41088: द्विगोर्लुगनपत्ये ======================== **Padacheda:** द्विगोः | S | 6 | 1 | लुक् | S | 1 | 1 | अनपत्ये | S | 7 | 1 | Sutrartha --------- **तद्धितार्थे विहितस्य द्विगु-समासस्य विषये अपत्यार्थं विहाय अन्येषु प्राग्दीव्यतीय-अर्थेषु विहितानां अजादि-तद्धितप्रत्ययानाम् लुक् भवति ।** 'द्विगु' इति तत्पुरुषसमासस्य कश्चन भेदः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) अनेन सूत्रेण अस्य समासस्य तद्धितार्थस्य विषये विधानम् कृतमस्ति । अस्यां प्रक्रियायाम् विहितस्य अजादि-तद्धितप्रत्ययस्य अनेन सूत्रेण लुक् भवति । यथा - 1. 'द्वौ वेदौ अधीते सः' इत्यत्र आदौ 'द्वौ' शब्दस्य 'वेदौ' शब्देन सह द्विगु समासं कृत्वा अग्रे **तदधीते तद्वेद** (4.2.59) इत्यस्मिन् अर्थे **प्राग्दीव्यतोऽण्** (4.1.83) इत्यनेन अण्-प्रत्ययः भवति । 'द्विवेद + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'द्विवेद' इत्येव रूपं सिद्ध्यति । अतः - द्वौ वेदौ अधीते सः द्विवेदः । तथैव, त्रीन् वेदान् अधीते सः त्रिवेदः । चतुरः वेदान् अधीते सः चतुर्वेदः । 2. 'पञ्चसु कपालेषु संस्कृतः' इत्यत्र 'पञ्चसु' शब्दस्य 'कपालेषु' शब्देन सह समासं कृत्वा अग्रे **संस्कृतं भक्षाः** (4.2.16) इत्यनेन अण्-प्रत्ययः भवति । 'पञ्चकपाल + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'पञ्चकपाल' इत्येव रूपं सिद्ध्यति । ज्ञातव्यम् - 1. यदि प्रत्ययः अजादिः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पञ्चभ्यः गर्गेभ्यः आगतम्' इत्यत्र **हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः** (4.3.81) इत्यनेन 'रूप्य'प्रत्ययः विधीयते । अयम् प्रत्यययः अजादिः नास्ति, अतः अस्य लुक् अपि न भवति, अतः 'पञ्चगर्गरूप्य' इति प्रातिपदिकं सिद्ध्यति । 2. अपत्यार्थे विहितस्य तद्धितप्रत्ययस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, 'द्वयोः मित्रयोः अपत्यम्' इत्यत्र **अत इञ्** (4.1.95) इत्यनेन इञ्-प्रत्ययं कृत्वा 'द्वैमित्रि' इति प्रातिपदिकं सिद्ध्यति । 3. अनेन सूत्रेण विहितः प्रत्ययलुक् केवलं प्राग्दीव्यतीयेषु अर्थेषु एव अस्ति, अन्यत्र न । यथा, 'द्वयोः पारायणयोः कर्म वृत्तमस्य' इत्यत्र **कर्माध्ययने वृत्तम्** (4.4.63) इत्यनेन ठक्-प्रत्ययः भवति । अयम् प्रत्ययः प्राग्वहतीय-अधिकारे वर्तते, प्राग्दीव्यतीय न । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः द्विपारायण + ठक् → द्वैपारायणिक इति रूपं सिद्ध्यति । 4. यदि तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चकपालस्य इदम्' इत्यत्र यद्यपि द्विगुसमासः कृतः अस्ति, तथापि अयं द्विगुसमासः **तस्येदम्** (4.3.120) अस्मिन् अर्थे न क्रियते, अपितु **तस्येदम्** (4.3.120) इत्यस्य प्रयोगात् पूर्वमेव (तद्धितार्थभिन्नस्य विषये) अस्य समासस्य निर्माणं भवति । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अत्र लुग् अपि न भवति । 'पञ्चकपाल + अण् = पाञ्चकपाल' इत्येव प्रातिपदिकं सिद्ध्यति । 