41089: गोत्रेऽलुगचि =================== **Padacheda:** गोत्रे | S | 7 | 1 | अलुक् | S | 1 | 1 | अचि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The लुक् elision of गोत्र (Patronymic) affixes in plural, which have been enjoined by sūtras यस्कादिभ्यो गोत्रे (2.4.63) etc. and the rest is prohibited, when the affix has an initial vowel and it has the sense of the various affixes taught antecedent to तेन दीव्यति खनति जयति जितम् (4.4.2). Vasu English Translation ------------------------ The लुक् elision of गोत्र (Patronymic) affixes in plural, which have been enjoined by sūtras यस्कादिभ्यो गोत्रे (2.4.63) etc. and the rest is prohibited, when the affix has an initial vowel and it has the sense of the various affixes taught antecedent to तेन दीव्यति खनति जयति जितम् (4.4.2). Thus the plural of गार्ग्य is गर्गाः (2.4.64). But the disciples of गर्गाः will be formed by the affix छ (IV. 21.114) which is a *pragdivyatiya* affix and for the purposes of adding this affix the base will be considered to be गार्ग्यः as if there was no elision. Thus गार्ग्याः + छ = गार्गीयाः (7.1.2) and (6.4.151), and not गर्गीयाः । Similarly वात्सीयाः, आत्रयीयाः, खारपायणीयाः 'disciples of *Vatsyas*, *Atreyas*, *Kharpayanas*.' Why do we say "गोत्रे" i. e. "when the *Gotra* affix is elided"? Observe कौबलम्, बादरम् ॥ Here the affix denoting "fruit" is elided by लुक् by *Sutra* (4.3.163). Then when the *pragdivytiya* affix अण् is added, the *luk*-elision is maintained. Thus the fruit of बदरी is बदरम्; from which बादरम् 'belonging to or coming from the jujube-fruit.' Why do we say "having an initial vowel"? Observe गर्गेभ्य आगतम् = गर्गरूप्यम् and not गार्गरूप्यम्; and गर्गमयम्; and not गार्गमयम् ॥ Here the affix रूप्य, a *pragdivyatiya* affix taught in *sutra* (4.3.81) does not begin with a vowel; therefore it is added to गर्ग and not गार्ग्य ॥ Similarly the next affix मयट् (4.3.82). Why do we say "when it has the sense of a *pragdivyatiya* affix" ? Thus गर्गेभ्यो हितम् = गर्गीयम् 'who is fit for the *Gargas*'. Here the affix छ (5.1.1) has the sense of 'suitable for that', as taught in *Sutra* (5.1.5) not one of the *pragdivyatiya* senses. Hence the *luk* elision is maintained. The *Gotra*-affixes are taught to be elided in the plural only: and when after such supposed elision a Singular or Dual Person is intended, this rule will still apply and there will be no elision. Thus बिद will form its *Gotra* derivative by अञ् (4.1.104) as बिद + अञ् = बैदः ॥ The plural of बैद will be बिदाः by the elision of अञ् ॥ One *yuvan* or two *yuvan* descendants of these बिदाः will be formed by the affix इञ् (4.1.95), for the application of which the word बिदाः will be supposed not to have lost its अञ्, therefore इञ् will be added to बैद, thus बैद + इञ्; then this इञ् is elided by (2.4.58). The resultant form is बैदः, बैदो ॥ The many descendants (in the plural) of one बैदः or two बैदः will be बिदाः ॥ Bhashya ------- गोत्रेऽलुगचि (1334) (अलुगधिकरणम्) (5246 पूर्वपक्षवार्तिकम्॥ 1 ॥) - गोत्रेऽलुगचीति चेदितरेतरा श्रयत्वादप्रसिद्धिः - (भाष्यम्) गोत्रेऽलुगचीति चेदितरेतराश्रयत्वादप्रसिद्धिः। का इतरेतराश्रयता? अलुङि्गमित्तोऽजादिः, अजादिनिमित्तश्चालुक्; तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते॥ (5247 पूर्वपक्षवार्तिकम्॥ 2 ॥) - विप्रतिषेधात्तु लुकश्छविधानम् - (भाष्यम्) विप्रतिषेधात्तु लुकः छो भविष्यति। लुकोऽवकाशः -गर्गाः, वत्साः, बिदाः, उर्वाः। छस्यावकाशः -शालीयः, मालीयः, गार्गीयः, वात्सीयः। इहोभयं प्राप्नोति -गर्गाणां छात्राः गार्गीयाः, वात्सीयाः। छो भवति विप्रतिषेधेन। नैष युक्तो विप्रतिषेधः॥ (समाधानश्लोकभाष्यम्) भूम्नीति च लुक् प्राप्तो बाह्ये चार्थे विधीयतेऽजादिः। बहिरङ्गमन्तरङ्गाद् विप्रतिषेधादयुक्तं स्यात्॥ भूम्नि प्राप्तस्य लुको यदजादौ तद्धितेऽलुकं शास्ति। एतद् ब्रवीति कुर्वन् समानकालावलुग्लुक् च॥ यदयं भूम्नि प्राप्तस्य लुकोऽजादौ तद्धितेऽलुकं शास्ति, तज्ज्ञापयत्याचार्यः समानकालावेतावलुग्लुकाविति॥ (अजादिप्रत्ययस्य बलवत्त्वोपपादकभाष्यम्) यदि वा लुकः प्रसङ्गे भवत्यलुक् छस्तथा प्रसिद्धोऽस्य। यदि वा लुकः प्रसङ्गेऽलुग्भवति तथाऽस्य च्छः प्रसिद्धो भवति। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः॥ (प्रकारान्तरोपपादकभाष्यम्) लुग्वाऽलुकः प्रसङ्गं प्रतीक्षते छेऽलुगस्य तथा॥ लुग्वा पुनरलुकः प्रसङ्गं यदि प्रतीक्षते, तथाऽस्य छेऽलुक् सिद्धो भवति। प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते॥ (5248 पूर्वपक्षवार्तिकम्॥ 2 ॥) - गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्वयेकयोरलुक् - (भाष्यम्) गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः। बिदानामपत्यं माणवको बैदः, बैदौ। किमर्थमिदम्, नाचीत्येवालुक् सिद्धः? अचीत्युच्यते, न चात्राजादिम्पश्यामः। प्रत्ययलक्षणेन। वर्णाश्रये नास्ति प्रत्ययलक्षणम्॥ (5249 पूर्वपक्षवार्तिकम्॥ 3 ॥) - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि - (भाष्यम्) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः। बैदस्यापत्यं बहवो माणवका बिदाः, बैदयोर्बिदाः। अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुग्न प्राप्नोति। मा भूदेवम् -अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति। अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति॥ नैवं शक्यम्। इह हि दोषः स्यात् -काश्यपप्रतिकृतयः काश्यपा इति॥ (सिद्धान्तभाष्यम्) नैष दोषः। यत्तावदुच्यते -गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः इति। न वक्तव्यः। अचीत्येवालुक् सिद्धः। अचीत्युच्यते, न चात्राजादिं पश्यामः। प्रत्ययलक्षणेन॥ ननु चोक्तं वर्णाश्रये नास्ति प्रत्ययलक्षणमिति। यदि वा. कानिचिद्वर्णाश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति, तथा चेदमपि भविष्यति॥ अथ वाऽविशेषेणालुकमुक्त्वा हलि नेति वक्ष्यामि। यद्यविशेषेणालुकमुक्त्वा हलि नेत्युच्यते, बिदानामपत्यं बहवो माणवका बिदाः -अत्राप्यलुक् प्राप्नोति। अस्तु। पुनरस्य युवबहुत्वे वर्तमानस्य लुग्भविष्यति। पुनरलुक्कस्मान्न भवति? समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते, न चैतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तम्। किं तर्हि? द्वितीयमर्थमुपसंक्रान्तम्। अवश्यं चैतदेवं विज्ञेयम् -अत्रिभरद्वाजिका, वसिष्ठकश्यपिका, भृग्वङि्गरसिका, कुत्सकुशिकिका -ःइत्येवमर्थम्॥ (5250 सिद्धान्तवार्तिकम् ॥ 4 ॥) - गर्गभार्गविकाग्रहणं वा नियमार्थम् - (भाष्यम्) अथ वा गर्गभार्गविकाग्रहणं नियमार्थं भविष्यति। एतस्यैव गोत्रप्रत्ययान्तस्य द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवति, नान्यस्येति॥ (सिद्धान्तभाष्यम्) यदप्युच्यते -एकवचनद्विवचनान्तस्य च प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः, अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ् न प्राप्नोतीति। मा भूदेवम् -अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति, अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति। ननु चोक्तं नैवं शक्यमिह हि दोषः स्यात् - काश्यपप्रतिकृतयः काश्यपा इति। नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्॥ यद्यञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवमुच्यते, बिदानामपत्यं माणवको बैदः, बैदौ -अत्रापि प्राप्नोति॥ अलुगत्र लुकं बाधिष्यते। अलुकि च कृते पुनर्लुको निमित्तं नास्तीति कृत्वा पुनर्लुग्न भविष्यति॥ (5251 सिद्धान्तवार्तिकम्॥ 5 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? आपत्यं वा गोत्रम्, परमप्रकृतेश्चापत्यः, आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः स चास्त्रियाम् एको गोत्रग्रहणानर्थक्यं च, बहुवचनलोपिषु च सिद्धम् इति। तत्र बिदानामपत्यं माणवक इति विगृह्य बिदशब्दाद्द्व्येकयोरुत्पत्तिर्भविष्यति -बैदः, बैदौ। बैदस्यापत्यं बहवो माणवक इति विगृह्य बिदशब्दाद्बहुषूत्पत्तिर्भविष्यति -बिदा इति, अविरविकन्यायेन॥ Kashika ------- प्राग् दीव्यत इत्येव। **यस्कादिभ्यो गोत्रे** (२.४.६३) इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विषयभूते प्रतिषिध्यते। गर्गाणां छात्रा गार्गीयाः। वात्सीयाः। आत्रेयीयाः। खारपायणीयाः। गोत्र इति किम्? कौवलम्। बादरम्। अचीति किम्? गर्गेभ्य आगतं गर्गरूप्यम्। गर्गमयम्। प्राग् दीव्यत इत्येव — गर्गभ्यो हितं गर्गीयम्॥ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्॥ बिदानामपत्यं युवा, युवानौ। बैदः। बैदौ। बैदशब्दादत इञि (४.१.९५) कृते तस्य च इञो **ण्यक्षत्रियार्षञितः०** (२.४.५८) इति लुकि रूपम्॥ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि॥ बैदस्य बैदयोर्वापत्यं बहवो माणवका बिदाः। नह्यत्राञ् बहुषूत्पन्नः॥ Siddhanta Kaumudi ----------------- अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः (SK1337) ॥ Balamanorama ------------ **गोत्रेऽलुगचि** - गोत्रेऽलुगचि ।अलु॑गिति च्छेदः । 'प्राग्दीव्यत' इत्यनुवृत्तेः, प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लब्धम् । अचीति तद्विशेषणं । तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादावित्यादिना । गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रदर्शनमिदम् । गर्गस्य गोत्रापत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्ययञञोश्चे॑ति लुकि 'गर्गा' इति भवति । वृद्धाच्छ इति । गाग्र्य शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परेयञञोश्चे॑ति प्राप्तो लुङ् न भवति । Tattvabodhini ------------- **गोत्रेऽलुगचि** - गोत्रे लुगचि । गोत्रे किम् । गोत्रार्थकप्रत्ययस्यैवाऽलुग्यथा स्यात् । नेह — कुवलस्येदं कौवलं, बदरस्येदं बादरम् । कुवलीबदरीशब्दौ हि गौरादिङीषन्तौ, ताभायं फलरूरे विकारेअनुदात्तादेश्चे॑त्यञ् । तस्यफले लु॑गिति लुक् । तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनाऽलुङ्न भवतीति वृद्धित्वाऽभावाच्छो नेति भावः । विवक्षित इति । अचीति विषयसप्तमी । परसप्तमीत्वे तु अवृद्धत्वाच्छस्याऽप्राप्तौ अणेव स्यादिति भावः । Padamanjari ----------- पूर्वत्रोतरत्र च लुग्विधानादिह नञ् प्रश्लिष्यते । यस्कादिभ्यो गोत्र इत्यादिनेति ।'प्राग्दीव्यतः' इत्युपजीवनाय तु प्रकरणोत्कर्षः, प्रसज्यप्रतिषेधश्चायम् । अचीति । यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयं प्राप्नोति - गार्गीया वात्सीया इतिच्छे परतोऽलुका भवितव्यम्, अलुकि च सति वृद्धत्वाच्छेन भवितव्यमिति । ननु च छे परतोऽलुग्विधीयते, किं तर्हि ? ठजादिमात्रे, तत्र य एवाजादिः सम्भवति तत्रैवालुग्भविष्यति, तद्यथा - गर्गाणां छात्त्राः,'प्राग्दीव्यतो' ण्ऽ, तत्र परतः'यञञोश्च' इति प्राप्तस्य लुकः प्रतिषेधे गर्गा इति भवति । यद्यप्यत्र सत्यसति वा लुकि नास्तिविशेषः, ठापत्यस्य च तद्धितेऽ इति यलोपविधानात् । इह त्वत्त्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढकः ठत्रिभृगुऽ इति लुकि कृतेऽत्रीणां छात्रा इत्यणि परतः प्रतिषेधे सति आत्त्रेया इति भवति, असति तु प्रतिषेधे आत्रा इति स्यात् ? स्यादेतदेवं यदि लुप्तस्य प्रत्ययस्य पुनः प्रादुर्भावो विधीयतेत, इह त्वलुगिति वचनाल्लुकः प्रतिषेधो विधेयः, प्राप्तस्य चानभिनिर्वृस्य प्रतिषेधेन निवृत्तिः शक्यते कर्तुम्, ततश्च यद्यत्राणजादिरभिप्रेतः स्यात्, प्रागेव लुकः प्रवृत्तिरभ्युपगन्तव्या; अन्यथा वृद्धत्वाच्छ एव स्यात्, लुक चेत्प्रवृतः प्रतिषेधः किं करिष्यति ! यो हि भुक्तवन्तं प्रति ब्रूयान्मा भुक्था इति, किं तेन कृतं स्यात् ! तदिहाजादौ प्रवृतेऽलुका भवितव्यम्, अलुकि च प्रवृतेऽजादिना भवितव्यमिति व्यक्तमितरेतराश्रयम् । विप्रतिषेधात्सिद्धम्, लुकोऽवकाशो यत्र प्राग्दीव्यतीयार्थो न विवक्ष्यते - गर्गा वत्सा इति, च्छस्यावकाशः - शालीय इति; गर्गाय इत्यत्रोभयप्रसङ्गे परत्वाच्छाए भविष्यति । तत्र परतो लुकः प्रतिषेधः, अन्तरङ्गो लुग् अपत्यबहुत्वमात्रापेक्षत्वात्, बहिरङ्गश्च्छः