41157: उदीचां वृद्धादगोत्रात्
=============================
**Padacheda:** उदीचाम् | S | 6 | 3 |
वृद्धात् | S | 5 | 1 |
अगोत्रात् | S | 5 | 1 |
Sutrartha
---------
**यः वृद्धसंज्ञकः शब्दः गोत्रसंज्ञकः नास्ति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन फिञ्-प्रत्ययः भवति ।**
Vasu English Summary
--------------------
According to the opinion of Northern Grammarians after the words with वृद्धि in the first syllable when it is not a गोत्र -name, the affix फिञ् is used in the sense of a descendant.
Vasu English Translation
------------------------
According to the opinion of Northern Grammarians after the words with वृद्धि in the first syllable when it is not a गोत्र -name, the affix फिञ् is used in the sense of a descendant.
Thus आम्रगुप्तायनिः "son of आम्रगुप्त," ग्रामरक्षायणिः 'son of ग्रामरक्ष' ॥ नापितायनिः 'son of a barber.' This latter is formed in spite of (4.1.152), because rule (1.4. 2) applies here.
Why do we say 'according to the opinion of Northern Grammarians'? Observe आम्रगुप्तिः. Why do we say 'after a word having a *Vriddhi* in the first syllable'? Observe याज्ञदत्तिः 'son of यज्ञदत्त.' Why do we say 'not being a *Gotra*-name? Observe औपगविः ॥
Kashika
-------
वृद्धं यच्छब्दरूपमगोत्रम्, तस्मादपत्ये फिञ् प्रत्ययो भवत्युदीचामाचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेनैव भवितव्यम्। नापितायनिः। उदीचामिति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः॥
Siddhanta Kaumudi
-----------------
आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥
Balamanorama
------------
**उदीचां वृद्धादगोत्रात्** - उदीचां वृद्धा । वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । 'मते' इति शेषः । आम्नगुप्तिः । अत इञ् । औपगविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः ।
Padamanjari
-----------
कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः - तान्तुवायिः, फिञोऽवकाशः - आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति ।'वा नामदेयस्य वृद्धसंज्ञा वक्तव्या' । पक्षे याज्ञदतायनिरिति भवत्येव ॥
Nyaas
-----
`वृद्धात्` इति। इहैव यत्पारिभाषिकं वृद्धं तद्गृह्रते, न शास्त्रान्तरप्रसिद्धम्, अगोत्रादिति प्रतिषेधात्। `कारिशब्दात्` इत्यादि। कारिलक्षणस्येञोऽवकाशः - तान्तुवायिरिति, फिञोऽवकाशः -आम्रगुप्तायनिरिति; इहोभं प्राप्नोति - नापितायनिरिति, परत्वात् फिञेव भवति॥
Prakriyasarvasvam
-----------------
अगात्रवाचिनो वृद्धाच्छब्दात् फिञ् स्यादुदङ्मते । दैत्यद्विपायणिः कामायनिः कालद्रुहायणिः ॥ २०४ ॥ भसंज्ञया पदत्वस्य बाधाज्जश्त्वादि नो भवेत् । राजायनिस्तथा वाग्मायनिर्नान्ते टिलोपतः ॥ २०५ ॥ वाशिञ्शब्दाद् दाण्डिनादेरलोपाद् वाशिनायनिः । प्राङ्मते तु यथाप्राप्तं वाग्मिदैत्यद्विपादयः ॥ २०६ ॥ गोत्रान्न फिञ् भानवस्य पुत्रो भानविरेव हि ।