5. अस्मिन् सूत्रे वस्तुतः 'अजादि' इत्यस्य अनुवृत्तिः नास्ति । परन्तु कौमुदीकारः **गोत्रेऽलुगचि** (4.1.89) इत्यस्मात् सूत्रात् 'अचि' इति अपकर्षं कारयति । काशिकाकारः तु अस्य सूत्रस्य प्रसक्तिः 'सर्वेषाम् प्रत्ययानाम् विषये अस्ति' इति उक्त्वा इयम् 'व्यवस्थितविभाषा' अस्ति, अतः केषाञ्चन प्रत्ययानाम् विषये अस्य सूत्रस्य प्रसक्तिः न स्यात् - इति ब्रूते । Sutrartha (English) ------------------- In case of a द्विगु-समास that gets created in context of a तद्धितार्थ, the अजादि तद्धितप्रत्यय involved in this समास is removed. Vasu English Summary -------------------- A तद्धित affix ordained to come on account of the relation of the words being that of a द्विगु समास (Numeral Determinative Compound) is elided by लुक् when it has the sense of the various affixes taught antecedent to तेन दीव्यति खनति जयति जितम् (4.4.2) etc., but not so, the affix having the sense of a गोत्र (Patronymic). Vasu English Translation ------------------------ A तद्धित affix ordained to come on account of the relation of the words being that of a द्विगु समास (Numeral Determinative Compound) is elided by लुक् when it has the sense of the various affixes taught antecedent to तेन दीव्यति खनति जयति जितम् (4.4.2) etc., but not so, the affix having the sense of a गोत्र (Patronymic). The phrase प्राग्दिव्यतः of (4.1.83) governs this aphorism also, and not the phrase भवनात् of the last. Thus पञ्चसु कपालेषु संस्कृतः = पञ्चकपालः 'prepared in five cups.' Similarly दशकपालः "prepared in ten cups." द्विवेदः 'he who studies two Vedas.' त्रिवेदः "who studies three Vedas." Here the affixes denoting संस्कृतं (4.2.16), and अधीते (4.2.59) have been elided. Why do we say "not so when the affix denotes a Patronymic."? Observe द्वैदेवदत्तिः 'a descendant of two *Devadattas*.' त्रैदेवदत्तिः 'a descendant of three *Devadattas*.' Here the patronymic affix is not elided, though the compound is a *Dvigu*. Why do we say "when it has the sense of the various affixes taught antecedent to *tena* *divyati*?" Observe द्वैपारायणिकः ॥ The *Dvigu* compound with the sense of a *Taddhita* affix is formed under (2.1.51). The affix will not, therefore, be elided where it does not give rise to a *Dvigu* compound. Thus पञ्चकपालस्येदं = पाञ्चकपालम् ॥ Or the genitive case in द्विगोः may be taken as *sthana*-*shashthi*, the sense being 'there is the substitution of लुक्-elision in the room of *Dvigu*,' the word *Dvigu* being here taken by metonymy for the affix which gives rise to *Dvigu*. Of course, when two words have blended into a *Dvigu* compound, the affixes will not be elided after such a word, because it becomes a *pratipadika* like others, as पांचकपालम् ॥ If so, how is the affix elided in पञ्चकपाल्याम् संस्कृतः = पञ्चकपालः ?This is not so; there is no *Taddhita* added, and the word पञ्चकपाल can never be analysed into पञ्चकपाल्याम् संस्कृतः, ॥ If the latter sense is to be expressed, we must use a sentence, and no single word. In fact three are the only valid forms, and they arise without adding of any *Taddhita* affix to पञ्चकपाली, viz पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्लयां संस्कृतः, and पञ्चकपालः (a *Samahara* *Dvigu*). A *Samahara* and a *Taddhitartha* *Dvigu* of these are analysed in the same way, while the third पञ्चकपाल्याम् संस्कृतः will always remain a वाक्य and never give rise to a *Taddhita*. How do you explain the non-elision of the affix in त्रैविद्यः, पाञ्चनदः and षाट्कुलः ? The word त्रैविद्यः does not mean तिस्रो विद्या अधीते but त्र्यवयवा विद्या, त्रिविद्या, त्रिविद्यामधीते = त्रैविद्यः ॥ Similarly पाञ्चनदः does not mean पञ्चसु नदीषु भवः but पंचानाम् नदीनाम् समाहारः = पंचनदः, पंचनदे भवः = पांचनदः ॥ So also with षाट्कुलं ॥ Why the affix is not elided in पंचभ्यो गर्गेभ्य आगतं = पंचगर्गरूप्यम् or पंचगर्गमयम् ? Because the elision of those affixes only take place which begin with a vowel. Bhashya ------- द्विगोर्लुगनपत्ये (1333) (लुगधिकरणम्) (सूत्रार्थोपपादकभाष्यम्) इह कस्मान्न भवति -त्रैविद्यः, पाञ्ञ्चनदः, षाट्कुल इति? इह तावत् -त्रैविद्य इति - नैवं विज्ञायते -तिस्रौ विद्या अधीते त्रैविद्य इति। कथं तर्हि? त्र्यवयवा विद्या त्रिविद्या, त्रिविद्यामधीते त्रैविद्य इति। इहापि पाञ्ञ्चनद इति - नैवं विज्ञायते -पञ्ञ्चसु नदीषु भवः पाञ्ञ्चनद इति। कथं तर्हि? पञ्ञ्चानां नदीनां समाहारः पञ्ञ्चनदम्, पञ्ञ्चनदे भवः पाञ्ञ्चनद इति। षाट्कुल इति - नैवं विज्ञायते -षट्सु कुलेषु भवः षाट्कुल इति, कथं तर्हि? षण्णां कुलं षट्कुलम्, षट्कुले भवः षाट्कुल इति॥ (सूत्रार्थसंग्राहकभाष्यम्) अजादिग्रहणं च कर्तव्यम्। इह मा भूत् -पञ्ञ्चगर्गरूप्यम्, पञ्ञ्चगर्गमयम्॥ (5244 पूरकवार्तिकम् ॥ 1 ॥) - द्विगोर्लुकि तन्निमित्तग्रहणम् - (भाष्यम्) द्विगोर्लुकि तन्निमित्तग्रहणं कर्तव्यम्, द्विगुनिमित्तं यस्तद्धितः -तस्य लुग्भवतीति वक्तव्यम्। इह मा भूत् -पञ्ञ्चकपालस्येदं खण्डं पाञ्ञ्चकपालमिति॥ (5245 पूरकवार्तिकम्॥ 2 ॥) - अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि - (भाष्यम्) अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति वक्तव्यम्। किं प्रयोजनम्? पञ्ञ्चषु कपालेषु संस्कृतः पञ्ञ्चकपालः, पञ्ञ्चकपाल्यां संस्कृत इत्यपि विगृह्य पञ्ञ्चकपाल इत्येव यथा स्यात्॥ (जिज्ञासाभाष्यम्) अथ क्रियमाणेऽपि तन्निमितग्रहणे कथमिदं विज्ञायते - तस्य निमित्तं तन्निमित्तं तन्निमित्तादिति, आहो स्वित् स निमित्तमस्य सोऽयं तन्निमित्तस्तन्निमित्तादिति। किं चातः? यदि विज्ञायते -तस्य निमित्तं तन्निमित्तं तन्निमित्तादिति, क्रियमाणेऽपि तन्निमित्तग्रहणेऽत्र प्राप्नोति - पञ्ञ्चकपालस्येदं खण्डमिति॥ अथ विज्ञायते स निमित्तमस्यसोऽयं तन्निमित्तस्तन्निमित्तादिति, न दोषो भवति। यथा न दोषस्तथाऽस्तु॥ स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति विज्ञायते। कुत एतत्। यदयमाह -अर्थविशेषाऽसंप्रत्ययेऽतन्निमित्तादपीति॥ (प्रथमवार्तिकान्यथासिद्धिकरणभाष्यम्) तत्तर्हि निमित्तग्रहणं कर्तव्यम्? न कर्तव्यम्। द्विगोरिति नैषा पञ्ञ्चमी, का तर्हि? संबन्धे षष्ठी -द्विगोस्तद्धितस्य लुग्भवति। किञ्ञ्च द्विगोस्तद्धितः? निमित्तम्। यस्मिन् द्विगुरित्येतद्भवति। कस्मिंश्चैतद्भवति? प्रत्यये॥ (द्वितीयवार्तिकान्यथासिद्धिभाष्यम्) इदं तर्हि वक्तव्यम् -अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति। एतच्च न वक्तव्यम्। इहास्माभिस्त्रैशब्द्यं साध्यं -पञ्ञ्चसु कपालेषु संस्कृतः, पञ्ञ्चकपाल्यां संस्कृतः, पञ्ञ्चकपालः। दशकपाल इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यत्यव्यविकन्यायेन। तद्यथा -अवेर्मासमिति विगृह्याविकशब्दादुत्पत्तिर्भवति -आविकमिति। एवं पञ्ञ्चसु कपालेषु संस्कृत इति विगृह्य पञ्ञ्चकपाल इति भविष्यति। पञ्ञ्चकपाल्यां संस्कृत इति विगृह्य वाक्यमेव भविष्यति। त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवति॥ Kashika ------- प्राग् दीव्यत इति वर्तते, न भवनादिति। द्विगोरिति षष्ठी। द्विगोर्यः संबन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्यप्रत्ययं वर्जयित्वा, तस्य लुग् भवति। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। दशकपालः। द्वौ वेदावधीते द्विवेदः। त्रिवेदः। अनपत्य इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग् दीव्यत इत्येव — द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति — पञ्चकपालस्येदं पाञ्चकपालम्। अथवा द्विगोरेवायं लुग् विधीयते, द्विगोरिति स्थानषष्ठी। ननु च प्रत्ययादर्शनस्यैषा संज्ञा? सत्यमेतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्माद् न द्विगुरुच्यते पाञ्चकपालमिति? न तस्य द्विगुत्वं निमित्तम्। इतरस्तु द्विगुत्वस्यैव निमित्तमित्यस्ति विशेषः। यद्येवमिह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? नैवात्र तद्धित उत्पद्यते। वाक्यमेव भवति। त्रैशब्द्यं हि साध्यम् — पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः, पञ्चकपाल इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति । अथेह कस्माद् न भवति — पञ्चभ्यो गर्गभ्य आगतं पञ्चगर्गरूप्यम् पञ्चगर्गमयमिति? वेत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते ॥ Siddhanta Kaumudi ----------------- द्विगोर्निमित्तः यः तद्धितः अजादिः अनपत्यार्थः प्राग्दीव्यतीयः, तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तमिति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥ Balamanorama ------------ **द्विगोर्लुगनपत्ये** - द्विगोर्लुगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात्प्रत्ययस्येत्युपस्थितम्, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । तताचद्विगुनिमित्तस्य प्रत्ययस्य लु॑गिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति तद्धितार्थे विषये तद्विधानात् । ततश्चद्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । द्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । प्राग्दीव्यत॑ इत्यनुवृत्तेः । तद्धितविशेषणं ।गोत्रेऽलुगची॑त्युत्तरसूत्रेऽचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहाऽपकृष्यते । तच्च षष्ठआ विपरिणतं तद्धितविशेषणम् । तदाह — द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् । तद्धितार्थे द्विगुः । अणो लुक् । प्रत्ययलक्षणाऽभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासेऽणो लुकि निष्पन्नात्पञ्चकपालशब्दात्तस्येद॑मित्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राऽणोलुङ्न भवति अणो द्विगुनिमित्तत्वाऽभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । 'तद्ध#इतार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाऽभावान्न लुगिति भावः । द्वैमित्रिरिति । अत्रअत इ॑ञिति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्नो विद्या अधीयानस्तैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यं, त्र्यवयवा विद्या त्रिविद्या । शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाऽभावात् । प्राग्दीव्यतीयस्येति । किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् । Tattvabodhini ------------- **द्विगोर्लुगनपत्ये** - द्विगोर्लुगनपत्ये । द्विगोरिति षष्ठी, तदर्थश्च हेतुत्वं, तच्च भाविनोऽप्युपपद्यते, बुद्द्याध्यवसायादित्याशयेनाह — द्विगोर्निमित्तमिति । अजादिरिति । एतच्चोत्तरसूत्रात्,अचि॑ इत्यपकर्षाल्लभ्यते, वाग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणेन वा । प्राग्दीव्यतीयः किम् । पञ्चम्यः कपालेभ्यो हितं पञ्चकपालीयम् । Padamanjari ----------- द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम्'तस्येदम्' इत्यण्, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ।ल्पि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ।लश्रयणमनर्थकं स्यादिति मत्वाऽऽह - द्विगोर्यः सम्बन्धी निमितत्वेनेति । यस्य तद्धितस्यार्थे'तद्धितार्थोतरपद' इति द्विगुविहितः स निमितत्वेन सम्बन्धी । पञ्चकपाल इति ।'संस्कृतं भक्षाः' इत्यत्रार्थे विवक्षिते द्विगुः, अम्, तस्य लुक् । द्विवेद इति ।'तदधीते तद्वेद' इत्यत्रार्थे द्विगुः । द्वैदेवदतिरिति । द्वयोर्देअवदतयोरपत्यम्, ठत इञ्ऽ, अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदतसंज्ञकौ स एवमुच्यते, एकस्य वा दतपुत्रोऽन्यस्य साक्षात्पुत्रः । द्विगुनिमितविज्ञानादिति । द्विगुनिमितस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव - द्विगोर्निमितं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग् लभ्यत इत्याह - द्विगोरिति स्थानषष्ठीति । ननु चेत्यादि ।'प्रत्ययस्य लुक्श्लुलुपः' इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपःऊपचारः, परत्र परशब्दप्रयोगःउलक्षणा, उपचारेण निमितेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमितत्वम् । भवति हि कारणे कार्योपचारः - आयुर्घृतमिति यथा । द्विगुनिमितकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा - पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमितं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमितभूतो धर्मो विवक्षितः, तन्निमिता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति - न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पतौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमितमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमितम् । यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमितत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमितत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चातद्धित उत्पद्यते, स च द्विगोर्निमितं न भवतीति चोद्यार्थः । परिहरति - नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह - त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यमुचातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दातद्धितोत्पतिमन्तरेणापि सिद्ध्यतीति नास्मातद्धित उत्पद्यते । तानेव त्रीन् शब्दान्दर्शयति - पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पतिः; अनभिधानात् । अपरस्मात् पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति । सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्कुल इत्यत्रापि लुग्न भवति । अथ वा - त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्,'नदीभिश्च' इत्यव्ययीभावः'गोदावर्याश्च नद्याश्च' इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा - अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ॥ Nyaas ----- `प्राग्दीव्यतः` इति। तस्य स्वरितत्वात्। `न भवनात्िति। विपर्ययात्। द्विगोरिति पञ्चमी चेयं स्यात्? षष्ठी वा? तत्र यदि पञ्चमी, तदायमर्थः स्यात् - द्विगोः परस्यानप्रत्यप्रत्ययस्य प्राग्दीयव्यतीयस्य लुग्भवतीति। ततश्च यथा द्विगुसंज्ञानिमित्तस्य लुग्भवति - पञ्चकपालेषु संस्कृतः पुरोडाशः पञ्चकपाल इति, तथा यो द्विरगोर्निमित्तं न भवति तस्यापि स्यात् - पञ्चकपालस्य पुरोडाशस्येदं खण्डम्। **तस्येदम्** (4.3.120) इत्यण् - पाञ्चकपालमिति। तमिमं पञ्चमीपक्षे दोषं दृष्ट्वा, षष्टीपक्षमाश्रित्याह - द्विगोरिति षष्ठी` इति। `द्विगोर्यः सम्बन्धी` इति। यस्य तद्धितस्यार्थे **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति समाहारद्विगुर्विधीयते स द्विगोः सम्बन्धीति; अर्थद्वारेण तदर्थस्य द्विगुसम्बन्धित्वात्। सोऽपि तद्द्वारेण द्विगुसम्बन्धी। `निमित्तत्वेन`इति। अनेन निमित्तनैमित्तिकभावेन यः सम्बन्धो तस्य लुग्भवति, न तु पौर्वापर्यभावेन यस्तस्येति दर्शयति। एतच्च निमित्तनैमित्तिकभावस्यान्तरङ्गत्वाल्लभ्यते। स हि द्विगोराद्यस्तद्धितेन सम्बन्धः; तस्मात् स गृह्रते। पौर्वापर्यभावस्तूत्तरकालमपि भवतीति बहिरङ्गो भवति, अतो न तस्य ग्रहणम्। `पञ्चकपालः` इति। पञ्चसु कपालेषु संस्कृत इति `तद्धितार्थ` (2.1.50) इति समासः, **संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसंज्ञा, **संस्कृतम्** (4.4.3) इत्यण्, तस्य लुक्। `द्विवेदः`इति। द्वौ वेदावधीत इति पूर्ववत्समासः, **तदधीते तद्वेद** (4.2.59) इत्यण्।`द्वैदेववत्तिः` इति। द्वयोर्देवदत्तयोरपत्यमिति `अत इञ्` (4.1.95) । `पञ्चकपालस्येदमिति पाञ्चकपालम्` इति। अत्र संस्कृतार्थे यः प्रथमः प्रत्यय उत्पन्नः स एव द्विगोर्निमित्तम्, न तु य उत्तरकालं तस्येदमित्यर्थविवक्षायाम्। न हि तस्यार्थे विषयभूते द्विगुर्विहितः, किं तर्हि? संस्कृतार्थे यो विहितस्तस्य। तेनाद्विगुनिमित्तत्वात् `तस्येदम्` इति यो विहितस्तस्येह लुग्न भवति। `अथ वा` इत्यादि। पूर्वं हि द्विगोर्यस्तद्धितो निमित्तं तस्य लुग्विहितः, इदानीं द्विगोरेव विधीयत इत्यस्ति विशेषः। कथं पुनर्द्विगोरेव लुग्भवति? इत्यत आह - `द्विगोरिति स्थानषष्ठी` इति।`ननु च` इत्यादिनानन्तरोकक्तव्याख्यानं विघटयति। **प्रत्ययस्य लुक्श्लुलुपः** (1.1.61) इतिलुगादिकाः प्रत्ययादर्शनस्यैताः संज्ञा विहिताः, ततो लुगुच्यमानोऽनेन न शक्तो द्विगोरेव लुकं विधातुमित्याभिप्रायः। `सत्यमेतत्` इति। यदनन्तरमुक्तम्। यद्येवम्, कथं लुक्संज्ञाया द्विगोर्लुग्लभ्यते? इत्यत आह - `उपाचारेण तु` इत्यादि। अतथाभूते वस्तुनि योऽध्यारोपिततथाभावो ज्ञानविशेषः स उपचारः। लक्ष्यतेऽनयेति लक्षणा, सापुनरिहोपचार एव `एतेन हृद्विगुरूपस्तद्धितो द्विगुरूपतया लक्ष्यते। यथा मञ्चाः क्रोशन्तीत्यत्रामञ्चरूपा अपि पुरुषा मञ्चरूपतया