41113: अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ============================================== **Padacheda:** अ-वृद्धाभ्यः | S | 5 | 3 | नदी-मानुषीभ्यः | S | 5 | 3 | तत्-नामिकाभ्यः | S | 5 | 3 | Sutrartha --------- **यः शब्दः वृद्धसंज्ञकः नास्ति, तथा च नद्याः / मानुष्याः नाम्नः निर्देशं करोति, तादृशात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।** 'वृद्ध' इति काचन संज्ञा । **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इत्यनेन सूत्रेण इयम् संज्ञा दीयते । येषु शब्देषु प्रथमः अच्-वर्णः वृद्धिसंज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति) तेषामनेन सूत्रेण 'वृद्ध'संज्ञा विधीयते । यथा - माला, वैनतेय, औपगव - आदयः । यः शब्दः वृद्धसंज्ञकः नास्ति, तस्य निर्देशः अस्मिन् सूत्रे 'अवृद्ध' इत्यनेन कृतः अस्ति । एतादृशः अवृद्धः शब्दः यदि नद्याः / मानुष्याः (= मनुष्यस्त्रियाः) नाम्नः निर्देशं करोति, तस्मात् शब्दात् अपत्यार्थे वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । इत्युक्ते, यथा काशिकायामुक्तम् - अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यः अपत्ये अण् प्रत्ययः भवति । यथा - नदीवाचकाः अवृद्धसंज्ञकाः शब्दाः = अ) यमुनायाः अपत्यम् = यमुना + अण् → यामुन आ) सरस्वत्याः अपत्यम् = सरस्वती + अण् → सारस्वत इ) नर्मदायाः अपत्यम् = नर्मदा + अण् → नार्मद ई) इरावत्याः अपत्यम् = इरावती + अण् → ऐरावत उ) वितस्तायाः अपत्यम् = वितस्ता + अण् → वैतस्त मानुषीवाचकाः अवृद्धसंज्ञकाः शब्दाः (इत्युक्ते - मनुष्यस्त्रीणाम् नामानि) अ) सुभद्रायाः अपत्यम् = सुभद्रा + अण् → सौभद्र आ) शिक्षितायाः अपत्यम् = शिक्षिता + अण् → शैक्षित इ) चिन्तितायाः अपत्यम् = चिन्तिता + अण् → चैन्तित ई) संस्कृतायाः अपत्यम् = संस्कृता + अण् → सांस्कृत उ) हिडिम्बायाः अपत्यम् = हिडिम्बा + अण् → हैडिम्ब एतेषाम् सर्वेषाम् शब्दानामपत्यार्थे **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्यये प्राप्ते अपवादत्वेन वर्तमानसूत्रेण अण्-प्रत्ययः भवति । ज्ञातव्यम् - 1. यदि नद्याः मानुष्याः वा नाम वृद्धसंज्ञकः अस्ति, तर्हि वर्तमानसूत्रस्य प्रसक्ति एव नास्ति । यथा - अ) चान्द्रभागायाः अपत्यम् = चान्द्रभागा + ढक् → चान्द्रभागेय । अत्र **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्ययः विधीयते । आ) वासवदत्तायाः अपत्यम् = वासवदत्ता + ढक् → वासवदत्तेय । अत्र **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्ययः विधीयते । 2. यदि अवृद्धः शब्दः नद्याः मानुष्याः वा नाम नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा - अ) विनतायाः अपत्यम् = विनता + ढक् → वैनतेय । अत्र 'विनता' इति पक्षिण्याः नाम अस्ति, नद्याः उत मानुष्याः न । अतः अत्र **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्ययः एव विधीयते । आ) शोभनायाः अपत्यम् = शोभना + ढक् → शौभनेय् । अत्र 'शोभना' इति मानुष्याः विशेषणरूपेण प्रयुक्तमस्ति, मानुष्याः अभिधानरूपेण न (यथा - शोभना सुभद्रा) । अतः अत्र **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्ययः एव विधीयते । परन्तु यदि 'विनता' / 'शोभना' एतौ शब्दौ नद्याः / मानुष्याः अभिधानरूपेण प्रयुज्येयाताम्, तर्हि तयोर्विषये वर्तमानसूत्रेण अण्-प्रत्ययः एव भवेत् । यथा - विनता-नाम-मानुष्याः अपत्यम् = विनता + अण् → वैनत । शोभना-नाम-नद्याः अपत्यम् = शोभना + अण् → शौभन । 3. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च नद्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे - अ) **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते - आ) तस्य अपवादत्वेन **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्यये प्राप्ते - इ) तस्यापि अपवादत्वेन **अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः** (4.1.113) इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते - ई) तस्यापि अपवादत्वेन **द्व्यचः** (4.1.121) इत्यनेन ढक्-प्रत्यये प्राप्ते - उ) तं बाधित्वा **शिवादिभ्यः अण्** (4.1.112) इत्यत्र निर्दिष्टम् 'द्व्यचः नद्याः' एतत् यत् गणसूत्रम्, तेन अण्-प्रत्ययः एव भवति । यथा - सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्य । 4. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च मानुष्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे - अ) **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते - आ) तस्य अपवादत्वेन **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन ढक्-प्रत्यये प्राप्ते - इ) तस्यापि अपवादत्वेन **अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः** (4.1.113) इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते - ई) तस्यापि अपवादत्वेन **द्व्यचः** (4.1.121) इत्यनेन ढक्-प्रत्ययः भवति । यथा - दत्तायाः अपत्यम् = दत्ता + ढक् → दात्तेय । Sutrartha (English) ------------------- To indicate the meaning of 'his/her offspring', the words that are not वृद्धसंज्ञक and represent name of a river or a human female get the 'अण्' प्रत्यय. Vasu English Summary -------------------- The affix अण् comes in the sense of descendant after the words are the names of rivers or women when such words are not वृद्धम् words and when they are used as names and not as adjectives. Vasu English Translation ------------------------ The affix अण् comes in the sense of descendant after the words are the names of rivers or women when such words are not वृद्धम् words and when they are used as names and not as adjectives. The word *Vriddham* in the *sutra*, does not mean the technical Patronymic of that name as defined in other Grammars and used in *Sutras* like (4.1.166), but means the *Vriddham* as defined in this Grammar i. e. a word whose first syllable is a *Vriddhi* letter (1.1.73). The word अवृद्धाभ्यः shows the orthography of the word to which the affix is to be added. The word नदीमानुषीभ्यः declares the meaning of that word and both attributes refer to one and the same base, i.e. orthographically the base should have a *Vriddhi* letter in the first syllable, and etymologically it should denote a man or a river. The word तन्नामिकाभ्यः applies both to the base and the affix. Thus यमुना--यामुनः 'a son of the *Yamuna*.' ऐरावत 'son of the *Iravati*'. वैतस्तः 'son of the *Vitasta*.' नार्मदः 'son of the *Narmadda*.' These are all names of rivers. Similarly शैक्षितः 'son of *Sikshita*' चैन्तित 'son of चिन्तिता' ॥ Why do we say 'when not a *Vriddha* word'? Observe चान्द्रभाग्याया अपत्यं = चान्द्रभागेयः; so also वासवदत्तेयः formed by ढक् (4.1.120). Why do we say being 'names of rivers or women.' Observe सौपर्णेयः and वैनतेयः ॥ Why do we say "when it is a name?" Observe शोभनाया अपत्यं = शौभनेयः 'the son of a beautiful woman.' ढक् (4.1.120) is the general affix by which patronymics are formed from feminine bases. The present *sutra* is an exception to that. Kashika ------- **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (१.१.७३)। अवृद्धाभ्य इति शब्दधर्मः, नदी — मानुषीभ्य इत्यर्थधर्मः, तेनाभेदात् प्रकृतयो निर्दिश्यन्ते। तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः। अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्योऽपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। यमुनाया अपत्यं यामुनः। इरावत्या अपत्यम् ऐरावतः। वैतस्तः। नार्मदः। मानुषीभ्यः खल्वपि — शिक्षिताया अपत्यं शैक्षितः। चिन्तिताया अपत्यं चैन्तितः। अवृद्धाभ्य इति किम्? चान्द्रभागाया अपत्यं चान्द्रभागेयः। वासवदत्तेयः। नदीमानुषीभ्य इति किम्? सौपर्णेयः। वैनतेयः। तन्नामिकाभ्य इति किम्? शोभनायाः शौभनेयः॥ Siddhanta Kaumudi ----------------- अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ॥ Balamanorama ------------ **अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः** - अवृद्धाभ्यो नदी । नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तुअवृद्धेभ्यो नदीमानुषीनामभ्य॑ इत्येव सूत्रयितुमुचितमिति व्याचष्ट — अवृद्धेभ्य इत्यादि । ननुतस्यापत्य॑मित्येकसिद्धे किमर्थमिदमित्यत आह — ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी । वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री । तस्या अपत्यमिति विग्रहः । वृद्धसंज्ञकत्वादणभावे ढगिति भावः । वैनतेय इति । विनताया अपत्यमिति विग्रहः । विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः । शौभनेय इति । शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः । Tattvabodhini ------------- **अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः** - अवृद्धाभ्यो ।