42037: तस्य समूहः ================= **Padacheda:** तस्य | S | 6 | 1 | समूहः | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।** 'समूह' इत्युक्ते 'समुच्चयः' । षष्ठीसमर्थात् समूहस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः विधीयते । यथा - 1. काकानाम् समूहः = काक + अण् → काक । 2. बकानाम् समूहः = बक + अण् → बाक । समूहवाचिनः शब्दाः प्रयोगवशात् नित्यम् नपुंसकलिङ्गे भवन्ति । यथा - काकानां समूहः काकम्, बकानां समूहः बाकम् । अस्मिन् अर्थे अण्-प्रत्ययस्य भिन्नाः अपवादाः एतादृशाः उक्ताः सन्ति - 1. भिक्षादिगणे विद्यमानानाम् शब्दानाम् विषये सर्वान् अपवादान् बाधित्वा **भिक्षादिभ्यः अण्** (4.2.38) इत्यनेन अण्-प्रत्ययः एव भवति । 2. अचित्तवाचिनः शब्दात्, तथा 'हस्तिन्' / 'धेनु' एताभ्याम् शब्दाभ्याम् **अचित्तहस्तिधेनोः ठक्** (4.2.47) अनेन सूत्रेण अण्-प्रत्ययस्य अपवादरूपेण ठक्-प्रत्ययः भवति । 3. ये शब्दाः अनुदात्तादयः सन्ति, तेषां विषये **अनुदात्तादेः अञ्** (4.2.44) इत्यनेन अञ्-प्रत्ययः विधीयते । 4. भिन्नानां गणानां विषये अण्-प्रत्ययस्य अपवादरूपेण केचन अन्ये भिन्नाः अपवादाः अपि प्रोक्ताः सन्ति । एतेषां सर्वेषामपवादानाम् सङ्कलनम् अत्र दृश्यताम् । Sutrartha (English) ------------------- To indicate the meaning of 'collection / group', a षष्ठीसमर्थ word gets an appropriate तद्धितप्रत्यय. Vasu English Summary -------------------- An affix is added to a word when the sense is 'a collection thereof'. Vasu English Translation ------------------------ An affix is added to a word when the sense is 'a collection thereof'. The affix अण् (4.7.83) already taught, is added to a word in the 6th case in construction, in the sense of collection. What is the example of this? In order to apply the affix अण्, we must apply it to those words only, to which the special rules hereinafter taught do not apply. In other words, the affix अण् is added in the sense of collection thereof, to a word which denotes a conscious being, which has *udatta* accent on the first syllable, which does not end with a *Gotra*-affix, and which is not a word specifically mentioned in the subsequent *sutras*. For, a word expressing a non-conscious being, will take the affix ठक् by (4.2.47), a word having *anudatta* on the first syllable will have the affix अञ् (4.3.44), a *Gotra* word will take वुञ् (4.2.39) and especial words like केदार &c take यञ् &c. Making all these exclusions, the example we is:- काकानां समूहः = काकम् 'a collection of crows' बाकम् ॥ The phrase तस्य समूहः of this aphorism governs all the subsequent *sutras* up to *sutra* (4.2.51) inclusive. Vart:- The affix ग्रामच् comes after the words गुण् &c. As गुणग्रामः 'a collection of qualities', करणग्रामः &c. The following is some of such words:- गुण, करण, तत्व, शब्द, इन्द्रिय, &c. It is an *akritigana*. Kashika ------- तस्येति षष्ठीसमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किमिहोदाहरणम्? चित्तवदाद्युदात्तमगोत्रम् यस्य च नान्यत् प्रतिपदं ग्रहणम्। अचित्ताट् ठकं (४.२.४७) वक्ष्यति, **अनुदात्तादेरञ्** (४.२.४४) गोत्राद् वुञ् (४.२.३९) प्रतिपदं च **केदाराद् यञ् च**(४.२.४०) इत्येवमादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। **इनित्रकट्यचश्च** (४.२.५१) इति यावत् समूहाधिकारः॥ गुणादिभ्यो ग्रामज् वक्तव्यः॥ गुणग्रामः। करणग्रामः॥ गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगणः॥ Siddhanta Kaumudi ----------------- काकानां समूहः काकम् । बाकम् ॥ Laghu Siddhanta Kaumudi ----------------------- काकानां समूहः काकम् ॥ Balamanorama ------------ **तस्य समूहः** - तस्य समूहः । इनित्रकठचस्चे॑ति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः ।अचित्तहस्तिधेनोष्ठ॑गित्याद्यपवादविषयं परिह्मत्योदाहरति — काकं बाकमिति.समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । Tattvabodhini ------------- **तस्य समूहः** - तस्य समूहः । इहअचित्ताठ्ठक्,अनुदात्तादेरञ्, गोत्रान्ताद्वुञ्,केदाराद्यञ्च॑इत्यादिना प्रतिपदं यञादीश्त वक्ष्यति । तथा च चित्तवदाद्युदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्यशयेनोदाहरति -काकम् । बाकमिति । एवं वार्कम् । काकबकवृकशब्दाःप्राणिनां कुपूर्व॑मिति फिट्सूत्रेणाद्युदात्ताः । प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे, तेषामुदात्तः स्यादिति सूत्रार्थः ।अथादिः प्राक् शकटेः॑इत्यधिकारात् । यत्तु वृत्तिन्यासयोः शौकमित्युहाह्मतं, तदुपेक्ष्यम् । खण्डिकादिषु शुकशब्दस्य पाठातत्राऽञा भाव्यमिति हरदत्तादयः । Padamanjari ----------- सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति - किमिहोदाहरणमिति । काकशुकवकशब्दा आद्यौदाताः'प्राणिनां कुपूर्वाणाम्' इत्यनेन, अस्यार्थः - व्यधिकरणे षष्ठयौ, अथादिः प्राक् शकटेरित्यत आदिरित्यनुवृतं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदातो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात् । वकशब्दस्तूदाहार्यः ॥ Nyaas ----- `काकम्, शौकम्, बाकम्` इति। काकशुकबकशब्दा आद्युदात्ताः।`प्राणिनां कुपूर्वाणाम्` (फि।सू।2।30) इत्यनेन। अस्यायमर्थः - प्राणिविशेषवाचिनां शब्दानां आदिभूताः कवर्गात् तेषामुदात्तो भवतीति॥ Prakriyasarvasvam ----------------- षष्ठ्यन्तात् समूहार्थेऽणादिः स्यात् । काकानां समूहः काकम् । वाकम् । Sutra Prayogas -------------- * **नगापगा** (शिशुपालवधम्): `तस्य समूहः` इत्यण्।