41105: गर्गादिभ्यो यञ् ====================== **Padacheda:** गर्ग-आदिभ्यः | S | 5 | 3 | यञ् | S | 1 | 1 | Sutrartha --------- **गोत्रापत्यस्य निर्देशार्थम् गर्गादिगणस्य शब्देभ्यः यञ् प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the words गर्ग etc. Vasu English Translation ------------------------ The affix यञ् comes in the sense of a गोत्र (Patronymic) descendant after the words गर्ग etc. Thus गार्ग्यः, 'the grandson or a still lower descendant of *Garga*', so also वात्स्यः &c. 1 गर्ग, 2 वत्स,। 3 वाजासे। 4 संस्कृति, 5 अज, 6 व्याघ्रपात्, 7 विदभृत्, 8 प्राचीनयोग, 9 अगस्ति, 10 पुलस्ति, 11 चमस, 12 रेभ, 13 अग्निवेश, 14 शंख, 15 शट, 16 शक, 17 एक, 18 धूम, 19 अवट, 20 मनस्, 21 धनंजय, 22 वृक्ष, 23 विश्वावसु, 24 जरमाण, 25 लोहित, 26 शंसित, 27 बभ्र 28 वल्गु, 29 मण्डु. 30 गण्डु, 31 शंकु, 32 लिगु, 33 गुहलु, 34 मन्तु, 35 मंक्षु, 36 अलिगु, 37 जिगीषु, 38 मनु, 39 तन्तु, 40 मनायी, 41 सूनु, 42 कथक, 43 कन्थक, 44 ऋक्ष, 45 तृक्ष (वृक्ष) 46 तनु, 47 तरुक्ष, 48 तलुक्ष, 49 तण्ड, 50 वतण्ड, 51 कपिकत, 52 कत, 53 कष, 54 भूत, 55 कुरुकत, 56 अनडुह 57 कवि, 58 पुरुकुत्स, 59 शक्ति, 60 कण्व, 61 शकल, 62 गोकक्ष, 63 अगस्त्य, 64 कुण्डिनी 65 यज्ञवल्कं, 66 पर्णवल्क, 67 अभयजात, 68 विरोहित, 69 वृषगण, 70 रहूगण, 71 शण्डिल, 72 वर्णक (चणक) 73 चुलुक, 74 मुद्गल, 75 मुसल, 76 जमदग्नि, 77 पराशर, 78 जतूकर्ण (जातूकर्ण) 79 महित, 80 मन्त्रित, 81 अश्मरथ, 82 शर्कराक्ष, 83 पूतिमाष, 84 स्थूरा, 85 अदरक (अररक) 86 एलाक, 87 पिङ्गल, 88 कृष्ण, 89 गालन्द, 90 उलूक, 91 तितिक्ष, 92 भिषज (भिषज्) 93 भिष्णज, 94 भडित, 95 भाण्डत, 96 दल्भ, 97 चेकित, 98 चिकित्सित, 99 देवहू, 100 इन्द्रहू, 101 एकलू, 102 पिप्पल, 103 बृहदग्नि, 104 सुलोहिन्, 105 सुलाभिन्, 106 उक्थ, 107 कुटिगु, 108 संहित, 109 पथ, 110 कन्थु, 111 श्रुव, 112 कर्कटक, 113 रुक्ष, 114 प्रचूल, 115 बिलम्ब, 116 विष्णुज ॥ The word मनु is found in the लोहितादि sublist of this class. It ought to take ष्फ after यञ् in the feminine by (4.1.18), how then the form मानवी in मानवी प्रजा ? The affix यञ् comes in denoting a *Gotra* offspring, but in denoting a descendant in general, this affix will not come, and hence no *shpha* also. If so, then why the immediate descendant of जमदग्नि is called जामदग्न्यः which is a Name of *Parasuram* the son of *Jamadagni*, or why *Vyasa* the son of *Parasara* is called पाराशर्यः ? These are exceptions formed by गोत्र रुपाध्यारोपः i.e. by superimposing of *Gotra*-form on these. Their proper *apatya* forms are by ऋष्यण् (4.1.114) i. e. जामदग्नः and पाराशरः ॥ Kashika ------- गोत्र इत्येव। गर्गादिभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति। गार्ग्यः। वात्स्यः। मनुशब्दोऽत्र पठ्यते। तत्र कथं मानवी प्रजा? गोत्र इत्युच्यते। अपत्यसामान्ये भविष्यति। कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इति? गोत्ररूपाध्यारोपेण भविष्यति। अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशर इति॥ गर्ग। वत्स। वाजासे (ग०सू० ६८)। संकृति। अज। व्याघ्रपात्। विदभृत्। प्राचीनयोग। अगस्ति। पुलस्ति। रेभ। अग्निवेश। शङ्ख। शठ। धूम। अवट। चमस। धनंजय। मनस। वृक्ष। विश्वावसु। जनमान। लोहित। शंसित। बभ्रु। मण्डु। मक्षु। अलिगु। शङ्कु। लिगु। गुलु। मन्तु। जिगीषु। मनु। तन्तु। मनायी। भूत। कथक। कष। तण्ड। वतण्ड। कपि। कत। कुरुकत। अनडुह्। कण्व। शकल। गोकक्ष। अगस्त्य। कुण्डिनी। यज्ञवल्क। उभय। जात। विरोहित। वृषगण। रहूगण। शण्डिल। वण। कचुलुक। मुद्गल। मुसल। पराशर। जतूकर्ण। मन्त्रित। संहित। अश्मरथ। शर्कराक्ष। पूतिमाष। स्थूण। अररक। पिङ्गल। कृष्ण। गोलुन्द। उलूक। तितिक्ष। भिषज्। भडित। भण्डित। दल्भ। चिकित। देवहू। इन्द्रहू। एकलू। पिप्पलू। वृदग्नि। जमदग्नि। सुलोभिन्। उकत्थ। कुटीगु ॥ Siddhanta Kaumudi ----------------- गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥ Laghu Siddhanta Kaumudi ----------------------- गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥ Balamanorama ------------ **गर्गादिभ्यो यञ्** - गर्गादिभ्यो यञ् । गाग्र्यो वात्स्य इति । गर्गस्य गोत्रपत्यमिति, वत्सस्य गोत्रापत्यमिति च विग्रहः ।रामो-जामदग्न्यः॑, 'पाराशर्यो व्यास' इत्यादौ त्वनन्तरापत्ये गोत्रात्वारोपाद्यञित्याहुः । Tattvabodhini ------------- **गर्गादिभ्यो यञ्** - गर्गादिभ्यो । गर्ग, वत्स, व्याघ्रपाद, पुलिस्त, बभ्रु, मण्डु, वतण्ड, कपि, कत शकल, कण्व, अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि — इत्यादि । कथं तर्हिरामो जामदग्न्यः॑इति । अनन्तरापत्ये ह्रयम् । सत्यम् । अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः । Padamanjari ----------- अपत्यसामान्ये भविष्यतीति । अन्ये तु -'मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे - मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे । कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजा' से इति । वाजशब्दो यञमुत्पादयति, असेउअसमासे । समासे तु सौवाजिः,'ग्रहणवता प्रातिपदिकेन' इत्यस्यानित्यत्वज्ञापनार्थः - ठसेऽ इति प्रतिषेधः ॥ Nyaas ----- `कथं मानवी प्रजा`इति। गर्गादिषु पाठाद्यञा भवितव्यम्, ततश्च मानवीति न सिध्यतीति। लोहितादिलक्षणे हि यञन्तात्तु ष्फे विहिते मानव्यायनीति भवितव्यमित्यभिप्रायः। गोत्रमित्युच्यते, गोत्रे हि यञ् प्रत्यय उच्यते, नापत्यसामान्ये। तेन तत्रौत्सर्गिकोऽण् मानवीति भविष्यति। `कथम्` इत्यादि। यदि गोत्रमित्युच्यते, ततो यथा गर्गशब्दादनन्तरापत्ये यञ् न भवति, तथा च जमदग्निपराशरशब्दाभ्यामपि न भवितव्यम्, तत्कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इत्यत्र यञ् भवति? `गोत्ररूपाध्यारोपेण भविष्यति` इति। यदानन्तरापत्ययोरपि गोत्ररूपयो रामव्यासयोर्विवक्षितत्वाद्गोत्ररूपाध्यारोपः क्रियते, तदा यञ् भवतीत्यदोषः। असतो न युक्ता विवक्षेत्येतच्च न सम्भावनीयम्; दृश्यते ह्रसतोऽपि विवक्षा, यथा - विन्ध्यो वर्द्धितकः, समुद्रः कुण्डिकेति। यदा तह्र्रनन्तरापत्यविवक्षा भवति, तदा केन भवितव्यमित्याह - `अन्तरापत्यविवक्षायां तु` इत्यादि। `वाजाऽसे`इति। वाजशब्दो यञमुत्पादयति। असे, असमास इत्यर्थः। वाज्यः असमास इति किम्? सौवाजिः॥ Prakriyasarvasvam ----------------- गार्ग्यः । वात्स्यः । कात्यः । शाकल्यः । काण्व्यः । याज्ञवल्क्यः । मौद्गल्यः । शाण्डिल्यः । कौटल्यः । चाणक्यः । जामदग्न्यः । पाराशर्यः । पुत्रे तु जामदग्न्ययो रामः । पाराशरो व्यास इत्यृष्यण् । तयोर्यञ् प्रयोगस्तु, द्रौणायनवत् । एवमेव तार्क्ष्य इत्यपि पुत्रे यञ् । तृक्षः कश्यपः ।। Sutra Prayogas -------------- * **जामदग्न्यः** (किरातार्जुनीयम्): `गर्गादिभ्यो यञ्` इति यञ्प्रत्ययः। * **जामदग्न्यम्** (किरातार्जुनीयम्): `गर्गादिभ्यो यञ्` इति यञ्प्रत्ययः।