41102: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु =========================================== **Padacheda:** शरद्वत्-शुनक-दर्भात् | S | 5 | 1 | भृगु-वत्स-आग्रायणेषु | S | 7 | 3 | Sutrartha --------- **शरद्वत्-शब्दात् भृगुगोत्रस्य विषये, शुनक-शब्दात् वत्सगोत्रस्य विषये, तथा दर्भ-शब्दात् आग्रायणगोत्रस्य विषये गोत्रापत्यस्य निर्देशं कर्तुम् फक् प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix फक् comes in denoting a गोत्र (Patronymic) descendant after the words 1. शरद्वत् 2. शुनक 3. दर्भा when they denote the descendants of भृगु , वत्स and अग्रायण , respectively. Vasu English Translation ------------------------ The affix फक् comes in denoting a गोत्र (Patronymic) descendant after the words 1. शरद्वत् 2. शुनक 3. दर्भा when they denote the descendants of भृगु , वत्स and अग्रायण , respectively. Thus शारद्वातायनः = भार्गवः otherwise शारद्वतः (formed by अञ्) शौनकायनः = वात्स्यः, otherwise शौनकः, दार्भायणः = आग्रायणः, otherwise दार्भिः, (formed by इञ् (4.1.95)). The words शरद्वत् and शुनक belonging to बिदादि class would by (4.1.104) have taken the affix अञ् in denoting *Gotra*, the present *sutra* prohibits that in certain cases and enjoins फक् instead. Kashika ------- गोत्र इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथा — संख्यं भृगुवत्साग्रायणेष्वर्थेष्वपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतोऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनकोऽन्यः। दार्भायणो भवत्याग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी (४.१.१०४)। ताभ्यामञोऽपवादः फक्॥ Siddhanta Kaumudi ----------------- गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत् । दार्भिरन्यः ॥ Balamanorama ------------ **शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु** - शरद्वच्छुनक । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे फगिति । आद्यौ विदादी इति । शरद्वच्छुनकशब्दौ विदादी । अतस्तदुभयविषयेऽञपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः — कस्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् । Tattvabodhini ------------- **शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु** - शरद्वच्छुनक । भृगः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात् । एवं शुनकस्यापत्यं न भवति वत्सः । अतोऽत्र भार्गवश्च वात्स्यश्चाग्रायणश्चेति द्वन्द्वेअत्रभृगु॑इतियञिञोश्चे॑ति च यथासंभवं लुग्बोध्यः । यद्यप्यत्र बहुत्वाऽभावात्अत्रिभृगु॑इत्यादिना लुग्दुर्लभस्तथापि युगपदधिकरणवचनतायां वर्तिपदानां बह्वर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक् । अतो व्याचष्टे -भार्गवश्चेदिकि । वात्स्यश्चेदिति च । Padamanjari ----------- शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति'यञञोश्च' इति च गोत्रप्रत्ययस्य लुक्, तदाह - भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥ Nyaas ----- `गोत्र इत्येतत्` इति। यदि तर्हि गोत्र इति वर्तते, भुगुवत्साभ्यां मूलप्रकृतिभ्यां प्रत्ययार्थस्य विशेषणं नोपपद्यते, गोत्रप्रत्ययाभ्यामेव हि ताभ्यां गोत्रापत्यं प्रत्ययार्थः शक्यो विशेषयितुम्त एव युक्तं स्याद्वक्तुम् - भार्गववात्स्यायनाग्रायणेष्विति? नैष दोषः;गोत्राधिकारसामर्थ्याद्धि गोत्रापत्य एव वर्तमानाविह गृह्रेते, कार्ये कारणोपचारं कृत्वा। तामेव गोत्रापत्ये तयोर्वृतिंत दर्शयितुं वृत्तावित्युक्तम् - `शारद्वतायनो भवति भार्गवश्चेत्, शौनकायनो भवति वात्स्यश्चेत्` इति॥ Prakriyasarvasvam ----------------- एभ्यो गोत्रे भृग्वाद्यपत्येषु वाच्येषु फक् स्यात् । शरद्वत्पुत्रः शारद्वतः । तत्पुत्रो भृगुवंशजो दत्तपुत्रश्चेत् शारद्वतायनः । स्ववंशजश्चेच्छारद्वत एव । एवं वात्स्यश्चेच्छौनकायनः । आग्रायणश्चेद्दारभायणः । स्ववंशजे शौनकः दाभिः । आद्ययोर्विदाद्यञ् । दर्भादत इञ् ।।