प्राग्दीव्यतीयार्थापेक्षित्वात्, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः । एवं तर्ह्युच्यते चेदमजादौ परतो लुग्भवतीति, यदि च तावत्येव निमितमस्तीति बहुत्वमात्रापेक्षो लुक् प्रवर्तेत प्रतिषेधविधानमनर्थकं स्यादिति यावत्प्राग्दीव्यतीयोऽजादिर्नोत्पद्यते तावल्लुग् न प्रवर्तत इति कल्प्यते, ततश्च वृद्धत्वाच्छे सति लुकि प्रतिषिद्धे गर्गीय इति सिद्धमिष्टम् । विषयसप्तम्यां तु न किञ्चिद्यत्नसाध्यम्, गर्गाणां छात्रा इत्यर्थविवक्षायामजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव लुकि प्रतिषिद्धे वृद्धत्वाच्छाए भवतीति, तस्माद्विषयसप्तमीमाश्रित्याह - प्राग्दीव्यतीये प्रत्यये विषयभूत इति । खारपायणीया इति । खरपस्यापत्यानि बहूनि'नडादिभ्यः फक्' ,'यस्कादिभ्यो गोत्रे' इति प्राप्तस्य लुकः प्रतिषेधः । कौबलम्, बादरमिति । कुबली-बदरीशब्दौ गोरादिङीषन्तावन्तोदातौ, ताभ्यां फले विकारे ठनुदातादेश्चऽ इत्यञ्, तस्य'फले लुक्' इति प्राप्तस्य लुकः तस्येदमित्यर्थविवक्षायां प्रतिषेधो न भवति, तेनावृद्धत्वादणेन भवति । गर्गरूप्यमिति । यद्यत्रालुक् स्याद्, सार्ग्यरूप्यमिति स्यात् । गार्गीयमिति ।'तस्मै हितम्' इति प्राक्क्रीताच्छः । विषयसप्तम्या एव फलं दर्शयति - गोत्रस्येत्यादि । गोत्रस्येति गोत्रप्रत्ययस्येत्यर्थः । वहुषु लोपिन इति । बहुष्वर्थेषु विधीयमानलोपस्येत्यर्थः । बहुवचनान्तस्य प्रंवृताविति । प्रवृत्तिःउअर्थान्तरसंक्रान्तिः, बहुवचनान्तस्य सतोऽर्थान्तरसंक्रान्तौ सत्यामित्यर्थः । द्व्येकयोरिति । यत्रार्थान्तरे संक्रान्तस्य द्वित्वैकत्वयोः सतोरित्यर्थः । सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यनि प्रत्यय उत्पद्यते तस्य च लुक् क्रियते तदा भवति लुप्ते हि युवप्रत्यये प्रकृतिरेव तदर्थमाहेति भवति संक्रान्तिः । बिदानामिति । बदस्यापत्यानि बहूनि, ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, बिदाः, तेषां बिधानामपत्यं युवा युवानौ वेति विवक्षायाम् ठतःऽ इति इञि विवक्षिते गोत्रप्रत्ययस्याञो लुकः प्राप्तस्यानेन प्रतिषेधः । इञः'ण्यक्षत्रियार्ष' इति लुकि बैदः, बैदाविति भवति । परसप्तमीपक्षे त्वलुग्न प्राप्नोति; अजादेरभावात् । इदमिह सम्प्रधार्यम् - इञो लुक् क्रियतामयं वाऽलुगिति ? परत्वादलुग्भवति । इञो लुग्नित्यः, कृतेऽप्यस्मिन्नलुकि प्राप्नोति अकृतेऽपि, अयं पुनरलुगनित्यः, न हीञो लुकि कृते प्राप्नोति; अजादेरभावात् ? प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? नात्र वर्णो निमितम्, किं तहि ? प्रत्ययः, तस्यैव तु विशेषणमचीति । तत्र यथा हलादौ पिति सार्वधातुके विधीयमानः'तृणह इम्' अतृणेडित्यत्रापि भवति प्रत्ययलक्षणेन तद्वदिहापि भविष्यति ? सत्यम्; विषयसप्तमीपक्षे नैवं क्लेशोऽनुभवनीयो भवति । ननूभयोरपि पक्षयोरिहापि न प्राप्नोति - बिदानामपत्यं बहवो माणवका बिदा इति ? नैष दोषः; द्वे अत्र बहुत्वे - युवबहुत्वं गोत्रबहुत्वं च, तत्र गोत्रबहुत्वाश्रयस्य लुकः प्रतिषेधोऽस्तु पुनर्युवबहुत्वाश्रयो लुग्भविष्यति । लुग्विधौ हि लौकिकस्य गोत्रस्य ग्रहणम्, युवापि च लोके गोत्रमित्युपचर्यते - गार्ग्यायणोऽस्मि गोत्रेणेति । अथ युवबहुत्वाश्रयस्यापि लुकः पुनः प्रतिषेधः कस्मान्न भवति ? विषयसप्तम्यां तावद् यस्यामवस्थायां लुक् प्राप्तः तस्यामवस्थायां यदि कश्चिदजादिर्विषयभूतस्ततोऽलुका भवितव्यम्, इह चाजादिर्विषयभूत उत्पन्नो लुप्तश्च, पश्चाद्यौवसु बहुषु संक्रान्तौ सत्यां लुक् प्राप्तः, न चास्यामवस्थायां कश्चिदजादिविषयभूत इति पुनर्लुग्न भविष्यति । परसप्तम्यामपि गोत्रे वर्तमानस्या लुग्भवत्यजादौ परतः । कस्मिन्नजादौ ? प्राग्दीव्यतो येऽर्थास्तेषु योऽजादिस्तस्मिन्नित्युच्यमाने यस्मिन् गोत्रे वर्तमानस्य लुक् प्राप्तस्तद्व्यतिरिक्ते प्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रेति गम्यते । इह चेञेवाजादिस्तदर्थ एव च गोत्रे लुगिति प्रतिषेधो न भविष्यति । यद्वा -'समर्थानां प्रथमात्' इत्यतः प्रथमादिति वर्तते, तच्च षष्ठ।ल्न्तं विपरिणम्यते, प्रथमार्थवृत्तित्वाच्च प्राथम्यमाश्रीयते, तदयमर्थो भवति - प्रथमस्य गोत्रप्रत्ययस्य लुग्न भवति, यस्मिन्नर्थे प्रत्यय उत्पन्नस्तत्रैवार्थे वर्तमानस्य यो लुक् प्राप्तः स न भवति । इह तु द्वितीयमर्थमुपसंक्रान्तस्य लुक् प्राप्त इति न प्रतिषिध्यते । अवश्यं चैतदेवं विज्ञेयम् - प्रथमस्य लुक् प्रतिषिध्यत इति, अन्यथा अत्त्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, तस्यापत्यं बहवो युवानः, अत इञः'ण्यक्षत्रियार्ष' इति लुक्, ढकः ठत्रिभृगुऽ इति लुक्, अत्रयः; भरद्वाजशब्दाद्विदाद्यञ्, तदन्ताद्यौवबहुत्वे इञो लुक्, अञः'यञञोश्च' इति लुक्, अत्रयश्च भरद्वाजाश्च अत्रिभरद्वाजास्तेषां मैथुनिकाद् द्वन्द्वाद् वुन् - अत्रिभरद्वाजिका, तत्रालुक् प्राप्नोति; कुत्सादृष्यणः ठत्रिभृगुऽ इति लुक्, कुशकादञन्तादिञो लुकि कुशिकाः, कुत्सकुशिकिकाः, वसिष्ठकश्यपिकाः, भृग्वङ्गिरसिकाः । अय वा -गोपवनादिषु गर्घभार्गविकाशब्दः पठ।ल्ते, भार्गवशब्दस्य युवबहुत्वे प्राप्तस्य लुकः प्रतिषेधार्थं तन्नियमार्थं भविष्यति - एतस्यैव द्वितीयमर्थमउपसंक्रान्तस्यालुग्भवतीति । नैव वा पुनरत्र युवबहुत्वे वर्तमानस्यालुक्प्राप्नोति, किं कारणम् ? गोत्र इत्युच्यते, यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, इह तु पारिभाषिकस्य ग्रहणम्, युवशब्दसाहचर्यात् ; अन्यथा गोत्रयुवसंज्ञयोः समावेशे योऽयं दोषो वक्ष्यते - शालङ्केरपत्यं'यञिञोश्च' इति फक्, तस्य'पैलादिभ्यश्च' इति लुक्, शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायाम्'गोत्रे' लुगचिऽ इत्यलुक् प्राप्नोति, ततश्च'यूनि लुक्' इत्यस्य'फक्फिञोरन्यतरस्याम्' इति विकल्पितत्वात्पक्षे फकः श्रवणं प्राप्नोतीति स तदवस्थ एव स्यात्, असमावेशेऽपि यूनो लौकिकगोत्रत्वादेवालुक्प्रसङ्गात् । तदेवं गोत्रस्य बहुषु लोपिन इत्यादि न वक्तव्यमिति स्थितम् । एकवचनद्विवचननान्तस्येत्यादि । एकवचनान्तस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य वा बहुष्वर्थेषु युवसंज्ञकेषु प्रवृतौ संक्रान्तौ सत्यामित्यर्थः । लोप इति । लुगित्यर्थः । लोपे हि प्रत्ययलक्षणेन वृद्धिस्वरप्रसङ्गः । ननु च युवबहुत्वाश्रयो'यञञोश्च' इत्येवात्र लुक् सिद्धस्तत्राह - न ह्यत्राञ्बहुषूत्पन्न इति । अञ्यो बहुषु, यञ्यो