41170: द्व्यञ्मगधकलिङ्गसूरमसादण् ================================ **Padacheda:** द्व्यच्-मगध-कलिङ्ग-सूरमसात् | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **'मगध' , 'कलिङ्ग' तथा 'सूरमस' एते क्षत्रियवाचिनः शब्दाः, तथा येषु द्वौ स्वरौ स्तः ते क्षत्रियवाचिनः शब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix अण् comes in the sense of descendant after disyllabic words and the words 1. मगध 2. कलिङ्ग and 3. सूरमस when they are the names of countries as well as क्षत्रिय-s. Vasu English Translation ------------------------ The affix अण् comes in the sense of descendant after disyllabic words and the words 1. मगध 2. कलिङ्ग and 3. सूरमस when they are the names of countries as well as क्षत्रिय-s. This debars अञ् ॥ Thus आंगः, वांगः, मागधः, कालिङ्गः, and सौरमसः 'the son as well as the king of *Anga*, *Banga*, *Magadha*, *Kalinga* and *Suramasa*.' Similarly पौण्ड्रः, सौह्मः ॥ The *Vartika* 'तस्यराजनि' given above applies to this also, as आंगो राजा, गान्धारो राजा &c. Bhashya ------- द्व्यञ्ञ्मगधकलिङ्गसूरमसादण् (1416) (अणोऽधिकरणम्) (5328 विप्रतिषेधवार्तिकम्॥ 1 ॥) - अणो ञ्ञ्यङ्ण्येञ्ञो विप्रतिषेधेन - (भाष्यम्) अणो ञ्ञ्यङ्-ण्य -ःइञ्ञ् -ःइत्येते भवन्ति विप्रतिषेधेन। अणोऽवकाशः -आङ्गः, वाङ्गः। ञ्ञ्यङोऽवकाशः -आम्बष्ठ्यः, सौवीर्यः। इहोभयं प्राप्नोति -दार्व्यः॥ ण्यस्यावकाशः -निचक -नैचक्यः। अणः स एव। इहोभयं प्राप्नोति -नीप -नैप्यः॥ इञ्ञोऽवकाशः -आजमीढिः, आजक्रन्दिः। अणः स एव। इहोभयं प्राप्नोति -बुध -बौधिः। ञ्ञ्यङ्ण्येञ्ञो भवन्ति विप्रतिषेधेन॥ (5329 विप्रतिषेधे द्वितीयवार्तिकम्॥ 2 ॥) - ञ्ञ्यङः कुरुनादिभ्यो ण्यः - (भाष्यम्) ञ्ञ्यङः कुरुनादिभ्यो ण्यो भवति विप्रतिषेधेन। ञ्ञ्यङोऽवकाशः -आवन्त्यः, कौन्त्यः। ण्यस्य स एव। नैशो नाम जनपदस्तस्मादुभयं प्राप्नोति। ण्यो भवति विप्रतिषेधेन -नैश्यः॥ Kashika ------- जनपदशब्दात् क्षत्रियाभिधायिनो द्व्यचो मगध कलिङ्ग सूरमस इत्येतेभ्यश्चापत्येऽण् प्रत्ययो भवति। अञोऽपवादः। आङ्गः। वाङ्गः। पौण्ड्रः। सौह्मः। मागधः। कालिङ्गः। सौरमसः। तस्य राजनीत्येव — आङ्गो राजा॥ Siddhanta Kaumudi ----------------- अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥ Balamanorama ------------ **द्व्यञ्मगधकलिङ्गसूरमसादण्** - द्व्यञ्मगध । अञोऽपवाद इति । जनपदशब्दादिति विहितस्याऽञोऽपवाद इत्यर्थः । द्व्यजिति । 'उदाह्यियते' इति शेषः । अङ्ग, वङ्ग, सुहृ-इत्येते द्व्यचो देशक्षत्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः । Prakriyasarvasvam ----------------- द्व्यज्भ्यो मगधादिभ्यश्च जनपदतुल्यक्षत्रियनामभ्योऽण् स्यात् । आङ्गः । वाङ्गः । मागधः । कालिङ्गः । शौरमसः ॥ Sutra Prayogas -------------- * **मागधी** (रघुवंशम्): `व्द्यञ्मगधकलिङ्गसूरमसादण्` इत्यण्प्रत्ययः। * **कालिङ्गः** (रघुवंशम्): `द्व्यञ्मगधकलिङ्गसूरमसादण्` इति अण्-प्रत्ययः।