अवृद्धेभ्यो नदीमानुषीनामभ्यः॑इत्येव सूत्रयितुं युक्तमित्याशयेन व्याचष्टे — अवृद्धेभ्य इत्यादिना । आत्रेय इति । परत्वादयमृष्यणं बाधत ऐति भावः । Padamanjari ----------- अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे यत्परिभाषितं तस्यापि ग्रहणं दृष्टम्, वृद्धस्य च पूजायाम्'वृद्धो यूना इति, इह तु प्रत्यासतेरेतच्छास्त्रसिद्धस्यैव वृद्धस्य ग्रहणमित्याह - वृद्धिर्यस्येति । अवृद्भाभ्य इति शब्दधर्म इति । वृद्धपर्युदासे सति नञिवयुक्तन्यायेन तत्सदृशस्यैव शब्दस्य सम्प्रत्ययात् । स्त्रीलिङ्गनिर्देशस्तु'नदीमानुषीभ्यः' इत्यनेन सामानाधिकरण्यात् । कथं पुनरर्थवृतेः शब्दवृत्तिना सामानाधिकरण्यम् ? अभेदोपचारात् । अवृद्धशब्दवाच्यत्वान्नदीमानुष्य एवावृद्धा उक्ताः । नदीमानुषीभ्य इत्यर्थधर्म इति । स्वरूपग्रहणं तु न भवति, बहुवचननिर्देशात्, वृद्धपर्युदासाच्च संज्ञानद्या अपि ग्रहणं न भवति; लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात् । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्श इति । ता अवृद्धाः प्रकृतयो नामानि यासां नदीमानुषीणामिति बहुव्रीहिः । तदेवं त्रिभिरपि पदैरर्थ एव निर्दिश्यते, तत्रार्थात्प्रत्ययविधानानुपपतेस्तद्वाचिनीभ्यः प्रकृतिभ्यः प्रत्ययो विजायते । तदिदमुक्तम् - तेनाभेदात्प्रकृतयो निदिश्यन्त इति । तेनार्थोनाबेदात् । एतदुक्तं भवति - अवृद्धशब्दाच्यास्तन्नामिका या नदीमानुष्यस्ताभ्यो' ण् प्रत्ययो भवति, कोऽर्थः ? तद्वाचिनीभ्यः प्रत्ययो भवतीति । तदेतदाह - आवृद्धानि यानीत्यादि । एवं च कृत्वा - अवृद्धेभ्यो नदीमनुषीनामभ्य इति वक्तव्यम्, तथा तु न कृतमित्येव । ढकोऽपवाद इति । स्त्रीलिङ्गनिर्देशात् भैद्योद्ध्यशोणादिष्वयं विधिर्न भवतीति भावः ॥ Nyaas ----- शास्त्रान्तरे परिभाषितमपि वृद्धमस्ति - अपत्यमन्तर्हितं वृद्धमिति; इह शास्त्रेऽपि परिभाषितं वृद्धमस्ति **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति, अतो वृद्धप्रतिषेधे कस्यचित् सन्देहः स्यात् - कस्य वृद्धस्यायां प्रतिषेधः, किंस्वित् यदिह परिभाषितं तस्यायं प्रतिषेधः? उत यच्छास्त्रान्तरेण परिभाषितं तस्येति? अतस्तन्निरासाय `वृद्धिर्यस्य` 91.1.74) इत्यादिनेह शास्त्रे यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम् - इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम् - इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति? नदीमानुषीनामधेयस्य गोत्रप्रत्ययान्तस्यासम्भवात्। नदीग्रहणे त्विह लौकिक्येव नदी गृह्रते, न तु पारिभाषिकी। कुत एतत्? लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात्। अथ स्वरूपग्रहणमेव नदीमानुषीशब्दयोः कस्मान्न भवति? वृद्धप्रतिषेधात्। स्वरूपग्रहणे हि वृद्धप्रतिषेधोऽनर्थकः स्यात्; प्रसङ्गाभावात्। बहुवचननिर्देशाच्च न स्वरूपग्रहणम्। स्वरूपग्रहणे ही नदीमानुषीशब्दयोर्द्वित्वाद्द्विचनेनैव निर्देशं कुर्यात्। `अवृद्धाभ्यिति शब्दधर्मः स्यात्। यदि तर्ह्रर्थधर्मोऽयम्, कथं नदीमानुषीभ्य इत्यनेन प्रकृतयो निर्दिश्यन्ते, अर्थधर्म एव ह्रेवं निर्दिष्टो भवति, न प्रकृतयः? इत्यत आह - `तेन` इत्यादि। तेनार्थभेदोपचारात्। नदीमानुष्यभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। `प्रत्ययप्रकृतिः` इति। प्रत्ययस्य प्रकृतिरिति षष्ठीसमासः। `ढकोऽपवादः` इति। अवृद्धादीनां नदीनां मनुषीणां नामधेयानां स्त्रीप्रत्ययान्तत्वात्। `वैतस्तः, नार्मदः` इति। वितस्तानर्मदाशब्दाभ्यामण्। `शैक्षितः` इति। शिक्षिताशब्दात्।`सौपर्णेयः, वैनतेयः` इति। सुपर्णाविनताशब्दौ पक्षिणीनामधेये, न नदीमानुष्यौ। `शौभनेय-` इति। शोभनाशब्दो वर्तते नदीमानुष्यर्थः, न तु संज्ञात्वेन, किं तर्हि? विशेषणत्वेन॥ Prakriyasarvasvam ----------------- वृद्धवर्जितेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । स्त्रीभ्यो ढकोपवादः । यामुनः । नार्मदः । शिक्षिताख्यायाः पुत्रः शैक्षितः । वृद्धेभ्यस्तु वासवदत्तेयः । अवृद्धाद् रौक्मिणेयरौहिणेयौ तु शुभ्रादित्वाढ्ढकि ॥