42001: तेन रक्तं रागात् ======================= **Padacheda:** तेन | S | 3 | 1 | रक्तम् | S | 1 | 1 | रागात् | S | 5 | 1 | Sutrartha --------- **तृतीयासमर्थात् रागवाचिनः सुबन्तात् 'रक्तम्' अस्मिन् अर्थे अण् प्रत्ययः भवति ।** प्राग्दीव्यतीय-अर्थेषु विद्यमानेभ्यः 44 अर्थेभ्यः अयम् द्वितीयः अर्थः । रागवाचिनः शब्दात् (यथा - नील, धवल, पीत, कषाय - आदयः) 'रक्तम्' (इत्युक्ते 'वर्णान्तरं प्राप्तम्') अस्मिन् अर्थे यथायोग्यः तद्धिप्रत्ययः अनेन सूत्रेण विधीयते । यथा - 1. कषायेण रक्तम् (वस्त्रम्) = कषाय + अण् = काषायम् वस्त्रम् । 2. मञ्जिष्ठेन रक्तम् (वसनम्) = मञ्जिष्ठ + अण् = माञ्जिष्ठम् वसनम् । 3. कुसुम्भेन रक्तम् (अम्बरम्) = कुसुम्भ + अण् = कौसुम्भमम्बरम् । अस्मिन् अर्थे अण्-प्रत्ययस्य अपवादरूपेण एते अपवादाः विधीयन्ते - 1. **लाक्षारोचनाशकलकर्दमात् ठक्** (4.2.2) इत्यनेन लाक्षा, रोचना, कर्दमा - एतेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । लाक्षया रक्तम् लाक्षिकम् । रोचनया रक्तम् रोचनिकम् । कर्दमेन रक्तम् कार्दमिकम् । 2. - अनेन वार्त्तिकेन 'पीत' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् । 3. - अनेन वार्त्तिकेन 'नीली' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे अन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् । 4. - अनेन वार्त्तिकेन 'हरिद्रा, महारजना' एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् । अत्र बिन्दुद्वयं स्मर्तव्यम् - 1. 'रक्तम्' इत्यर्थं विहाय अन्येषु अर्थेषु अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'कषायेन धूतम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते । 2. 'रागवाचिनम् शब्दम्' विहाय अन्येषां शब्दानां विषये अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'देवदत्तेन रक्तम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते । ज्ञातव्यम् - 1. 'राग' अयम् शब्दः 'रज्' धातोः करणे घञ्-प्रत्ययं कृत्वा सिद्ध्यति । रज्यते अनेन (इत्युक्ते, वर्णान्तरं प्राप्यते अनेन) सः रागः । यथा - नील, पीत, हरित - आदयः । 2. 'रक्त' अयम् शब्दः 'रज्' धातोः क्त-प्रत्ययं कृत्वा सिद्ध्यति । रक्तम् इत्युक्ते 'वर्णान्तरं प्राप्तम्' । 3. 'अण्' तथा 'अञ्' - द्वयोः प्रत्यययोः प्रयोगेण रूपं तु समानं जायते, परन्तु निर्मिते पदे स्वरभेदः दृश्यते । ञित्-प्रत्ययान्तशब्दाः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन आद्युदात्ताः भवन्ति । Sutrartha (English) ------------------- To express the meaning of 'colored by', an appropriate प्रत्यय gets added to the तृतीयासमर्थ word representing the name of the color. Vasu English Summary -------------------- The affix अण् already ordained -- प्राग्दीव्यतोऽण् (4.1.83), comes after the name of a colour in the sense of 'coloured thereby'. Vasu English Translation ------------------------ The affix अण् already ordained -- प्राग्दीव्यतोऽण् (4.1.83), comes after the name of a colour in the sense of 'coloured thereby'. The verb रञ्ज् means to change white into another color. That by which a thing is coloured is called रागः 'color'. तेन 'by which', i.e. after a word in the instrumental case in construction, being the name of a particular colour. Thus कषायेण रक्तं वस्त्रं = काषायम् 'a cloth coloured of a dull red'. So also मांजिष्ठम्, कौसुम्भम् ॥ Why do we say रागात् "after the name of a color"? Observe देवदत्तेन रक्तं वस्त्रम्, here the affix अण् will not come after the word '*Devadattena*', for though it is in construction in the instrumental case, yet it is not the name of a colour. In the sentence "काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कटस्यादौ" the words काषाय and हारिद्र are used metaphorically. From this *sutra* up to (4.2.12) inclusive, the affixes are to be added to the word which is in the instrumental case in construction in a sentence (4.1.82): as in the last chapter, the affixes were added to a word in the genitive case. Bhashya ------- तेन रक्तं रागात् (1424) (रक्तार्थाधिकरणम्) (पदकृत्यभाष्यम्) रागादिति किमर्थम्? देवदत्तेन रक्तं वस्त्रम्॥ (5328 रागात् पदानर्थक्यबोधकं वार्तिकम्॥ 