42056: संग्रामे प्रयोजनयोद्धृभ्यः ================================= **Padacheda:** सङ्ग्रामे | S | 7 | 1 | प्रयोजन-योद्धृभ्यः | S | 5 | 3 | Sutrartha --------- **प्रथमासमर्थात् प्रयोजनवाचिनः / योद्धावाचिनः शब्दात् सङ्ग्रामस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।** यदि कश्चन सङ्ग्रामः तस्य 'प्रयोजनमनुसृत्य' / 'योद्धॄन् अनुसृत्य' वा वर्ण्यते, तर्हि तस्य सङ्ग्रामस्य निर्देशं कर्तुम् वर्तमानसूत्रेण प्रथमासमर्थात् प्रयोजनवाचिनः शब्दात् / योद्धृवाचिनः शब्दात् यथाविहितः प्रत्ययः भवति । यथा - 1. भद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = भद्रा + अण् → भाद्रः सङ्ग्रामः । 2. सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = सुभद्रा + अण् → सौभद्रः सङ्ग्रामः । 3. भरताः योद्धारः अस्य सङ्ग्रामस्य सः = भरत + अण् → भारतः सङ्ग्रामः । 4. अहिमालाः योद्धारः अस्य सङ्ग्रामस्य सः = अहिमाला + अण् → आहिमालः सङ्ग्रामः । Sutrartha (English) ------------------- To indicate a battle using the purpose or the participants of that battle, an appropriate तद्धितप्रत्यय can be attached to the word in the प्रथमा विभक्ति which represents the purpose or the participants of the battle. Vasu English Summary -------------------- The affix अण् -- प्राग्दीव्यतोऽण् (4.1.83) when it is added to a word which denotes either the object of a battle or the warrior of a battle fought for that object or by that warrior as a leader. Vasu English Translation ------------------------ The affix अण् -- प्राग्दीव्यतोऽण् (4.1.83) when it is added to a word which denotes either the object of a battle or the warrior of a battle fought for that object or by that warrior as a leader. The phrase सोऽस्य is understood here; showing that the word in construction to which the affix is to be added must be in the first case: and must be the name of the "object" प्रयोजनः, or of the "warrior" योद्धृ ॥ The whole word so formed must denote a 'battle'. Therefore, the word संग्राम gives the meaning of the affix. This भद्रा प्रयोजनमस्य संग्रामस्य = भाद्रः "A battle fought for *Bhadra*". So also सौभाद्रः "a battle fought to gain *Subhadra*". Similarly अहिमाला योद्धारोऽस्य संग्रामस्य = आहिमालः 'battle led by *Ahimala* warriors' So also स्यान्दनाश्वः, भारतः ॥ Why do we say "in the sense of a battle?" Observe सुभद्रा प्रयोजनमस्य दानस्य '*Subhadra* is the object of this gift'. Here no affix is added. Why do we say 'after a word denoting an object or a warrior'? Observe, सुभद्रा प्रेक्षिकाऽस्य संग्रामस्य । Kashika ------- सोऽस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषणं संग्रामः। प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्योऽस्येति षष्ठ्यर्थे संग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः — अहिमाला योद्धारोऽस्य संग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। संग्राम इति किम्? सुभद्रा प्रयोजनमस्य दानस्य। प्रयोजनयोद्धृभ्य इति किम्? सुभद्रा प्रेक्षिकास्य संग्रामस्य॥ Siddhanta Kaumudi ----------------- सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥ Balamanorama ------------ **संग्रामे प्रयोजनयोद्धृभ्यः** - संग्रामे । अनुवर्तते इति । तथाच 'संग्रामे' इति सप्तम्यन्तं षष्ठआ विपरिणतमस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः । Tattvabodhini ------------- **संग्रामे प्रयोजनयोद्धृभ्यः** - संङ्ग्रामे । ननुप्रथमा॑दित्यधिकारात्प्रथमोच्चारितसङ्ग्रामवाचिन एव प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्य इत्यत आह — सोऽस्येतीति । एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम् ।अस्ये॑ति प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययर्थत्वं वक्तुं शक्यमिति भावः । तता चयमिह सूत्रार्थः — प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठन्तार्थेऽण् स्यात्, स च षष्ठआन्तार्थः । संग्रामश्चेदिति । Padamanjari ----------- 'समर्थानां प्रथमाद्वा' इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह -सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्द्वारेण संग्रामश्चरमनिर्दिष्टः ॥ Nyaas ----- अत्र `संग्रामे` इति प्रत्ययार्थ इति, सप्तम्यन्तत्वात्। `प्रयोजनयोद्धृभ्यः` इति पञ्चम्यन्तत्वात् प्रकृतिनिर्देशः, ततश्च **समर्थानां प्रथमाद्वा** (4.1.82) इत्येतद्विरुध्यते; प्रथमस्य प्रत्ययार्थत्वेन द्वितीयस्य प्रकृतित्वेनोपादीयमानत्वादित्यस्य चोद्यस्य निरासायाह - `सोऽस्येति समर्थविभक्तिः प्रत्ययार्थश्चानुवर्तते` इति। एतेनैतद्दर्शयति - `प्रयोजनयोद्धृभ्यः` इत्येतदेवमर्थं यस्मात् पूर्वसूत्रादेव स इति प्रथमं तदिहानुवर्तते, तद्वशेषणं तु प्रयोजनयोद्धृभ्य इति। प्रत्ययाथोऽप्यस्येति पूर्वसूत्रादनुवर्तते, तद्विशेषणं संग्रामः, तत्रो नास्ति विरोधः; पूर्वसूत्रे यत् प्रथमानिर्दिष्टं तत एव प्रत्ययविधानादिति॥ Prakriyasarvasvam ----------------- सोऽस्यं प्रयोजनं सोऽस्य योद्धेति चार्थे सङ्ग्रामे वाच्ये अणादिः स्यात् । सुभद्रा प्रयोजनमस्य, सौभद्रो रणः । भरता योद्धारोऽस्य, भारतं युद्धम् । एवं स्त्रीप्रयोजनः स्त्रैणो रणः ।।