41112: शिवादिभ्योऽण् ==================== **Padacheda:** शिव-आदिभ्यः | S | 5 | 3 | अण् | S | 1 | 1 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे शिवादिगणस्य शब्देभ्यःअण्-प्रत्ययः भवति ।** **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधाः प्रत्ययाः विधीयन्ते । शिवादिगणस्य शब्दानाम् विषये अपत्यार्थे परन्तु तान् सर्वान् बाधित्वा अण्-प्रत्ययः एव जायते । शिवादिगणस्य आवली इयम् - शिव। प्रोष्ठ। प्रोष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। ककुभ् ।ककुभा । अनभिम्लान। कोहित । मुख । ककुस्थ । कहोड। कोहड । कहूय । कहय । रोध । कपिञ्जल । कुपिञ्जल । खञ्जन । वतण्ड । तृणकर्ण । क्षीरहृद । जलहृद । परिल । पथिक । पिष्ट । हैहय । पार्षिका । गोपिका । कपिलिका । जटिलिका । बधिरिका । मञ्जिरक । मजिरक । वृष्णिक । खञ्जास । खञ्जाह । कर्मार । रेख । लेख।आलेखन। विश्रवण। रवण। वर्तनाक्ष। ग्रीवाक्ष । पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। पृथा । उत्क्षेप । पुरोहोतिका । सुरोहितिका । मुरोहिका ।आर्यश्वेत। अर्यश्वेत । सुपिष्ट। मसूरकर्ण। मयूरकर्ण । खर्जुरकर्ण ।कदूरक । तक्षन् । ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुह्य । अयस्थूण। तृणकर्ण । तृण । कर्ण । पर्ण । भलन्द । विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः। त्रिवेणी त्रिवणं च। अस्मिन् गणे द्वे गणसूत्रे स्तः - 1. द्व्यचो नद्याः - यदि नद्याः नाम्नि द्वौ स्वरौ स्तः तर्हि तस्मात् अपत्यार्थे अण्-प्रत्ययः भवति । यथा - अ) सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्यः । आ) कुल्यायाः अपत्यम् = कुल्या + अण् → कौल्यः । अनेन गणसूत्रेण उक्तः अण्-प्रत्ययः **द्व्यचः** (4.1.121) इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादरूपेण विधीयते । 2. त्रिवेणी त्रिवणं च - त्रिवेणी शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा त्रिवेणी-शब्दस्य 'त्रिवण' आदेशः जायते । यथा - त्रिवेणी + अण् → त्रिवण + अण् → त्रैवण । कानिचन उदाहरणानि - 1. शिव + अण् → शैव 2. प्रोष्ठ + अण् → प्रौष्ठ 3. चण्ड + अण् → चाण्ड 4. मुनि + अण् → मौनः । अत्र इकारस्य **यस्येति च** (6.4.148) इत्यनेन लोपः जायते । 5. पथिक + अण् → पाथिक 6. वृष्णिक + अण् → वार्ष्णिक 7. लेख + अण् → लैख 8. पृथा + अण् → पार्थ 9. तक्षन् + अण् → ताक्ष्ण। अत्र नकार-अकारयोः **नस्तद्धिते** (6.4.144) इति लोपे प्राप्ते **षपूर्वहन्धृतराज्ञामणि** (6.4.135) इति उपधा-षकारस्य लोपः भवति । 