42034: कालेभ्यो भववत् ===================== **Padacheda:** कालेभ्यः | S | 5 | 3 | भववत् | S | 0 | 0 | Sutrartha --------- **'तत्र भव' अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः विधीयन्ते, ते एव 'सा अस्य देवता' अस्मिन् अर्थे अपि विधीयन्ते ।** **तत्र भवः** (4.3.53) इति कश्चन प्राग्दीव्यतीय-अर्थः । अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव **सा अस्य देवता** (4.3.24) अस्मिन् अर्थे अपि तेभ्यः भवन्ति । यथा - 1. मास-शब्दात् **तत्र भवः** (4.3.53) इत्यस्मिन् अर्थे **कालात् ठञ्** (4.3.11) इत्यनेन ठञ्-प्रत्ययः भवति । अतः **सा अस्य देवता** (4.3.24) अस्मिन् अर्थे अपि मास-शब्दात् ठञ्-प्रत्ययः एव करणीयः । मासः अस्य देवता सः = मास + ठञ् → मासिकः । 2. 'वसन्त' (ऋतोः नाम) अयमपि कालवाची शब्दः । अस्मात् शब्दात् **संधिवेलाद्यृतुनक्षत्रेभ्योऽण्** (4.3.16) अनेन सूत्रेण **तत्र भवः** (4.3.53) इत्यस्मिन् अर्थे अण्-प्रत्ययः दीयते । अतः **सा अस्य देवता** (4.3.24) अस्मिन् अर्थे अपि वसन्त-शब्दात् अण्-प्रत्ययः एव करणीयः । वसन्तः अस्य देवता सः = वसन्त + अण् → वासन्तः । 3. 'प्रावृष्' (वर्षाऋतुः) अस्मात् कालवाचीशब्दात् **प्रावृष एण्यः** (4.3.17) इत्यनेन **तत्र भवः** (4.3.53) इत्यस्मिन् अर्थे एण्य-प्रत्ययः उक्तः अस्ति । अतः **सा अस्य देवता** (4.3.24) अस्मिन् अर्थे अपि प्रावृष्-शब्दात् एण्य-प्रत्ययः एव करणीयः । प्रावृट् अस्य देवता सः = प्रावृषेण्यः । ज्ञातव्यम् - एतत् सूत्रम् 'अतिदेशसूत्रम्' अस्ति, यतः अन्यसूत्रस्य विधानं कृत्वा तादृशमेव कार्यमत्रापि उक्तमस्ति । Sutrartha (English) ------------------- For the कालवाची words, the same प्रत्यय that is provided for the meaning 'तत्र भवः' comes for the meaning 'सा अस्य देवता' as well. Vasu English Summary -------------------- After the words expressive of time, the affixes denoting 'who stays there' -- कालाट्ठञ् (4.3.11) to तत्र भवः (4.3.53), come also in the sense of 'this its deity'. Vasu English Translation ------------------------ After the words expressive of time, the affixes denoting 'who stays there' -- कालाट्ठञ् (4.3.11) to तत्र भवः (4.3.53), come also in the sense of 'this its deity'. Thus by (4.3.11) (read with (4.3.53)), the affix ठञ् comes after the words expressive of time, in the sense of 'who stays there'. The same affix will also come in the sense of साऽस्यदेवता ॥ Thus मासे भवं = मासिकम् (मास + ठञ् = मास = इक (7.3.50)); अर्द्धमासिकम्, सांवत्सरिकम्, वासन्तम् (4.3.16), प्रावृषेण्यम् (4.3.17) : meaning 'monthly', 'half monthly', 'annual', 'vernal', and 'rainy'. The words will also mean 'an oblation sacred to a month i.e' as मासो देवताऽस्य मासिकम् ॥ &c. Kashika ------- कालविशेषवाचिभ्यो शब्देभ्यो भववत् प्रत्यया भवन्ति सास्य देवतेत्यस्मिन् विषये। **कालाट् ठञ्** (४.३.११) इति प्रकरणे भवे प्रत्यया विधास्यन्ते, ते सास्य देवतेत्यस्मिन्नर्थे तथैवेष्यन्ते, तदर्थमिदमुच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवतास्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्॥ Siddhanta Kaumudi ----------------- मासिकम् । प्रावृषेण्यम् ॥ Balamanorama ------------ **कालेभ्यो भववत्** - कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, तेसाऽस्य देवते॑त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः । मासिकमिति । मासो देवता अस्येति विग्रहः । कालाट्ठञ् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः ।प्रावृष एण्यः॑ । Tattvabodhini ------------- **कालेभ्यो भववत्** - कालेभ्यो । कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते तेसास्य देवता॑इत्यस्मिन्नर्थेऽनेनातिदिश्यन्ते । वत्करणं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्तस्मात्स एव भवति नाऽन्यः । तथैवोदाहरति -मासिकम् । प्रावृषेण्यमिति ।कालाठ्ठञ् ।प्रावृष एण्यः ।मातृपितृभ्यां पितरि डामहच् । डामहजिति । एतच्च वृत्त्याद्यनुरोधेनोक्तं । भाष्ये तु आनङादेशो महच् प्रत्ययश्च निपात्यते । तेनावग्रहः सिध्यतीत्युकतम् ।अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः । सकारपाठेति । अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः । एतच्च मनोरमायां स्थितम् । अन्ये तूक्तरीत्य ।अविसोढ॑ मित्यत्र षत्वनिवारणेऽपिअविदूस॑मित्यादौ स्यादेव षत्वम् । तत्र हि ण्यन्तात्क्विपिअविदूः॑इत्यादिरूपसिद्धये सकारपाठसामर्थ्यस्योपक्षीणत्वात् । तस्मात्अविसोढ॑मित्यादि भाष्यकृदुदाहरणेषु सकारपाठसामर्थ्यादिति व्याख्येयमित्याहुः । Padamanjari ----------- कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । वत्कारणमित्यादि । असति वत्करणे'कालेभ्यो भवः' इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते'सास्य देवता' इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्, ततश्च'कालट्ठञ्' इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः - भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च'दिगादिभ्यो यत्' इति यत् प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः - कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत् श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद् ऋतुभ्योऽण् मुहूर्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ॥ Nyaas ----- बहुवचनग्रहणेन स्वरूपग्रहणे निरस्ते, कालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह - `कालविशेषवाचिभ्यः` इत्यादि। `वत्करणम्` इत्यादि। सर्वस्य सादृश्यस्य परिग्रहो यथा स्यादित्येवमर्थ वत्करणम्। `कालेभ्यो भवः` इत्युच्यमाने यदि तावत् कालग्रहणं भवप्रत्ययैः सम्बध्यते? भवेऽर्थे कालेभ्यो विधास्यन्ते ये प्रत्ययास्ते **सास्य देवता** (4.2.24) इत्येतस्मिन्नर्थे भवन्ति, तदा च देवताप्रकृतिरविशेषिता स्यात्। एवञ्च देवतामात्रवाचिनः प्रातिपदिकादविशेषेण प्रत्ययाः प्रसज्येरन्। अथ देवताप्रकृतिभिः कालग्रहणं सम्बध्यते? भवे ये विधास्यन्ते ते प्रत्ययाः कालेभ्यो देवताभ्यः प्रसज्येरन्। अथाप्युभयेषां सन्निधानाद्विशेष्यभेदेन वाक्यभेदाच्च प्रत्ययैः प्रकृतिभिश्च सम्बध्यते - कालेभ्यो भवेऽर्थे विधास्यन्ते ये प्रत्ययास्ते कालेभ्यो देवताभ्यो भवन्तीति? एवमपि यः कश्चित् कालप्रकृतिः प्रत्ययो यतः कुतश्चित् कालाद्देवतायाः स्यात्, ऋतुभ्योऽण् मुहूर्तादिभ्योऽपि स्यात्। वतौ तु सति तस्य सादृश्यविधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवार्थे विधास्यन्ते, इहापि ताभ्य ए प्रकृतिभ्यस्तेनैव व#इशेषणेन त एव प्रत्यया भवन्तीति न बवत्यनिष्टप्रसङ्गः। `{वासन्तम् -काशिका} वासन्तः`इति। `सन्धिवेलादि` (4.3.16) सूत्रेणाण्। `{प्रावृषेण्यम् -काशिका} प्रावृषेण्यः` इति। **प्रावृष एण्यः** (4.3.17) ॥ Prakriyasarvasvam ----------------- भवार्थे ‘कालाट्ठञ्’ (४-३-११) इत्याद्या वक्ष्यन्ते । तेऽत्रापि स्युः । ठञि मासदेवत्यं मासिकम् ॥