवत् एव भवति । (दण्ड + अण् → दाण्ड, दण्ड + ण → दाण्ड ।) परन्तु ण-प्रत्ययस्य **टिड्ढाण्...** (4.1.5) अस्मिन् सूत्रे निर्देशाभावात् स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययः एव भवति, येन आवश्यकम् रूपम् सिद्ध्यति । 2. अस्मिन् सूत्रे 'प्रहरणम्' तथा 'क्रीडा' द्वयोः निर्देशः कृतः अस्ति । अतः यत्र 'केवलं प्रहरणम्' उत 'केवलं क्रीडा' वर्तते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - अ) 'दण्डः प्रहरणमस्यां सेनायाम्' इत्यत्र क्रीडायाः अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । आ) 'माला भूषणमस्यां क्रीडायाम्' इत्यत्र प्रहरणस्य अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । Sutrartha (English) ------------------- To indicate a sport using an entity used for hitting in that sport, an appropriate तद्धितप्रत्यय gets attached to the प्रथमासमर्थ word indicating the name of the entity used for hitting. Vasu English Summary -------------------- The affix ण to the name of a weapon indicates a game played with that weapon. Vasu English Translation ------------------------ The affix ण to the name of a weapon indicates a game played with that weapon. The *sutra* literally translated means: 'that is the weapon in this, denoting play; the affix ण is added' i. e. to a word in the first case in construction, denoting the name of a weapon; ण is added to denote a play. Thus दण्डः प्रहरणमस्यां क्रीडायां = दाण्डा "a game played with sticks". So मौष्टा "a game played with fists". Why do we say 'a weapon'? Observe माला भूषणमस्यां क्रीडायाम् 'the garland is an ornament in this play'. Here no affix is added to माला ॥ Why do we say 'in denoting a game'? Observe:- खड्गः प्रहरणमस्यां सेनायाम् 'the sword is the weapon in this army'. These words are as a rule in the feminine gender (4.1.4) and (4.1.15), the feminine being formed by आ ॥ Kashika ------- तदिति प्रथमासमर्थादस्यामिति सप्तम्यर्थे णः प्रत्ययो भवति, यत् तदिति निर्दिष्टं प्रहरणं चेत् तद् भवति। यदस्यामिति निर्दिष्टं क्रीडा चेत् सा भवति। इतिकरणस्ततश्चेद् विवक्षा। दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। मौष्टा। प्रहरणमिति किम्? माला भूषणमस्यां क्रीडायाम्। क्रीडायामिति किम्? खङ्गः प्रहरणमस्यां सेनायाम्॥ Siddhanta Kaumudi ----------------- दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥ Balamanorama ------------ **तदस्यां प्रहरणमिति क्रीडायाम् णः** - तदस्यां ।तत् अस्यां क्रीडायां प्रहरण॑मित्यर्थ प्रथमान्तात् प्रहरणवाचनकाण्णप्रत्ययः स्यादित्यर्थः । प्रह्यियते अनेनेति प्रहरणम् — आयुधम् । दाण्डेति । अणि तु ङीप् स्यादिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः । Tattvabodhini ------------- **तदस्यां प्रहरणमिति क्रीडायाम् णः** - तदस्यां । प्रथमान्तात्प्रहरणोपाधिकात्सप्तम्यन्तार्थे णः स्यात्, स चेत्सप्तान्यन्तार्थः क्रीडा भवति । प्रहरणं किम् । माला भूषणमस्याम् । क्रीडायां किम् । खङ्गः प्रहणमस्यां सेनायाम् । Prakriyasarvasvam ----------------- तदस्यां प्रहरणसाधनमित्यर्थे, क्रीडायां वाच्यायां णः स्यात् । अणि डीब्भयाण्ण उक्तः । दण्डः प्रहरणमस्यां क्रीडायामिति दाण्डा । मौष्टा ।।