42005: संज्ञायां श्रवणाश्वत्थाभ्याम् ==================================== **Padacheda:** संज्ञायाम् | S | 7 | 1 | श्रवण-अश्वत्थाभ्याम् | S | 5 | 2 | Sutrartha --------- **'युक्तः कालः' अस्मिन् अर्थे 'श्रवण' तथा 'अश्वत्थ' शब्दाभ्याम् प्रयुक्तस्य तद्धितप्रत्ययस्य संज्ञायाः निर्देशे लुप् भवति ।** Vasu English Summary -------------------- The affix above ordained is elided by लुप् after the words 1. श्रवण and 2. अश्वथ when the whole word so formed is an appellation and there is specification of time. Vasu English Translation ------------------------ The affix above ordained is elided by लुप् after the words 1. श्रवण and 2. अश्वथ when the whole word so formed is an appellation and there is specification of time. Thus श्रवणा रात्रिः, अश्वत्थो मुहूर्तः "the night called *Sravana*; the *Muhurta* called *Asvattha*". The affix being elided by '*lup*', why should not (1.2.51) apply here? We should say श्रवणा रात्रिः and not श्चवण रात्रिः The reason is that श्रवणा is an irregularly formed word, as *Panini* himself uses it in *sutra* (4.2.23). Why do we say 'when it is a Name or *Sanjna*'? Observe श्रावणी or आश्वत्थी रात्रिः । Bhashya ------- संज्ञायां श्रवणाश्वत्थाभ्याम्( 1428) (श्रवणाशब्दसाधकं भाष्यम्) इह कस्मान्न युक्तवद्भावो भवति -श्रवणा रात्रिः? निपातनादेतत्सिद्धम्। किं निपातनम्? विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4.2.23) इति॥ Kashika ------- अविशेषे लुब् विहितः पूर्वेण, विशेषार्थोऽयमारम्भः। श्रवणशब्दादश्वत्थशब्दात् चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये। श्रवणा रात्रिः। अश्वत्थो मुहूर्तः। लुपि युक्तवद्भावः कस्माद् न भवति ? निपातनाद् **विभाषा फाल्गुनीश्रवणाकार्तिकी०** (४.२.२३) इति। संज्ञायामिति किम्? श्रावणी, आश्वत्थी रात्रिः॥ Siddhanta Kaumudi ----------------- विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥ Balamanorama ------------ **संज्ञायां श्रवणाश्वत्थाभ्याम्** - संज्ञायाम् । श्रवणाऽआत्थाभ्यां परस्य नक्षत्र प्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु लुबविशेषे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः ।विभाषा फाल्गुनीश्रवणे॑ति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वादपोर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतःश्रवणा रात्रि॑रिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अआत्थो मुहूर्त इति । अआत्थो नाम अइआनीनक्षत्रम् । तेन युक्तः अआत्थः — मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः । Padamanjari ----------- विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्,'श्रवणाकार्तिकी' इत्यसंज्ञायामपि लुपो दर्शनाच्च । लुपि युक्तवद्भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; ठण् योऽकारःऽ इति विज्ञानात् ॥ Nyaas ----- `लुपि युक्तवद्भावः कस्मान्न भवति` इति। यदि स्यात्, श्रवणशब्दस्य पुंल्लिङ्गता स्यात्। `निपातनात्` इत्यादिना परिहारः। गतार्थः॥ Prakriyasarvasvam ----------------- आभ्यां तेन युक्त इति जातस्याणः संज्ञायां लुप् स्यात् । श्रवणा पौर्णमासी । श्रावणीत्यपीष्टम् । अश्विनीनक्षत्रमश्वत्थः । तद्युक्तोऽश्वत्थो मुहूर्तः ॥