लक्ष्यन्ते, तथेहाप्यद्विगुरूपस्तद्धितो द्विगुरूपतया। उपचारस्य तु निबन्धनं द्विगुनिमित्तभूतत्वम्, यदाह - ` द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः` इति। भवति हि कारणे कार्योपचारः, यथा - आयुर्घृतमिति। `द्विगुनिमित्तकोऽपि तर्हि` इत्यादि। द्विगुर्निमित्तं यस्य स तथोक्तः। यो धर्म उपचारस्य निबन्धनं स इह गुणशब्देन विवक्षितः। गुणनिमित्ता कल्पना = गुणनिमित्तकल्पना, सा पुनरुपचारात्मिकैव वेदितव्या। यद्युपचारेण द्विगोर्निमित्तं प्रत्ययोऽपि द्विगुरुच्यते, द्विगुर्यस्य निमित्तं सोऽप#इ गौण्या कल्पनया कस्माद्द्विगुरिति नोच्यते? कार्येऽपि हि कारणशब्द उपचारात् प्रयुज्यमानो विद्यत एव, यथा - पुरातनं सर्वमिदं शुभाशुभं कर्म भुज्यत इति। `पाञ्चकपालम्` इति। पञ्चकपालस्य पुरोडाशस्येदं खण्डमित्यण्, स च द्विगोरुत्पन्नत्वाद्द्विगुनिमित्तक इत्यभिप्रायः। न तस्य द्विगुत्वं निमित्तमिति निष्पन्नत्वाद्द्वगोस्तद्धितस्योत्पद्यमानस्य न द्विगुत्वं निमित्तं, किं तर्हि? प्रातिपदिकम्। तथा हि - नासौ द्विगुरित्येवं विधीयते, किं तर्हि? प्रातिपदिकादित्येवम्। तस्मात् सन्निहिताऽपि द्विगुता न प्रत्ययस्य निमित्तमिति, न च प्रत्ययो द्विगुरित्युपचारेण व्यपदेष्टुं शक्यत इति। `इतरस्तु` इति। तद्धितप्रत्ययः, यस् मूलोदाहरणे लुग्दर्शितः। `द्विगुत्वस्यैव निमित्तम्` इति। एवकारेण प्रातिपदिकस्य व्यवच्छेदः क्रियते - द्विगुत्वस्यैव निमित्तम्, न तु प्रातिपदिकत्वस्य; यतस्तदर्थे द्विगुसमासो विधीयते,न तु प्रातिपदिकत्वमित्यस्ति विशेषः। ततश्च द्विगोर्यो निमित्तं तत्रैव द्विगुत्वव्यपदेश उपाचाराद्भवति। न तु निष्पन्नाद्द्विगोर्य उत्पद्यते तत्रापि।`यद्येवम्ित्यादि। यदि द्विगोर्यो निमित्तं तद्धितः सोऽत्र निमित्तत्वादुपाचारेण द्विगुरुच्यते तस्य लोपो भथवि। एवं सतीह कथं लोपः - पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? अत्र हि पञ्चानां कपालानां समाहार इति समाहारे द्विगौ निष्पन्ने ततस्तूत्तरकालं तद्धितो विधीयमानो न द्विगोर्निमित्तं भवति। `नैवात्र` इत्यादि परिहारः। कस्मान्नोत्पद्यत इत्याह - `त्रैशब्द्यं हि` इत्यादि। त्रय एव शब्दाः = त्रैशब्द्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। इहास्माभिस्त्रैशब्द्यं साध्यम्। पञ्चकपालीशब्दस्तद्धितोत्पत्तिमन्तरेणापि सिद्धतीति न तस्मात् तद्धित उत्पद्यते। `पञ्चसु कपालेषु संस्कृतः` इत्यादिना त्रैशब्द्यं दर्शयति। `द्वयोः शब्दयोः` इत्यादि। यश्च समाहारे पञ्चकपालीशब्दः, यश्च तद्धितार्थविषये समासे पञ्चकपालशब्दस्तौ द्वावपि समानार्थौ,तयोरेकेन पूर्वेण विग्रह एवेति तस्मान्न तद्धितोत्पत्तिर्विज्ञेया। `अपरस्मादुत्पत्तिः` इति। पञ्चकपालशब्दात्। अव्यविकन्यायेन। यथाऽवेर्मांसमाविकमित्यविशब्देन विग्रहः,अविशब्दस्तु प्रत्ययमुत्पादयति तद्वदिहापि।`अथेह कस्मान्न भवति` इत्यादि। रूप्यमयटावपि हि द्विगोर्निमित्तभूतौ, अतस्तयोरपि लुका भवितव्यमिति भावः। `वेत्यनुवर्तते` इति **समर्थानां प्रथमाद्वा** (4.1.82) इत्यतः। नन्वेवमपि सर्वत्र विकल्पेन लुक् प्राप्नोतीत्यत आह - `सा च` इत्यादि। च शब्दो हेतौ। यस्मात् सा व्यवस्थितविभाषा विज्ञायते, तेन पञ्चकपाल इत्यादौ नित्यं लुग्भवति। पञ्चगर्गरूप्यमित्यादौ न भवत्येव॥ Sutra Prayogas -------------- * **त्रै-मातुरः** (भट्टिकाव्यम्): `द्विगोर्लुगनपत्ये` इति लुक् न भवति ।