41110: अश्वादिभ्यः फञ् ====================== **Padacheda:** अश्व-आदिभ्यः | S | 5 | 3 | फञ् | S | 1 | 1 | Sutrartha --------- **गोत्रापत्यस्य निर्देशार्थमश्वादिगणस्य शब्देभ्यः फञ्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix फञ् comes in the sense of a गोत्र (Patronymic) descendant after the words अश्व etc. Vasu English Translation ------------------------ The affix फञ् comes in the sense of a गोत्र (Patronymic) descendant after the words अश्व etc. The *anuvritti* of *angirasa* does not extend to this aphorism. Thus अश्व + फञ् = अश्व + आयन (7.1.2) = आश्वायनः (7.2.117) 'the grandson or a still lower descendant of *Asva*'. Similarly आश्मायनः There are some words in this class which already have taken a patronymic affix, e.g, आत्रेय, वैल्य, and आनडुह्य ॥ After these words the affix फञ् of course has the force of a *Yuvan* affix. The word आत्रेय is formed by त्रि + ढक् (4.1.122), वैल्य = विलि (a *Rajarshi*) + ञ्यङ् (4.1.171), and आनडुह्य = अमडुह + यञ् (4.1.105). The word शय takes *phan* only when it denotes an *Atreya*, as शायायनः, otherwise शायिः with इञ् or शायः with अण् ॥ The word जात takes '*phan*' only when the offspring of a male is to be denoted, as जातस्यापत्यं = जातायनः but जाताया अपत्यं = जातेयः with ढक् ॥ The word आत्रेय takes '*phan*' when denoting a *Bharadvaja*, as आत्रेयायनः, otherwise it will take the affix इञ्, which will be elided by (2.4.28), leaving the form आत्रेयः ॥ The words भरद्वाज आत्रेये of the above list mean that when a person born in *Atri* *Gotra* is adopted by a person belonging to *Bharadvaja* *Gotra*, then the affix is to be added, he of course is an *Atreya* but gets a new *Gotra* of *Bharadvaja*. Thus भारद्वाजायनः, otherwise the form will be भारद्वाजः with अञ् of (4.1.104). 1 अश्व 2 अश्मन् 3 शंख 4 शूद्रक 5 विद 6 पुट 7 रोहिण 8 खर्जूर (खजूर) 9 खण्जार 10 बस्त 11 पिजूल 12 भडिल 13 भण्डिल 14 भडित 15 भण्डित 16 प्रकृत 17 रामोद 18 क्षान्त 19 काश 20 तीक्ष्ण 21 गोलांक 22 अर्क 23 स्वर 24 स्फुट 25 चक्र 26 श्रविष्ठ 27 पविन्द 28 पवित्र 29 गोमिन् 30 श्याम 31 धूम 32 धूम्र 33 वाग्मिन् 34 विश्वानर 35 कुट 36 शप आत्रेये 37 जन 38 जड 39 खड 40 ग्रीष्म 41 अर्ह 42 कित 43 विशंप 44 विशाल 45 गिरि 46 चपल 47 चुप 48 दासक 49 वैल्य 50 (वैल्व) प्राच्य 51 धर्म्य 52 आनडुह्य 53 पुंसि जाते 54 अर्जुन 55 प्रहृत 56 सुमनस् 57 दुर्मनस् 58 नम 59 (मनस्) प्रान्त 60 ध्वन 61 आत्रेय भरद्वाजे 62 भरद्वाज आत्रेये 63 उत्स 64 आतव 65 कितव 66 वद 67 धन्य 68 पाद 69 शिव 70 खदिर 71 भण्डिक 72 ग्रीवा 73 कुल 74 काण 75 नड 76 वीक्ष्य, 77 वह, 78 खेड, 79 नत्त 80 ओजस, 81 नम ॥ Kashika ------- आङ्गिरस इति निवृत्तम्। अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति। आश्वायनः। आश्मायनः। ये त्वत्र प्रत्ययान्ताः पठ्यन्ते, तेभ्यः सामर्थ्याद् यूनि प्रत्ययो विज्ञायते॥ अश्व। अश्मन्। शङ्ख। बिद। पुट। रोहिण। खर्जूर। खर्जूल। पिञ्जूर। भडिल। भण्डिल। भडित। भण्डित। भण्डिक। प्रहृत। रामोद। क्षत्र। ग्रीवा। काश। गोलाङ्क्य। अर्क । स्वन। ध्वन। पाद। चक्र। कुल। पवित्र। गोमिन्। श्याम। धूम। धूम्र। वाग्मिन्। विश्वानर। कुट। वेश। शप आत्रेये (ग०सू० ६९)। नत्त। तड। नड। ग्रीष्म। अर्ह। विशम्य। विशाला। गिरि। चपल। चुनम। दासक। वैल्य। धर्म। आनडुह्य। पुंसिजात। अर्जुन। शूद्रक। सुमनस्। दुर्मनस्। क्षान्त। प्राच्य। कित। काण। चुम्प। श्रविष्ठा। वीक्ष्य। पविन्दा। आत्रेय भारद्वाजे (ग०सू० ७०)। कुत्स। आतव। कितव। शिव। खदिर। भारद्वाज आत्रेये (ग०सू० ७१)॥ Siddhanta Kaumudi ----------------- गोत्रे । आश्वायनः ॥ (गणसूत्रम् -) पुंसि जाते ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥ Balamanorama ------------ **अश्वादिभ्यः फञ्** - अआआदिभ्यः । गोत्रे इति । शेषपूरणमिदम् । 'आङ्गिरसे' इति निवृत्तम् । आआआयन इति । अआस्य गोत्रापत्यमिति विग्रहः । इञपवादः फञ् । पुंसि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दस्तस्माद्गोत्रे फञित्यर्थः । जातेय इति । स्त्रीब्यो ढक् । Tattvabodhini ------------- **अश्वादिभ्यः फञ्** - अआआदिभ्यः । गोत्र इति । इह गणे बैल्य, अनाडुह्र, आत्रेय -इति गोत्रप्रत्ययान्तारुआयः पठन्ते तेभ्यस्तु यून्येव ।एको गोत्रे॑,गोत्राद्यूनी॑ति वचनात्ष । तत्र बिलिर्नाम राजर्षिस्ततोवृद्धेत्कोसले॑ति ञ्यङ् । आनडुह्रशब्दो गर्गादिञन्तः ।आत्रेय॑शब्दो डगन्त इति ज्ञेयः । पुंसि जात इति । गणसूत्रमिदम् । जातशब्दे पुंसि विद्यमाने फञित्यर्थः । कस्मादित्याकाङ्क्षायामर्थाज्जातशब्दादिति लभ्यते । जाताया इति । लिङ्गविशिष्टपरि भाषया, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिः । Padamanjari ----------- ये त्वत्र गोत्रप्रत्ययान्ताः पठ।ल्न्त इति । वैल्य, आनडुह्य, आत्त्रेय - इत्येते । तत्र बैल्यशब्द'वृद्धेत्कोसलाजादाञ्ञ्यङ्' इति ञ्यङ्न्तः, विलिर्नाम राजर्षैः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः ठितश्चानिञःऽ इति ढगन्तः । शय आत्त्रेये इति । शयशब्दात्फञ् भवति आत्त्रेयश्चेत्, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात् । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्, अन्यत्रात इञः'ण्यक्षत्रिय' इति लुक् । भारद्वाजात्त्रेये इति । अत्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ॥ Nyaas ----- `ये त्वत्र` इत्यादि। **एको गोत्रे** (4.1.93) इति वचनाद्गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो नोपपद्यते। तत्र सामर्थ्यादगोत्राधिकारेऽपि ये गोत्रप्रत्ययान्ताः पठन्ते तेभ्यः **गोत्राद्यून्यस्त्रियाम्** (4.1.94) इति यूनि प्रत्ययो विज्ञायते। `शप आत्रेये` इति। शपशब्दात् फञात्त्रेयश्चेद्भवति शापायन आत्त्रेयः, अन्यत्र शापिः। वैल्यशब्दो गोत्रप्रत्ययान्तः, तस्माद्यूनि भवति। विलिर्नाम राजर्षिः, तस्यापत्यं गोत्रम्, **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) , वैल्यः, तस्यापत्यं वैल्यायनो युवा। आनडुह्रशब्दोऽपि गोत्रप्रत्ययान्तो गर्गादिषु, यञन्तत्वात्; तस्मादपि यून्येव फञ् - आनडुह्रायनो युवा। स्त्रियां ढगेव भवति - जाताया अपत्यं जातेयः। `आत्त्रेय भारद्वाजे`इति। आत्त्रेयशब्दात् फञ् भारद्वाजश्चेदपत्यार्थो भवति - आत्त्रेयायणो भारद्वाजः, अन्यत्र आत्त्रेयिः। `भारद्वाज आत्त्रेये` इति। भारद्वाजशब्दात् फञ् आत्त्रेयेऽपत्यविशेषे - भारद्वाजायन आत्त्रेयः, अन्यत्र - ऋष्यण्॥