41172: कुरुनादिभ्यो ण्यः ======================== **Padacheda:** कुरु-नादिभ्यः | S | 5 | 3 | ण्यः | S | 1 | 1 | Sutrartha --------- **'कुरु' अयम् क्षत्रियवाची शब्दः तथा नकारादि-क्षत्रियवाचिशब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ण्य-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ण्य comes after the word कुरु and a word beginning with न when these words denote a country being the name of a क्षत्रिय tribe also. Vasu English Translation ------------------------ The affix ण्य comes after the word कुरु and a word beginning with न when these words denote a country being the name of a क्षत्रिय tribe also. This debars '*an*' and '*an*'. Thus कौरव्यः, नेषव्यः 'the son of *Kuru* and *Nishadha*'. The affix denotes 'the king there of' also, as कौरव्यो राजा ॥ How do you explain the form नैषधोर्हति चेदघम् ? This is an archaic or Vedic form. How then in सनैषधस्यार्थपतेः सुतायां ? This is a poetic license. Kashika ------- जनपदशब्दात् क्षत्रियादित्येव। कुरुशब्दाद् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः — नैषध्यः। नैपथ्यः। तस्य राजनीत्येवकौरव्यो राजा॥ Siddhanta Kaumudi ----------------- कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥ Laghu Siddhanta Kaumudi ----------------------- कौरव्यः। नैषध्यः॥ Balamanorama ------------ **कुरुणादिभ्यो ण्यः** - कुरुनादिभ्यो ण्यः । कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति । कुरोरपत्यं, कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति ।तस्येदमित्यनेने॑ति शेषः । Tattvabodhini ------------- **कुरुणादिभ्यो ण्यः** - कुरुना । नकार आदिर्येषां ते नादयः । कुरुशब्दाद्व्द्यज्लक्षणे अणि प्राप्ते, नादिभ्यस्त्वञि प्राप्ते[च] वचनम् । Padamanjari ----------- आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्, तदाह - कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद्'द्व्यञ्मगध' इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं'नैषधो' र्हति चेदघम्ऽ इति ? स्वच्छन्दवाच ऋषयः । कथं'स नैषधस्यार्थपतेः सुतायाम्' इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ॥ Nyaas ----- अञणोरपवादः। कुरुशब्दस्यतु द्व्यज्लक्षणस्याणः। कुरुशब्दात् **कुर्वादिभ्यो ण्यः** (4.1.151) इति पूर्वमपत्ये उक्तः। तस्य यो जनपदशब्द क्षत्त्रियो न भवति सोऽवकाशः, यस्तु जनपदशब्दः क्षत्त्रियस्तस्मात् परत्वादञि तदपवादो द्व्यज्लक्षणोऽण् स्यात्। अतस्तं बाधितुं पुनर्ण्यो विधीयते॥ Prakriyasarvasvam ----------------- कुरोर्नकारादिभ्यश्च ण्यः स्यात् । कौरव्यः । नैषध्यः । कुरोः शिवादितिकादि- पाठात् कौरवः । कौरवायणिरपि । नैषधस्तु निषधस्य राज्ञः सम्बन्धार्थेऽणि दाशरथवत् साध्यः ॥