बहुष्विति विज्ञायमाने लुग्न सिध्यतीत्यर्थः । यदा त्वञन्तं यद्वहुषु, यञन्तं यद्वहुष्विति विज्ञायते; तदाञन्तस्य बहुषु युवसु वृतेर्लौकिकस्य च गोत्रस्यापत्यमात्रस्य तत्र ग्रहणात्सिद्ध एव लुक् । तथा च - गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजाः, बैदश्च और्वश्च भारद्वाजाश्च बिदौर्वभारद्वाजा इति यञञोरुत्पत्तिवेलायामबहुत्वेऽपि द्वन्द्वे युगपधिकरणवचनतया यञन्तस्याञन्तस्य बहुत्वोपजनाल्लुग्भवति । न चैवं काश्यपस्यैकस्य बह्व्यः प्रतिकृतयः काश्यपा इति ठिवे प्रतिकृतौऽ इति विहितस्य कनः'जीविकार्थे चापण्ये' इति लुप्,'हरीतक्यादिषु व्यक्तिः' इति वचनाद् युक्तवद्वचनाभावेऽञन्तस्य बहुषु वृतेर्लुक्प्रसङ्गः; गोत्रबहुत्वे लुग्विधानात् ॥ Nyaas ----- `अचि` इति। यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयता प्रसज्येत। कथम्? गर्गस्यापत्यानि बहुनि **गर्गादिभ्यो यञ्** (4.1.105) , तस्य यदि लुक् स्याच्छो न स्यात्। लुप्तेऽपि तस्मिन् **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति चेत्? **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलोपप्रतिषेधाद्वृद्ध्यभावेन वृद्धसंज्ञा न स्यात्, ततश्च वृद्धलक्षणच्छो न स्यात्। तस्माद्वृद्धत्वं प्रातिपदिकस्य वाञ्छतोऽलुक् पूर्व स्यात्। स चालुक छे परतो यदि भवति ततश्चालुग्विनिमित्तश्छः, तन्निमित्तश्चालुगितिव्यक्तमितरेतराश्रयत्वम्। तदिमं परसप्तम्यां दोषं दृष्ट्वा विषयसप्तमीयमिति दर्शयन्नाह -`अजादौ प्राग्दीव्यतीये विषयभूते` इति। विषयभूते = अनुत्पन्न एव बुद्धिस्थ इत्यर्थः। `गार्गीयाः` इति। गर्गस्यापत्यानि बहूनि। गर्गादित्वाद्यञ् (4.1.105) । तस्य गर्गाणाञ्छात्रा इत्यर्थविवक्षायामजादावनुत्पन्ने बुद्ध्यभिमुखीकृते विषयभूते **यञिञोश्च** (4.1.101) इतियो लुक् प्राप्नोति तस्यानेन प्रतिषेधः क्रियते, ततश्चादिवृद्धौ कृतायां तन्निबन्धनायां च वृद्धसंज्ञायाम् **वृद्धाच्छः** (4.2.114) इति च्छः, ईयादेशः, **यस्येति च** (6.4.148) इत्यकारलोपः, **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इत यकारस्य। `वास्तीयाः` इति। पूर्वेण तुल्यम्। `आत्रेयीयाः` इति। अत्त्रेरपत्यानि बहूनि। **इतश्चानिञः** (4.1.122) इति ढक्, तस्य `अत्त्रिभृगुकुत्स` (2.4.65) इत्यादिना लुकि प्राप्तेऽत्रीणां छात्रा इति च्छे विषयभूते तस्य प्रतिषेधः। `खारपायणीयाः` इति। खरपस्यापत्यानि बहूनि। **नडादिभ्यः फक्** (4.1.99) , **यस्कादिभ्यो गोत्रे** (2.4.63) इति तस्य प्राप्तस्य लुकः खरपाणां छात्रा इति च्छे विषयभूते प्रतिषेधः।`कौबलम्, वादरम्` इति। कुबलीवदरीशब्दौ गौरादिङीषन्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः शेषमनुदात्तम्। तेन कुबल्या विकारः फलम्, वदर्या विकारः फलमित्यर्थविवक्षायाम्। **अनुदात्तादेरञ्** (4.2.44) तस्य **फले लुक्** (4.3.163) इति तयोर्लुग् यः प्राप्नोति तस्य कुबलस्येदं वदरस्येदमित्यर्थविवक्षायामजादौ छे विषयभूते प्रतिषेधो न भवति; गोत्रग्रहणात्। गोत्रे यः प्रत्ययो वाचकत्वेन वर्तते तस्य लुकः प्रतिषेधेन भवितव्यम्। न चायमञ् गोत्रे वाचकत्वेन वर्तते, अपि तु विकारे, तेन