1 ॥) - रक्तादीनामर्थाभिधाने प्रत्ययविधानादुपाध्यानर्थक्यम् - (भाष्यम्) रक्तादीनामर्थाभिधाने प्रत्ययविधानादुपाधिग्रहणमनर्थकम्। न ह्यरागादुत्पद्यमानेन प्रत्ययेनार्थाभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति॥ Kashika ------- शुक्लस्य वर्णान्तरापादानमिह रञ्जेरर्थः। रज्यतेऽनेनेति रागः। तेनेति तृतीयासमर्थाद् रागविशेषवाचिनः प्रातिपदिकाद् रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। कषायेण रक्तं वस्त्रं काषायम्। माञ्जिष्ठम्। कौसुम्भम्। रागादिति किम्? देवदत्तेन रक्तं वस्त्रम्। कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति? उपमानाद् भविष्यति, काषायाविव काषायौ, हारिद्राविव हारिद्रौ। **द्वैपवैयाघ्रादञ्** (४.२.१२) इति यावत् तृतीयासमर्थविभक्तिरनुवर्तते॥ Siddhanta Kaumudi ----------------- रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥ Laghu Siddhanta Kaumudi ----------------------- अण् स्यात् । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥ Balamanorama ------------ **तेन रक्तं रागात्** - तेन रक्तं रागात् । रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घञि कृतेगञि च भावकरणयो॑रिति नलोपेचजोः कुघिण्ण्यतो॑रिति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः । तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति ।तेने॑ति सामान्यनिर्देशः । तथाच तेन रक्तं=वर्णान्तरं प्राप्तमित्यर्थे, रागात्=रञ्जनद्रव्यवाचकात्तृतीयान्तादण् स्यादित्यर्थः,प्राग्दीव्यतोऽणि॑त्यधिकारात् । कषायेणेति । कषायो धातुविशेषः, रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः । माञ्जिष्ठमिति । मञ्जिष्ठानाम रञ्जनद्रव्यविशेषः । Tattvabodhini ------------- **तेन रक्तं रागात्** - तेन रक्तं । तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः त्युः । रज्यतेऽनेनेतीति । बाहुलकात्करणे घञ् । राग इति । रञ्जकद्रव्यमित्यर्थः । शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । Padamanjari ----------- रञ्जिरयमस्त्येवाभिष्वङ्गे - भोजने रक्त इति; अस्ति वर्णविशेषे - रक्ता गौः, लोहितेत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने - रक्तः पट इति । तत्राद्ययोरर्थयोर्ग्रहणे, रूपेण कान्तायां रक्तः, कोपेन रक्तं मुखमित्यत्रापि प्राप्नोतीति मन्यमानस्तृतीयमर्थमाश्रित्याह - शुक्लस्येत्यादि । एतच्चाभिधानस्वाभाव्याल्लभ्यते । रज्यतेऽनेन राग इति ।'घञी च भावकरणयोः' इति नलोपः । भावसाधनस्तु रागशब्दो न भवति, न हि रञ्जनक्रियैव रञ्जनक्रियायाः करणं भवति । रागविशेषवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरत्र लाक्षादीनां रागग्रहणेन विशेषणात् । रागादिति किमिति । अनभिधानादेव कर्तृवाचिनो न भविष्यति,'दैवदतं वस्त्रम्' इति ह्युक्ते स्वस्वामिभावस्यैव सम्प्रत्ययादिति प्रश्नः । लक्षणैकशरणो नैतत्प्रतिपतुमर्हतीत्युक्तम् । कथमिति । न ह्यत्र वर्णान्तरमाहितमिति प्रश्नः उपमानादिति । रूपसादृश्यनिमितात् ॥ Nyaas ----- रञ्जिरयमस्त्येवानुरागे - देवे रक्तः, स्त्रियां रक्त इति; अस्ति च वर्णविशेषे - रक्तो गौरिति, लोहित इत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने -रक्तः पट इति, शुक्लमपनीय रक्तादिकं वर्णान्तरमापादित इत्यर्थः। इह तृतीयेऽर्थे वर्तमानो गृह्रते, यदाह - `शुक्लस्य` इत्यादि। रागशब्दोऽयमस्त्येव भावसाधनः, अस्ति च करणसाधनः; तत्रेह द्वितीयो गृह्रते, यदाह - `रज्यतेऽनेनेति रागः` इति। रागग्रहणेन चार्थस्य ग्रहणम्, न स्वरूपस्य। तेन रागविशेषवाचिनः प्रातिपदिकात् प्रत्ययो विज्ञायते, न तु रागशब्दादेवेत्यत आह - `रागविशेषवाचिनः प्रातिपदिकात्` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थपरत्वान्निर्देशस्य। यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते,न यत्रार्थपरो निर्देश इति प्राक् प्रतिपादितमेव। अर्थपरत्वञ्च निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्गम्यते। यदि तर्हि शुक्लस्य वर्णान्तरापादनमित्यभिप्रायेणाह - `कथम्` इति। `उपमानात्` इत्यादि परिहारः। यथा `गौर्वाहीकः` इत्युपमानाद्गोशब्दोऽर्थान्तरे वाहीके वर्तते,तथेहापि काषायादिशब्दो गर्दभकर्णादाविति भावः॥ Sutra Prayogas -------------- * **काषायपरिवीतेन** (रघुवंशम्): `तेन रक्तं रागात्` इत्यण्। * **माञ्जिष्ठं** (किरातार्जुनीयम्): `तेन रक्तं रागात्` इत्यण् । * **कौसुम्भं** (शिशुपालवधम्): `तेन रक्तं रागात्` इत्यण् प्रत्ययः। * **माञ्जिष्ठेषु** (शिशुपालवधम्): `तेन रक्तं रागात्` इत्यण्प्रत्ययः।