10. भूमि + अण् → भौम 11. सपत्नी + अण् → सापत्नः । अत्र **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादरूपेण अण्-प्रत्ययः विधीयते ।] ज्ञातव्यम् - 1. शिवादिगणे 'गङ्गा' शब्दः पाठितः अस्ति । अयम् शब्दः **तिकादिभ्यः फिञ्** (4.1.154) इत्यत्र निर्दिष्टे तिकादिगणे अपि अस्ति । तथा, **शुभ्रादिभ्यश्च** (4.1.123) इत्यनेन निर्दिष्टे आकृतिगणे अपि तस्य स्वीकारः क्रियते । त्रिषु गणेषु अयं शब्दः पाठितः अस्ति, अतः अस्मात् शब्दात् अपत्यार्थे त्रयः प्रत्ययाः विधीयन्ते - अ) शिवादिगणस्य अण्-प्रत्ययः = गङ्गा + अण् → गाङ्ग आ) तिकादिगणस्य फिञ्-प्रत्ययः = गङ्गा + फिञ् → गाङ्गायनि इ) शुभ्रादिगणस्य ढक्-प्रत्ययः = गङ्गा + ढक् → गाङ्गेय । अयम् शब्दः यद्यपि स्त्रीप्रत्ययान्तः अस्ति, तथापि **द्व्यचः** (4.1.121) इत्यनेन अस्मात् शब्दात् ढक्-प्रत्ययः न भवति, यतः तं बाधित्वा त्रिभिः सूत्रैः त्रयः प्रत्ययाः विधीयन्ते । 2. अनेन सूत्रेण पाठितः अण्-प्रत्ययः एतादृशमपवादकार्यम् करोति - अ) अस्मिन् गणे पाठितानामदन्तशब्दानाम् विषये **अत इञ्** (4.1.95) इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादः । आ) अस्मिन् गणे पाठितानाम् इदन्तशब्दानाम् विषये **इतश्चानिञः** (4.1.122) इत्यनेन विहितस्य ढक् -प्रत्ययस्य अपवादः । इ) अस्मिन् गणे पाठितानामाबन्त/ङ्यन्त-शब्दानाम् विषये **स्त्रीभ्यो ढक्** (4.1.120) इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादः । ई) 'ऋष्टिषेण' शब्दस्य विषये **सेनान्तलक्षणकारिभ्यश्च** (4.1.152) इत्यनेन विहितस्य ण्य-प्रत्ययस्य अपवादः । उ) 'गङ्गा'शब्दस्य विषये **द्व्यचः** (4.1.121) इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादः । Sutrartha (English) ------------------- To indicate the meaning of 'his/her offspring', the words belonging to the शिवादिगण get the 'अण्' प्रत्यय. Vasu English Summary -------------------- The affix अण् comes in the sense of a descendant after the words शिव etc. Vasu English Translation ------------------------ The affix अण् comes in the sense of a descendant after the words शिव etc. The *anuvritti* of the word गोत्रे (4.1.98) does not extend to this *sutra*. The affixes taught hereafter are generic patronymic affixes. The affix अण् debars इञ् &c, Thus शिव + अण् = शैवः 'a descendant of *Siva*'. Similarly प्रौष्ठः ॥ The word तक्षन् 'a carpenter' occurs in this class; being a common noun denoting an artisan. it would have taken the affix इञ् by (4.1.153); the present *sutra* prevents that. It does not, however, prevent the application of ण्य ordained by (4.1.152). Thus तक्षन् + अण् = ताक्ष्णः ॥ तक्षन् + ण्य = ताक्ष्ण्यः ॥ The अ is elided by (6.4.134), The word गंगा occurs in this class, as well as in *Subhradi* class (4.1.123) and *Tikadi* (4.1.154). There are thus three forms of this word:- गांगः; गांगायनिः and गांगेयः ॥ The word विपाशा occurs in this class as well as in *Kunjadi* class (4.1.98) It has thus two forms: वैपाशः and वैपाशायन्यः with *chphan*. The affix अण् will come after a word consisting of two syllables, when it is the name of a river: the affix डक् (4.1.121) would have debarred the तन्नामिक अण् of (4.1.113) in case of patronymics formed from river names. However, it is not so, because of this prohibition. The Patronymic from the river name त्रिवेणी would be formed by अण् (4.1.113), as त्रैवेणः but this is replaced by त्रिवणः ॥ 1 शिव 2 प्रोष्ठ 3 प्रोष्ठिक 4 चण्ड 5 जम्भ 6 भूरि 7 दण्ड 8 कुठार 9 ककुभ् (ककुभा) 10 अनभिम्लान 11 कोहित 12 सुख 13 संधि 14 मुनि 15 ककुत्स्थ 16 कहोड17 कोहड 18 कहूय 19 कहय 20 रोध 21 कपिंजल (कुपिंजल) 22 खंजन 23 वतण्ड 24 तृणकर्ण 25 क्षीरहूद 26 जलहूद 27 परिल 28 पषिक 29 पिष्ट 30 हैहय 31 पार्षिका 32 गोपिका 33 कपिलिका 34 जटिलिका 35 बधिरिका 36 मंजीरक 3.38 मजिरक 39 वृष्णिक 40 खंजार 41 खंजाल 42 कर्मारं 43 रेख 44 लेख 45 आलेखन 46 विश्ववण 47 रवण 48 वर्तनाक्ष 49 ग्रीवाक्ष 50 विटप 51 पिटक 52 पिटाक 53 तक्षाक 54 मभाक 55 ऊर्णनाभ 56 जरत्कारु 57 पृथा 58 उत्क्षेप 59 पुरोहितिका 60 सुरोहितिका 61 सुरोहिका 62 आर्यश्वेत (अर्यश्वेत) 63 सुपिष्ट 64 मसुरकर्ण 65 मयूरकर्ण 66 खर्जुरकर्ण 67 खदुरक 68 तक्षन् 69 ऋष्टिषणे 70 गंगा 71 विपाश 72 यस्क 73 लह्य 74 द्रुह्य 75 अयःस्थुल 76 तृणकर्ण (तृण कर्ण) 77 पर्ण 78 भलन्दन 79 विरूपाक्ष 80 भूमि 81 इला 82 सपत्नी 83 द्व्यचो नद्याः 84 त्रिवेणी त्रिवणं च ॥ 85 गोफिलिक, 86 रोहितिक, 87 कबोध, 88 गोभिलिक 89 राजल, 90 तडाक, 91 वडाक, 92 परल ॥ It is an आकृतिगण ॥ Bhashya ------- शिवादिभ्योऽण् (1358) (अणोऽधिकरणम्) (अण्प्रयोजनभाष्यम्) किमर्थं शिवादिभ्योऽण् विधीयते, न यथाविहितमित्येवोच्येत? शिवादिभ्यो यथा विहितमितीयत्युच्यमाने -ःइञ्ञ् प्रसज्येत। इञ्ञ् -अतो यथाविहितः। पुनर्वचनमिदानीं किमर्थं स्यात्? ये तस्य बाधकास्तद्बाधनार्थम्॥ (अण्प्रयोजनखण्डनभाष्यम्) स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्यात् -यो विहितः, न च प्राप्नोति, स भविष्यति। कश्चासौ? अणेव॥ (अण्प्रयोजनभाष्यम्) उत्तरार्थमेव तर्हि। अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4.1.113) इति। अत्र यथाविहितमितीयत्युच्यमाने -ढक् प्रसज्येत, ढक् -अतो यथाविहितः। पुनर्वचनमिदानीं किमर्थं स्यात्? ये तस्य बाधकास्तद्बाधनार्थम्॥ (अण्प्रयोजनखण्डनभाष्यम्) स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्याद्यो विहितः, न च प्राप्नोति, स भविष्यति। कः पुनरसौ? अणेव॥ (अण्प्रयोजनभाष्यम्) उत्तरार्थमेव हि तर्हि। ऋष्यन्धकवृष्णिकुरुभ्यश्च (114) इति। अत्र यथाविहितमितीयत्युच्यमाने - इञ्ञ्प्रसज्येत। इञ्ञ्-अतो यथाविहितः। पुनर्वचनमिदानीं किमर्थं स्यात्? ये तस्य बाधकास्तद्बाधनार्थम्॥ (खण्डनभाष्यम्) स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्याद्यो विहितः, न प्राप्नोति, स भविष्यति। कश्चासौ? अणेव॥ (अण्प्रयोजनभाष्यम्) उत्तरार्थमेव तर्हि। मातुरुत्संख्यासंभद्रपूर्वायाः, कन्यायाः कनीन च (115,116) इति। अत्र यथाविहितमितीयत्युच्यमाने-ढक् प्रसज्येत। ढक् -अतो यथाविहितः। पुनर्वचनमिदानीं किमर्थं स्यात्? मातुरुकारं वक्ष्यामि, कन्यायाः कनीनभावमिति॥ (आक्षेपभाष्यम्) यद्येतावत्प्रयोजनं स्यात् -तत्रैवायम्ब्रूयात् -स्त्रीभयो ढक् (120) मातुरुकारः, कन्यायाश्च कनीन इति॥ (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् -अयमृष्टिषेणशब्दः शिवादिषु पठ्यते। अत्र यथाविहितमितीयत्युच्यमाने -ःइञ्ञ्प्रसज्येत। तं परत्वात्सेनान्ताण्ण्यो बाधेत। तत्रारम्भसार्मथ्यात् -ःइञ्ञ् प्रसज्येत। पुनरण्ग्रहणादणेव भवति॥ Kashika ------- गोत्र इति निवृत्तम्। अतः प्रभृति सामान्येन प्रत्यया विज्ञायन्ते। शिवादिभ्योऽपत्येऽण् प्रत्ययो भवति। यथायथमिञादीनामपवादः। शैवः। प्रौष्ठः। तक्षन्शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं (४.१.१५३) बाधितुम्। ण्यप्रत्ययस्य (४.१.१५२) तु बाधो नेष्यते। ताक्ष्णः। ताक्षण्यः। गङ्गाशब्दः पठ्यते तिकादिफिञा शुभ्रादिढका च समावेशार्थम्। तेन त्रैरूप्यं भवति। गाङ्गः, गाङ्गायनिः, गाङ्गेयः। विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम्। वैपाशः, वैपाशायन्यः॥ शिव। प्रौष्ठ। प्रौष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। अनभिम्लान। ककुत्स्थ। कहोड। लेख। रोध। खञ्जन। कोहड। पिष्ट। हेहय। खञ्जार। खञ्जाल। सुरोहिका। पर्ण। कहूष। परिल। वतण्ड। तृण। कर्ण। क्षीरह्रद। जलह्रद परिषिक। जटिलिक। गोफिलिक। बधिरिका। मञ्जीरक। वृष्णिक। रेख। आलेखन। विश्रवण। रवण। वर्तनाक्ष। पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। उत्क्षिपा। रोहितिक। आर्यश्वेत। सुपिष्ट। खर्जूरकर्ण। मसूरकर्ण। तूणकर्ण। मयूरकर्ण। खडरक। तक्षन्। ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुघ। अयःस्थूण। भलन्दन। विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः (ग०सू० ७२)। त्रिवेणी त्रिवणं च (ग०सू० ७३)॥ Siddhanta Kaumudi ----------------- गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥ Laghu Siddhanta Kaumudi ----------------------- अपत्ये। शैवः। गाङ्गः॥ Balamanorama ------------ **शिवादिभ्योऽण्** - शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोस्थोक्तत्वादिति भावः ।यूनि लु॑गिति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् । Tattvabodhini ------------- **शिवादिभ्योऽण्** - शिवादिभ्योऽण् । ननु विशेषविहितानिञादीन्बाधित्वाऽणेवारम्भसामर्थ्याद्भविष्यति किमनेनाऽण्ग्रहणेन । अत्राहुः — — ऋषिषेणशब्दोऽत्र गणे पठते, ततः प्राप्तिमिञं बाधित्वा परत्वात्सेनान्तलक्षणे॑ति ण्ये प्राप्ते इह पाठसामर्थ्याद्यथाप्राप्तप्रत्यय इञेव स्यान्न त्वण् । तथा