तस्य लुग्भवत्येव। तस्मिन् सति `लुक्तद्धितलुकि` (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्। अञि लुप्ते वृद्ध्यभावाद्वृद्धत्वं नास्तीत्यणेव भवति, न तु च्छः। `गर्गरूप्यम्, गर्गमयम्` इति। पूर्ववद्रूपमयटौ। यद्यत्रालुक् स्याद्गाग्र्यरूप्यं गाग्र्यमयमिति स्यात्। `गार्गीयम्` इति। **तस्मै हितम्** (5.1.5) इति `प्राक्क्रीताच्छः` (5.1.1) इति च्छः, स च प्राग्दीव्यतीयो न भवति; दीव्यतः परेण विधानात्। `गोत्रस्य` इति। गोत्रप्रत्ययस्य। `बहुषु लोपिनः` इति। बहुष्वर्थेषूत्पन्नस्य यस्य लोपो विधीयते स बहुषु लोपी। `बहुवचनान्तस्य प्रवृत्तौ` इति। प्रवृत्तिः = अर्थान्तरसंक्रान्तिः। एतदुक्तं भवति - बहुवचनान्तस्यार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यूनि प्रत्यय उत्पद्यते तदा भवतीति वेदितव्यम्; तदा गोत्रान्तस्य यूनि प्रवृत्तेः। `द्वयेकयोः` इति। यदा गोत्रप्रत्ययान्तादेकस्मिन्नर्थे यूनि द्वयोर्वा यूनोः उत्पद्यते तदाऽर्थान्तरसंक्रान्तौ सत्यामलुग्भवति। बिदस्यापत्यानिबहुनि। `अनुष्यानन्तर्ये बिदादिभ्योऽञ` (4.1.104) इत्यञ्, स च **यञञोश्च** (2.4.64) इति बहुषु लुग्विधानाद्बहुषु लोपी भवति, तदन्ताद्युवविवक्षायामेकस्मिन् यूनि द्वयोर्वा `अत इञ्` (4।195), तस्य ण्यक्षत्त्रियादिसूत्रेण (2।458) लुकि कृते गोत्रप्रत्ययान्तस्य तस्यार्थान्तरसंक्रान्तौ सत्यां गोत्रप्रत्ययस्याञ इहापि बहुषूत्पन्नस्य लग्न भवति। कथं पुनर्न भवति, यावताऽलुको विषयाभावात् प्राग्दीव्यतीयोऽजातिरिञ् प्रत्यय उपनीतः? प्रत्ययलक्षणम्` (व्या।प।96) इति च परिभाषा। यथा गवे हितं गोहितमिति चतुर्थीसमासे सुब्लुकि कृते प्रत्ययलक्षणेन चतुर्थीविभक्तिमाश्रित्य गोशब्दस्य `एचोऽयवायावः` इत्यवादेशो न भवति; वर्णाश्रयत्वात्। वर्णाश्रयत्वं तु तस्याचि विधानात्। यथा च `वर्णाश्रये नास्ति प्रत्ययलक्षणम्ट (व्या।प।96) इति परिभाषा, तथा बैदः, बैदौ - इत्यत्राप्यलुका वर्णाश्रयतया न भवितव्यम्? नैतदस्ति, न ह्रलुगत्र वर्णाश्रयः, किं तर्हि? तद्धिताश्रयः। अचीत्येतत् त्विह सूत्रे विशेषणत्वेनोक्तम्। अत एव वृत्तावुक्तम् - अजादौ प्राग्दीव्यतीये प्रत्यय इति। तस्मात् तस्याः परिभाषाया इहोवस्थानेऽसति `गोत्रेऽलुगचि` इति भवतीति, अनेनैवात्रालुक् सिद्धः। स च बहुषु युवसु मा भूदिति द्वयेकयोरेवेत्युपसंख्यानम्। तत्र बिदा इत्येव भवति।`एकवचनद्विवचनान्तस्य` इत्यादि। एकवचनान्ततस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य च बहुष्वर्थेषु युवसंज्ञकेषु प्रवृत्तौ संक्रान्तौ सत्यां लुग्वक्तव्यः। तत्र बैदस्येत्येकवचनान्तं गोत्रम्, बैदयोरिति द्विवचनान्तम्। अत्र च पूर्ववदञ्, तयोर्युवापत्यबहुत्वविवक्षायाम् `अत इञ्` (4.1.95) । तस्य ण्यक्षत्त्रियादिसूत्रेण (2.4.58) लुकि कृतेऽञोऽपि गोत्रप्रत्ययस्य लुगिष्यते। स च न प्राप्नोति, तस्मादुपसंख्यायते। किं पुनः कारणं न प्राप्नोति? इत्याह - `न ह्यत्र` इत्यादि। **यञञोश्च** (2.4.64) इति अनेन हि बहुषूत्पन्नोर्लुग्विधीयते, न चाञ् हुहषूत्पन्न,किं तर्हि? एकस्मिन् द्वयोश्च, तस्मान्न प्राप्नोतीति। तदेवं सर्वथा बहुषु बिदा इत्येवं भवितव्यमिति स्थितम्॥