चाऽत्राषण्ग्रहणमावश्यकमित्येके । अणधिकारादणेव स्यान्नाऽन्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये । शिब, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट् । तक्षन्, विश्रवण, रवण, ऋषिषेण, विरूपाक्षेत्यादि । गोत्र इति निवृत्तमिति । एतच्च वृत्तौ कैयटे च स्थितम् । यद्यपिगोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः॑इतियूनि लु॑गिति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः । एवं चेतः प्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम् । शुभ्राद्त्वान्नित्यं ढकि प्राप्ते जरत्कारुशब्दोऽत्रणर्थं पठते । जारत्कारवः । ढकि तुढे लोपोऽकद्र्वाः॑इत्युलोपः । जारत्कारेयः । कुञ्जादित्वात्गोत्रे कुञ्जादिभ्यः॑इति नित्यं च्फञि प्राप्ते विपाट्शब्दोऽत्राणर्थं पठते । वैपाशः । वैपाशायन्यः ।सेनान्तलक्षणे॑ति ण्यप्रत्ययेउदीचामि॑तीञि त प्राप्ते तक्षन्शब्दोऽत्राऽणर्थं पठते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विञा । ताक्ष्णः । ताक्षण्यः । विश्रवणरवणशब्दावत्र पठते, तौ च विश्रवःशब्दस्यादेशौ । विश्रवसोऽपत्यं — वैश्रवणः । रावणः । Padamanjari ----------- यथायथमित्यादि । तत्रादन्तेष्विञोऽपवादः, मुनि -सन्धिभूमिप्रभृतिषु ठितश्चानिञःऽ इति ढकः, स्त्रीप्रत्ययान्तेषुं'स्त्रीभ्यो ढक्' 'द्र।ल्चः' इति प्राप्तस्य ढकः, गङ्गाविपाट्शब्दयोस्तु यस्मिन्प्राप्ते स वृत्तिकारणैवोक्तः, जरत्कारुशब्दस्य तु पाठे प्रयोजनं चिन्त्यम् । केचिदाहुः - शुभ्रादिष्वयं पठनीयः, जारत्कारेय इति यथा स्यात्, तत्र तु ढका समावेशार्थोऽस्य पाठ इति । ण्यप्रत्ययस्य तु बाधो नेष्यत इति । अत्रा हेतुम् ठुदीचामिञ्ऽ इत्यत्र वक्ष्यति । शुभ्रादिढका चेति ।'शुभ्रादिभ्यश्च' इत्यत्र वक्ष्यति -ठ्चकारोऽनुक्तसमुच्चयार्थ आकृकिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्यादिसिद्धं भवतिऽ इति, तदभिप्रायेणेदमुक्तम् । रवणविश्रवणशब्दौ पठ।लेते, तौ विश्रवः शब्दस्यादेशौ प्रकृत्यन्तरे वा वृत्तिविषये तत्समानार्थे, विश्रवसोऽपत्यं वैश्रवणो रावणः । द्व्यचो नद्या इति । नदीवाचिनो ये द्व्यचः कुल्याप्रभृतयस्तेभ्यस्तन्नामिकाणोऽपवादे'द्व्यचः' इति ढकि प्राप्तेऽण् भवति । त्रिवेणी त्रिवणं चेति । त्रिवेण्या अपत्यं त्रैवणः, तन्नमिकाणि सिद्धे आदेशार्यं वचनम् । अथाण्ग्रहणं किमर्थम्, न यताविहितमित्येवोच्येत, एवगुच्यमाने इञादय एव स्युस्ते विहिताः, पुनरारम्भसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यति ? इदं तर्हि प्रयोजनम् - ऋष्टिषेणशब्दोऽत्र पठ।ल्ते, तत्र यथाविहितमित्युच्यमाने ठत इञ्ऽ प्राप्तः, तस्य सेनान्तलक्षणो ण्यो बाधकः प्राप्तः, तत्रारम्भसामर्थ्यादिञ् प्रसज्येत, पुनरण्ग्रहणादणेव भवति ॥ Nyaas ----- `यथायथम्` इति। यथास्वम्। यस्य य इञादिरात्मीयप्रत्ययस्तदपदादोऽण् विधीयते। अथाण्ग्रहणं किमर्थम्, न `शिवादिभ्यः` इत्येवोच्येत? `शिवादिभ्यः` एतावत्युच्यमाने यथाविहितमिञादिरेव प्रत्ययो मा भूत्, अणेव यथा स्यादित्येवमर्थमिति चेत्; नैतदस्ति; यथाविहितमिञादीन् प्रत्ययान् प्रत्येतद्वचनमनर्थकम्; विनाप्यनेन तत्सिद्धेः। तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति। ननु चासत्यण्ग्रहणे फञः प्रकृतत्वात् तस्यैव विधिर्विज्ञायते? नैतदस्ति; यदि हि शिवादिभ्यः फञ् विधातुमिष्टः स्यात्, ततोऽआआदिष्वेव तेषां पाठं कुर्यात्। इदं तर्हि प्रयोजनम् - अयमुष्टिषेणशब्दः शिवादिषु पठते, तस्य **सेनान्तलक्षणकारिभ्यश्च** (4.1.152) इति ण्यप्रत्ययः प्राप्नोति। तत्रासत्यण्ग्रहणे पुनर्विधानमिदं तद्बाधने कृतार्थमिति ततो यथाविहितमिञेव स्यात्, नाण्; ततोऽणेव यथा स्यादित्यण्ग्रहणम्।`उदीचामिञं बाधितुम्` इति। `उदीचाम्` (4.1.153) इत्यनेनेञ् प्राप्नोति, ततस्तं बाधितुं तक्षन्शब्दोऽतर्पठते। तथा तर्हि तक्षन्शब्दस्यात्र पाठादुदीचामिञ् बाध्यते, तथा **सेनान्तलक्षणकारिभ्यश्च** (4.1.152) इति यो ण्यस्तस्यापि बाधा प्राप्नोति। ततश्च `ताक्षण्यः` इति न सिध्यति? इत्याह - `ण्यप्रत्ययस्य तु बाधो नेष्यते` (इति)। कथमनिष्यमाणमपि न भवति? सुपिष्टशब्दादिभिः साहचर्यात्। इह यस्तक्षञ्शब्दः सुपिष्टमयूरखरदूरतक्षन्नित्येवं सुपिष्टादिभिः सह पठते, यथा तेषाञ्चेञपवादार्थोऽत्र पाठः, तैः साहचर्यादस्यापीञपवादार्थ एव पाठो विज्ञास्यते। तत्र शिवादीनां प्राग् भूरिशब्दादिञपवादार्थं वचनम्। भूरि, सन्धि, मुनि - इत्येतेषां **इतश्चानिञः** (4.1.122) इति ढकि प्राप्ते। कुठार, अनभिम्लान - इत्येतयोः ककुत्स्थ - इत्येमादीनां प्राग् जरत्कारुशब्दादिञो बाधनार्थम्। जरत्कारुप्रभृतीनां प्राक् सुपिष्टशब्दात् **स्त्रीभ्यो ढक्** (4.1.120) इति ढकि प्राप्ते। सुपिष्टादीनां प्राक् तक्षञ्शब्दादिञः। तक्षन्नित्यस्य कारिलक्षणोदीचामिञः। ऋष्टिषेणस्य सेनान्तलक्षमस्य ण्यस्य च बाधनार्थम्। गङ्गादिपाट्शब्दयोर्यस्मिन्नप्राप्त इह पाठः स वृत्तिकारेणैव व्याख्यातः। यस्कादिभ्यः प्राग् भूमिशब्दादिञि प्राप्ते। भूमिशब्दस्य **इतश्चानिञः** (4.1.122) इति ढकि। इलाशब्दस्यापि `{द्व्यचः इति सूत्रम्} द्व्यचश्च` (4.1.121) इति ढकि। एमेव सपत्नीशब्दस्यापि **स्त्रीभ्यो ढक्** (4.1.120) इति ढक्येव। `द्व्यचो नद्याः` इति। नदीवाचका ये द्व्यचस्तेभ्योऽण् भवति, सन्ध्या - सान्ध्यम्, कुल्या - कौल्यम्। ननु चात्र तन्नामिकोऽणस्त्येव? सत्यमस्ति; स तु **द्व्यचः** (4.1.121) इति ढका बाध्यते। तस्मात् तद्बाधनार्थं वचनम्। `त्रिवेणी त्रिवणञ्च` इति। त्रिवेणीशब्दः प्रत्ययमुत्पादयति, त्रिवणञ्चापद्यते। त्रिवेण्या अपत्यं त्रैवणः॥ Sutra Prayogas -------------- * **रावणावग्रहक्लान्तम्** (रघुवंशम्): `शिवादिभ्योऽण्` इति विश्रवस्-शब्दात् अण् प्रत्ययः। * **रावणस्य** (रघुवंशम्): `विश्रवसो विश्रवणरवणौ` (गणसूत्रम्) इति रावणादेशः। * **काकुत्स्थं** (भट्टिकाव्यम्): `शिवादिभ्योऽण्` इति अण् ।